Ṛgveda · Maṇḍala 10 · Sūkta 31
Ṛk 10.31.11
Saṃhitā
उ॒त कण्वं॑ नृ॒षदः॑ पु॒त्रमा॑हुरु॒त श्या॒वो धन॒माद॑त्त वा॒जी ।
प्र कृ॒ष्णाय॒ रुश॑दपिन्व॒तोध॑र्ऋ॒तमत्र॒ नकि॑रस्मा अपीपेत् ॥
उत कण्वं नृषदः पुत्रम् आहुर् उत श्यावो धनम् आदत्त वाजी |
प्र कृष्णाय रुशद् अपिन्वतोधर् ऋतम् अत्र नकिर् अस्मा अपीपेत् ||
utá káṇvam nṛṣádaḥ putrámāhurutá śyāvó dhánamā́datta vājī́ ǀ
prá kṛṣṇā́ya rúśadapinvatódharṛtámátra nákirasmā apīpet ǁ
uta kaṇvaṃ nṛṣadaḥ putram āhur uta śyāvo dhanam ādatta vājī |
pra kṛṣṇāya ruśad apinvatodhar ṛtam atra nakir asmā apīpet ||
Padapāṭha
उ॒त । कण्व॑म् । नृ॒ऽसदः॑ । पु॒त्रम् । आ॒हुः॒ । उ॒त । श्या॒वः । धन॑म् । आ । अ॒द॒त्त॒ । वा॒जी ।
प्र । कृ॒ष्णाय॑ । रुश॑त् । अ॒पि॒न्व॒त॒ । ऊधः॑ । ऋ॒तम् । अत्र॑ । नकिः॑ । अ॒स्मै॒ । अ॒पी॒पे॒त् ॥
उत । कण्वम् । नृऽसदः । पुत्रम् । आहुः । उत । श्यावः । धनम् । आ । अदत्त । वाजी ।
प्र । कृष्णाय । रुशत् । अपिन्वत । ऊधः । ऋतम् । अत्र । नकिः । अस्मै । अपीपेत् ॥
utá ǀ káṇvam ǀ nṛ-sádaḥ ǀ putrám ǀ āhuḥ ǀ utá ǀ śyāváḥ ǀ dhánam ǀ ā́ ǀ adatta ǀ vājī́ ǀ
prá ǀ kṛṣṇā́ya ǀ rúśat ǀ apinvata ǀ ū́dhaḥ ǀ ṛtám ǀ átra ǀ nákiḥ ǀ asmai ǀ apīpet ǁ
uta ǀ kaṇvam ǀ nṛ-sadaḥ ǀ putram ǀ āhuḥ ǀ uta ǀ śyāvaḥ ǀ dhanam ǀ ā ǀ adatta ǀ vājī ǀ
pra ǀ kṛṣṇāya ǀ ruśat ǀ apinvata ǀ ūdhaḥ ǀ ṛtam ǀ atra ǀ nakiḥ ǀ asmai ǀ apīpet ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.031.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.7.28.06
- Maṇḍala · Anuvāka · Ṛk
- 10.03.026
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kavaṣa Ailūṣa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.