Sūkta 31
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kavaṣa Ailūṣa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (2, 4, 5, 7, 11); nicṛttriṣṭup (1, 8); virāṭtrisṭup (3, 10); pādanicṛttriṣṭup (6); svarāḍārcītriṣṭup (9)
2nd set of styles triṣṭubh
-
Ṛk 1
आ नो॑ दे॒वाना॒मुप॑ वेतु॒ शंसो॒ विश्वे॑भिस्तु॒रैरव॑से॒ यज॑त्रः ।
तेभि॑र्व॒यं सु॑ष॒खायो॑ भवेम॒ तरं॑तो॒ विश्वा॑ दुरि॒ता स्या॑म ॥आ नो देवानाम् उप वेतु शंसो विश्वेभिस् तुरैर् अवसे यजत्रः |
तेभिर् वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ||ā́ no devā́nāmúpa vetu śáṃso víśvebhisturáirávase yájatraḥ ǀ
tébhirvayám suṣakhā́yo bhavema táranto víśvā duritā́ syāma ǁā no devānām upa vetu śaṃso viśvebhis turair avase yajatraḥ |
tebhir vayaṃ suṣakhāyo bhavema taranto viśvā duritā syāma ||आ । नः॒ । दे॒वाना॑म् । उप॑ । वे॒तु॒ । शंसः॑ । विश्वे॑भिः । तु॒रैः । अव॑से । यज॑त्रः ।
तेभिः॑ । व॒यम् । सु॒ऽस॒खायः॑ । भ॒वे॒म॒ । तर॑न्तः । विश्वा॑ । दुः॒ऽइ॒ता । स्या॒म॒ ॥आ । नः । देवानाम् । उप । वेतु । शंसः । विश्वेभिः । तुरैः । अवसे । यजत्रः ।
तेभिः । वयम् । सुऽसखायः । भवेम । तरन्तः । विश्वा । दुःऽइता । स्याम ॥ā́ ǀ naḥ ǀ devā́nām ǀ úpa ǀ vetu ǀ śáṃsaḥ ǀ víśvebhiḥ ǀ turáiḥ ǀ ávase ǀ yájatraḥ ǀ
tébhiḥ ǀ vayám ǀ su-sakhā́yaḥ ǀ bhavema ǀ tárantaḥ ǀ víśvā ǀ duḥ-itā́ ǀ syāma ǁā ǀ naḥ ǀ devānām ǀ upa ǀ vetu ǀ śaṃsaḥ ǀ viśvebhiḥ ǀ turaiḥ ǀ avase ǀ yajatraḥ ǀ
tebhiḥ ǀ vayam ǀ su-sakhāyaḥ ǀ bhavema ǀ tarantaḥ ǀ viśvā ǀ duḥ-itā ǀ syāma ǁ10.31.1 Aṣṭaka 7.7.27.1Anuvāka 10.3.16
-
Ṛk 2
परि॑ चि॒न्मर्तो॒ द्रवि॑णं ममन्यादृ॒तस्य॑ प॒था नम॒सा वि॑वासेत् ।
उ॒त स्वेन॒ क्रतु॑ना॒ सं व॑देत॒ श्रेयां॑सं॒ दक्षं॒ मन॑सा जगृभ्यात् ॥परि चिन् मर्तो द्रविणम् ममन्याद् ऋतस्य पथा नमसा विवासेत् |
उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षम् मनसा जगृभ्यात् ||pári cinmárto dráviṇam mamanyādṛtásya pathā́ námasā́ vivāset ǀ
utá svéna krátunā sám vadeta śréyāṃsam dákṣam mánasā jagṛbhyāt ǁpari cin marto draviṇam mamanyād ṛtasya pathā namasā vivāset |
uta svena kratunā saṃ vadeta śreyāṃsaṃ dakṣam manasā jagṛbhyāt ||परि॑ । चि॒त् । मर्तः॑ । द्रवि॑णम् । म॒म॒न्या॒त् । ऋ॒तस्य॑ । प॒था । नम॑सा । आ । वि॒वा॒से॒त् ।
उ॒त । स्वेन॑ । क्रतु॑ना । सम् । व॒दे॒त॒ । श्रेयां॑सम् । दक्ष॑म् । मन॑सा । ज॒गृ॒भ्या॒त् ॥परि । चित् । मर्तः । द्रविणम् । ममन्यात् । ऋतस्य । पथा । नमसा । आ । विवासेत् ।
उत । स्वेन । क्रतुना । सम् । वदेत । श्रेयांसम् । दक्षम् । मनसा । जगृभ्यात् ॥pári ǀ cit ǀ mártaḥ ǀ dráviṇam ǀ mamanyāt ǀ ṛtásya ǀ pathā́ ǀ námasā ǀ ā́ ǀ vivāset ǀ
utá ǀ svéna ǀ krátunā ǀ sám ǀ vadeta ǀ śréyāṃsam ǀ dákṣam ǀ mánasā ǀ jagṛbhyāt ǁpari ǀ cit ǀ martaḥ ǀ draviṇam ǀ mamanyāt ǀ ṛtasya ǀ pathā ǀ namasā ǀ ā ǀ vivāset ǀ
uta ǀ svena ǀ kratunā ǀ sam ǀ vadeta ǀ śreyāṃsam ǀ dakṣam ǀ manasā ǀ jagṛbhyāt ǁ10.31.2 Aṣṭaka 7.7.27.2Anuvāka 10.3.17
-
Ṛk 3
अधा॑यि धी॒तिरस॑सृग्र॒मंशा॑स्ती॒र्थे न द॒स्ममुप॑ यं॒त्यूमाः॑ ।
अ॒भ्या॑नश्म सुवि॒तस्य॑ शू॒षं नवे॑दसो अ॒मृता॑नामभूम ॥अधायि धीतिर् अससृग्रम् अंशास् तीर्थे न दस्मम् उप यन्त्य् ऊमाः |
अभ्य् आनश्म सुवितस्य शूषं नवेदसो अमृतानाम् अभूम ||ádhāyi dhītírásasṛgramáṃśāstīrthé ná dasmámúpa yantyū́māḥ ǀ
abhyā́naśma suvitásya śūṣám návedaso amṛ́tānāmabhūma ǁadhāyi dhītir asasṛgram aṃśās tīrthe na dasmam upa yanty ūmāḥ |
abhy ānaśma suvitasya śūṣaṃ navedaso amṛtānām abhūma ||अधा॑यि । धी॒तिः । अस॑सृग्रम् । अंशाः॑ । ती॒र्थे । न । द॒स्मम् । उप॑ । य॒न्ति॒ । ऊमाः॑ ।
अ॒भि । आ॒न॒श्म॒ । सु॒वि॒तस्य॑ । शू॒षम् । नवे॑दसः । अ॒मृता॑नाम् । अ॒भू॒म॒ ॥अधायि । धीतिः । अससृग्रम् । अंशाः । तीर्थे । न । दस्मम् । उप । यन्ति । ऊमाः ।
अभि । आनश्म । सुवितस्य । शूषम् । नवेदसः । अमृतानाम् । अभूम ॥ádhāyi ǀ dhītíḥ ǀ ásasṛgram ǀ áṃśāḥ ǀ tīrthé ǀ ná ǀ dasmám ǀ úpa ǀ yanti ǀ ū́māḥ ǀ
abhí ǀ ānaśma ǀ suvitásya ǀ śūṣám ǀ návedasaḥ ǀ amṛ́tānām ǀ abhūma ǁadhāyi ǀ dhītiḥ ǀ asasṛgram ǀ aṃśāḥ ǀ tīrthe ǀ na ǀ dasmam ǀ upa ǀ yanti ǀ ūmāḥ ǀ
abhi ǀ ānaśma ǀ suvitasya ǀ śūṣam ǀ navedasaḥ ǀ amṛtānām ǀ abhūma ǁ10.31.3 Aṣṭaka 7.7.27.3Anuvāka 10.3.18
-
Ṛk 4
नित्य॑श्चाकन्या॒त्स्वप॑ति॒र्दमू॑ना॒ यस्मा॑ उ दे॒वः स॑वि॒ता ज॒जान॑ ।
भगो॑ वा॒ गोभि॑रर्य॒मेम॑नज्या॒त्सो अ॑स्मै॒ चारु॑श्छदयदु॒त स्या॑त् ॥नित्यश् चाकन्यात् स्वपतिर् दमूना यस्मा उ देवः सविता जजान |
भगो वा गोभिर् अर्यमेम् अनज्यात् सो अस्मै चारुश् छदयद् उत स्यात् ||nítyaścākanyātsvápatirdámūnā yásmā u deváḥ savitā́ jajā́na ǀ
bhágo vā góbhiraryamémanajyātsó asmai cā́ruśchadayadutá syāt ǁnityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna |
bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt ||नित्यः॑ । चा॒क॒न्या॒त् । स्वऽप॑तिः । दमू॑नाः । यस्मै॑ । ऊं॒ इति॑ । दे॒वः । स॒वि॒ता । ज॒जान॑ ।
भगः॑ । वा॒ । गोभिः॑ । अ॒र्य॒मा । ई॒म् । अ॒न॒ज्या॒त् । सः । अ॒स्मै॒ । चारुः॑ । छ॒द॒य॒त् । उ॒त । स्या॒त् ॥नित्यः । चाकन्यात् । स्वऽपतिः । दमूनाः । यस्मै । ऊं इति । देवः । सविता । जजान ।
भगः । वा । गोभिः । अर्यमा । ईम् । अनज्यात् । सः । अस्मै । चारुः । छदयत् । उत । स्यात् ॥nítyaḥ ǀ cākanyāt ǀ svá-patiḥ ǀ dámūnāḥ ǀ yásmai ǀ ūṃ íti ǀ deváḥ ǀ savitā́ ǀ jajā́na ǀ
bhágaḥ ǀ vā ǀ góbhiḥ ǀ aryamā́ ǀ īm ǀ anajyāt ǀ sáḥ ǀ asmai ǀ cā́ruḥ ǀ chadayat ǀ utá ǀ syāt ǁnityaḥ ǀ cākanyāt ǀ sva-patiḥ ǀ damūnāḥ ǀ yasmai ǀ ūṃ iti ǀ devaḥ ǀ savitā ǀ jajāna ǀ
bhagaḥ ǀ vā ǀ gobhiḥ ǀ aryamā ǀ īm ǀ anajyāt ǀ saḥ ǀ asmai ǀ cāruḥ ǀ chadayat ǀ uta ǀ syāt ǁ10.31.4 Aṣṭaka 7.7.27.4Anuvāka 10.3.19
-
Ṛk 5
इ॒यं सा भू॑या उ॒षसा॑मिव॒ क्षा यद्ध॑ क्षु॒मंतः॒ शव॑सा स॒माय॑न् ।
अ॒स्य स्तु॒तिं ज॑रि॒तुर्भिक्ष॑माणा॒ आ नः॑ श॒ग्मास॒ उप॑ यंतु॒ वाजाः॑ ॥इयं सा भूया उषसाम् इव क्षा यद् ध क्षुमन्तः शवसा समायन् |
अस्य स्तुतिं जरितुर् भिक्षमाणा आ नः शग्मास उप यन्तु वाजाः ||iyám sā́ bhūyā uṣásāmiva kṣā́ yáddha kṣumántaḥ śávasā samā́yan ǀ
asyá stutím jaritúrbhíkṣamāṇā ā́ naḥ śagmā́sa úpa yantu vā́jāḥ ǁiyaṃ sā bhūyā uṣasām iva kṣā yad dha kṣumantaḥ śavasā samāyan |
asya stutiṃ jaritur bhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ ||इ॒यम् । सा । भू॒याः॒ । उ॒षसा॑म्ऽइव । क्षाः । यत् । ह॒ । क्षु॒ऽमन्तः॑ । शव॑सा । स॒म्ऽआय॑न् ।
अ॒स्य । स्तु॒तिम् । ज॒रि॒तुः । भिक्ष॑माणाः । आ । नः॒ । श॒ग्मासः॑ । उप॑ । य॒न्तु॒ । वाजाः॑ ॥इयम् । सा । भूयाः । उषसाम्ऽइव । क्षाः । यत् । ह । क्षुऽमन्तः । शवसा । सम्ऽआयन् ।
अस्य । स्तुतिम् । जरितुः । भिक्षमाणाः । आ । नः । शग्मासः । उप । यन्तु । वाजाः ॥iyám ǀ sā́ ǀ bhūyāḥ ǀ uṣásām-iva ǀ kṣā́ḥ ǀ yát ǀ ha ǀ kṣu-mántaḥ ǀ śávasā ǀ sam-ā́yan ǀ
asyá ǀ stutím ǀ jaritúḥ ǀ bhíkṣamāṇāḥ ǀ ā́ ǀ naḥ ǀ śagmā́saḥ ǀ úpa ǀ yantu ǀ vā́jāḥ ǁiyam ǀ sā ǀ bhūyāḥ ǀ uṣasām-iva ǀ kṣāḥ ǀ yat ǀ ha ǀ kṣu-mantaḥ ǀ śavasā ǀ sam-āyan ǀ
asya ǀ stutim ǀ jarituḥ ǀ bhikṣamāṇāḥ ǀ ā ǀ naḥ ǀ śagmāsaḥ ǀ upa ǀ yantu ǀ vājāḥ ǁ10.31.5 Aṣṭaka 7.7.27.5Anuvāka 10.3.20
-
Ṛk 6
अ॒स्येदे॒षा सु॑म॒तिः प॑प्रथा॒नाभ॑वत्पू॒र्व्या भूम॑ना॒ गौः ।
अ॒स्य सनी॑ळा॒ असु॑रस्य॒ योनौ॑ समा॒न आ भर॑णे॒ बिभ्र॑माणाः ॥अस्येद् एषा सुमतिः पप्रथानाभवत् पूर्व्या भूमना गौः |
अस्य सनीऌआ असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ||asyédeṣā́ sumatíḥ paprathānā́bhavatpūrvyā́ bhū́manā gáuḥ ǀ
asyá sánīḷā ásurasya yónau samāná ā́ bháraṇe bíbhramāṇāḥ ǁasyed eṣā sumatiḥ paprathānābhavat pūrvyā bhūmanā gauḥ |
asya sanīḷā asurasya yonau samāna ā bharaṇe bibhramāṇāḥ ||अ॒स्य । इत् । ए॒षा । सु॒ऽम॒तिः । प॒प्र॒था॒ना । अभ॑वत् । पू॒र्व्या । भूम॑ना । गौः ।
अ॒स्य । सऽनी॑ळाः । असु॑रस्य । योनौ॑ । स॒मा॒ने । आ । भर॑णे । बिभ्र॑माणाः ॥अस्य । इत् । एषा । सुऽमतिः । पप्रथाना । अभवत् । पूर्व्या । भूमना । गौः ।
अस्य । सऽनीळाः । असुरस्य । योनौ । समाने । आ । भरणे । बिभ्रमाणाः ॥asyá ǀ ít ǀ eṣā́ ǀ su-matíḥ ǀ paprathānā́ ǀ ábhavat ǀ pūrvyā́ ǀ bhū́manā ǀ gáuḥ ǀ
asyá ǀ sá-nīḷāḥ ǀ ásurasya ǀ yónau ǀ samāné ǀ ā́ ǀ bháraṇe ǀ bíbhramāṇāḥ ǁasya ǀ it ǀ eṣā ǀ su-matiḥ ǀ paprathānā ǀ abhavat ǀ pūrvyā ǀ bhūmanā ǀ gauḥ ǀ
asya ǀ sa-nīḷāḥ ǀ asurasya ǀ yonau ǀ samāne ǀ ā ǀ bharaṇe ǀ bibhramāṇāḥ ǁ10.31.6 Aṣṭaka 7.7.28.1Anuvāka 10.3.21
-
Ṛk 7
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।
सं॒त॒स्था॒ने अ॒जरे॑ इ॒तऊ॑ती॒ अहा॑नि पू॒र्वीरु॒षसो॑ जरंत ॥किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः |
संतस्थाने अजरे इतऊती अहानि पूर्वीर् उषसो जरन्त ||kím svidvánam ká u sá vṛkṣá āsa yáto dyā́vāpṛthivī́ niṣṭatakṣúḥ ǀ
saṃtasthāné ajáre itáūtī áhāni pūrvī́ruṣáso jaranta ǁkiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ |
saṃtasthāne ajare itaūtī ahāni pūrvīr uṣaso jaranta ||किम् । स्वि॒त् । वन॑म् । कः । ऊं॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः ।
स॒न्त॒स्था॒ने इति॑ स॒म्ऽत॒स्था॒ने । अ॒जरे॒ इति॑ । इ॒तऊ॑ती॒ इती॒तःऽऊ॑ती । अहा॑नि । पू॒र्वीः । उ॒षसः॑ । ज॒र॒न्त॒ ॥किम् । स्वित् । वनम् । कः । ऊं इति । सः । वृक्षः । आस । यतः । द्यावापृथिवी इति । निःऽततक्षुः ।
सन्तस्थाने इति सम्ऽतस्थाने । अजरे इति । इतऊती इतीतःऽऊती । अहानि । पूर्वीः । उषसः । जरन्त ॥kím ǀ svit ǀ vánam ǀ káḥ ǀ ūṃ íti ǀ sáḥ ǀ vṛkṣáḥ ǀ āsa ǀ yátaḥ ǀ dyā́vāpṛthivī́ íti ǀ niḥ-tatakṣúḥ ǀ
santasthāné íti sam-tasthāné ǀ ajáre íti ǀ itáūtī ítītáḥ-ūtī ǀ áhāni ǀ pūrvī́ḥ ǀ uṣásaḥ ǀ jaranta ǁkim ǀ svit ǀ vanam ǀ kaḥ ǀ ūṃ iti ǀ saḥ ǀ vṛkṣaḥ ǀ āsa ǀ yataḥ ǀ dyāvāpṛthivī iti ǀ niḥ-tatakṣuḥ ǀ
santasthāne iti sam-tasthāne ǀ ajare iti ǀ itaūtī itītaḥ-ūtī ǀ ahāni ǀ pūrvīḥ ǀ uṣasaḥ ǀ jaranta ǁ10.31.7 Aṣṭaka 7.7.28.2Anuvāka 10.3.22
-
Ṛk 8
नैताव॑दे॒ना प॒रो अ॒न्यद॑स्त्यु॒क्षा स द्यावा॑पृथि॒वी बि॑भर्ति ।
त्वचं॑ प॒वित्रं॑ कृणुत स्व॒धावा॒न्यदीं॒ सूर्यं॒ न ह॒रितो॒ वहं॑ति ॥नैतावद् एना परो अन्यद् अस्त्य् उक्षा स द्यावापृथिवी बिभर्ति |
त्वचम् पवित्रं कृणुत स्वधावान् यद् ईं सूर्यं न हरितो वहन्ति ||náitā́vadenā́ paró anyádastyukṣā́ sá dyā́vāpṛthivī́ bibharti ǀ
tvácam pavítram kṛṇuta svadhā́vānyádīm sū́ryam ná haríto váhanti ǁnaitāvad enā paro anyad asty ukṣā sa dyāvāpṛthivī bibharti |
tvacam pavitraṃ kṛṇuta svadhāvān yad īṃ sūryaṃ na harito vahanti ||न । ए॒ताव॑त् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । उ॒क्षा । सः । द्यावा॑पृथि॒वी इति॑ । बि॒भ॒र्ति॒ ।
त्वच॑म् । प॒वित्र॑म् । कृ॒णु॒त॒ । स्व॒धाऽवा॑न् । यत् । ई॒म् । सूर्य॑म् । न । ह॒रितः॑ । वह॑न्ति ॥न । एतावत् । एना । परः । अन्यत् । अस्ति । उक्षा । सः । द्यावापृथिवी इति । बिभर्ति ।
त्वचम् । पवित्रम् । कृणुत । स्वधाऽवान् । यत् । ईम् । सूर्यम् । न । हरितः । वहन्ति ॥ná ǀ etā́vat ǀ enā́ ǀ paráḥ ǀ anyát ǀ asti ǀ ukṣā́ ǀ sáḥ ǀ dyā́vāpṛthivī́ íti ǀ bibharti ǀ
tvácam ǀ pavítram ǀ kṛṇuta ǀ svadhā́-vān ǀ yát ǀ īm ǀ sū́ryam ǀ ná ǀ harítaḥ ǀ váhanti ǁna ǀ etāvat ǀ enā ǀ paraḥ ǀ anyat ǀ asti ǀ ukṣā ǀ saḥ ǀ dyāvāpṛthivī iti ǀ bibharti ǀ
tvacam ǀ pavitram ǀ kṛṇuta ǀ svadhā-vān ǀ yat ǀ īm ǀ sūryam ǀ na ǀ haritaḥ ǀ vahanti ǁ10.31.8 Aṣṭaka 7.7.28.3Anuvāka 10.3.23
-
Ṛk 9
स्ते॒गो न क्षामत्ये॑ति पृ॒थ्वीं मिहं॒ न वातो॒ वि ह॑ वाति॒ भूम॑ ।
मि॒त्रो यत्र॒ वरु॑णो अ॒ज्यमा॑नो॒ऽग्निर्वने॒ न व्यसृ॑ष्ट॒ शोकं॑ ॥स्तेगो न क्षाम् अत्य् एति पृथ्वीम् मिहं न वातो वि ह वाति भूम |
मित्रो यत्र वरुणो अज्यमानो ऽग्निर् वने न व्य् असृष्ट शोकम् ||stegó ná kṣā́mátyeti pṛthvī́m míham ná vā́to ví ha vāti bhū́ma ǀ
mitró yátra váruṇo ajyámāno’gnírváne ná vyásṛṣṭa śókam ǁstego na kṣām aty eti pṛthvīm mihaṃ na vāto vi ha vāti bhūma |
mitro yatra varuṇo ajyamāno 'gnir vane na vy asṛṣṭa śokam ||स्ते॒गः । न । क्षाम् । अति॑ । ए॒ति॒ । पृ॒थ्वीम् । मिह॑म् । न । वातः॑ । वि । ह॒ । वा॒ति॒ । भूम॑ ।
मि॒त्रः । यत्र॑ । वरु॑णः । अ॒ज्यमा॑नः । अ॒ग्निः । वने॑ । न । वि । असृ॑ष्ट । शोक॑म् ॥स्तेगः । न । क्षाम् । अति । एति । पृथ्वीम् । मिहम् । न । वातः । वि । ह । वाति । भूम ।
मित्रः । यत्र । वरुणः । अज्यमानः । अग्निः । वने । न । वि । असृष्ट । शोकम् ॥stegáḥ ǀ ná ǀ kṣā́m ǀ áti ǀ eti ǀ pṛthvī́m ǀ míham ǀ ná ǀ vā́taḥ ǀ ví ǀ ha ǀ vāti ǀ bhū́ma ǀ
mitráḥ ǀ yátra ǀ váruṇaḥ ǀ ajyámānaḥ ǀ agníḥ ǀ váne ǀ ná ǀ ví ǀ ásṛṣṭa ǀ śókam ǁstegaḥ ǀ na ǀ kṣām ǀ ati ǀ eti ǀ pṛthvīm ǀ miham ǀ na ǀ vātaḥ ǀ vi ǀ ha ǀ vāti ǀ bhūma ǀ
mitraḥ ǀ yatra ǀ varuṇaḥ ǀ ajyamānaḥ ǀ agniḥ ǀ vane ǀ na ǀ vi ǀ asṛṣṭa ǀ śokam ǁ10.31.9 Aṣṭaka 7.7.28.4Anuvāka 10.3.24
-
Ṛk 10
स्त॒रीर्यत्सूत॑ स॒द्यो अ॒ज्यमा॑ना॒ व्यथि॑रव्य॒थीः कृ॑णुत॒ स्वगो॑पा ।
पु॒त्रो यत्पूर्वः॑ पि॒त्रोर्जनि॑ष्ट श॒म्यां गौर्ज॑गार॒ यद्ध॑ पृ॒च्छान् ॥स्तरीर् यत् सूत सद्यो अज्यमाना व्यथिर् अव्यथीः कृणुत स्वगोपा |
पुत्रो यत् पूर्वः पित्रोर् जनिष्ट शम्यां गौर् जगार यद् ध पृच्छान् ||starī́ryátsū́ta sadyó ajyámānā vyáthiravyathī́ḥ kṛṇuta svágopā ǀ
putró yátpū́rvaḥ pitrórjániṣṭa śamyā́m gáurjagāra yáddha pṛcchā́n ǁstarīr yat sūta sadyo ajyamānā vyathir avyathīḥ kṛṇuta svagopā |
putro yat pūrvaḥ pitror janiṣṭa śamyāṃ gaur jagāra yad dha pṛcchān ||स्त॒रीः । यत् । सूत॑ । स॒द्यः । अ॒ज्यमा॑ना । व्यथिः॑ । अ॒व्य॒थीः । कृ॒णु॒त॒ । स्वऽगो॑पा ।
पु॒त्रः । यत् । पूर्वः॑ । पि॒त्रोः । जनि॑ष्ट । श॒म्याम् । गौः । ज॒गा॒र॒ । यत् । ह॒ । पृ॒च्छान् ॥स्तरीः । यत् । सूत । सद्यः । अज्यमाना । व्यथिः । अव्यथीः । कृणुत । स्वऽगोपा ।
पुत्रः । यत् । पूर्वः । पित्रोः । जनिष्ट । शम्याम् । गौः । जगार । यत् । ह । पृच्छान् ॥starī́ḥ ǀ yát ǀ sū́ta ǀ sadyáḥ ǀ ajyámānā ǀ vyáthiḥ ǀ avyathī́ḥ ǀ kṛṇuta ǀ svá-gopā ǀ
putráḥ ǀ yát ǀ pū́rvaḥ ǀ pitróḥ ǀ jániṣṭa ǀ śamyā́m ǀ gáuḥ ǀ jagāra ǀ yát ǀ ha ǀ pṛcchā́n ǁstarīḥ ǀ yat ǀ sūta ǀ sadyaḥ ǀ ajyamānā ǀ vyathiḥ ǀ avyathīḥ ǀ kṛṇuta ǀ sva-gopā ǀ
putraḥ ǀ yat ǀ pūrvaḥ ǀ pitroḥ ǀ janiṣṭa ǀ śamyām ǀ gauḥ ǀ jagāra ǀ yat ǀ ha ǀ pṛcchān ǁ10.31.10 Aṣṭaka 7.7.28.5Anuvāka 10.3.25
-
Ṛk 11
उ॒त कण्वं॑ नृ॒षदः॑ पु॒त्रमा॑हुरु॒त श्या॒वो धन॒माद॑त्त वा॒जी ।
प्र कृ॒ष्णाय॒ रुश॑दपिन्व॒तोध॑र्ऋ॒तमत्र॒ नकि॑रस्मा अपीपेत् ॥उत कण्वं नृषदः पुत्रम् आहुर् उत श्यावो धनम् आदत्त वाजी |
प्र कृष्णाय रुशद् अपिन्वतोधर् ऋतम् अत्र नकिर् अस्मा अपीपेत् ||utá káṇvam nṛṣádaḥ putrámāhurutá śyāvó dhánamā́datta vājī́ ǀ
prá kṛṣṇā́ya rúśadapinvatódharṛtámátra nákirasmā apīpet ǁuta kaṇvaṃ nṛṣadaḥ putram āhur uta śyāvo dhanam ādatta vājī |
pra kṛṣṇāya ruśad apinvatodhar ṛtam atra nakir asmā apīpet ||उ॒त । कण्व॑म् । नृ॒ऽसदः॑ । पु॒त्रम् । आ॒हुः॒ । उ॒त । श्या॒वः । धन॑म् । आ । अ॒द॒त्त॒ । वा॒जी ।
प्र । कृ॒ष्णाय॑ । रुश॑त् । अ॒पि॒न्व॒त॒ । ऊधः॑ । ऋ॒तम् । अत्र॑ । नकिः॑ । अ॒स्मै॒ । अ॒पी॒पे॒त् ॥उत । कण्वम् । नृऽसदः । पुत्रम् । आहुः । उत । श्यावः । धनम् । आ । अदत्त । वाजी ।
प्र । कृष्णाय । रुशत् । अपिन्वत । ऊधः । ऋतम् । अत्र । नकिः । अस्मै । अपीपेत् ॥utá ǀ káṇvam ǀ nṛ-sádaḥ ǀ putrám ǀ āhuḥ ǀ utá ǀ śyāváḥ ǀ dhánam ǀ ā́ ǀ adatta ǀ vājī́ ǀ
prá ǀ kṛṣṇā́ya ǀ rúśat ǀ apinvata ǀ ū́dhaḥ ǀ ṛtám ǀ átra ǀ nákiḥ ǀ asmai ǀ apīpet ǁuta ǀ kaṇvam ǀ nṛ-sadaḥ ǀ putram ǀ āhuḥ ǀ uta ǀ śyāvaḥ ǀ dhanam ǀ ā ǀ adatta ǀ vājī ǀ
pra ǀ kṛṣṇāya ǀ ruśat ǀ apinvata ǀ ūdhaḥ ǀ ṛtam ǀ atra ǀ nakiḥ ǀ asmai ǀ apīpet ǁ10.31.11 Aṣṭaka 7.7.28.6Anuvāka 10.3.26
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.