Sūkta 22
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vimada Aindra Or Vimada Prājāpatya Or Vimada Aindra And Vasukṛt Vāsukra
- Chandas छन्दस्
- Prastārapaṅkti, Anuṣṭubh, Triṣṭubh
Metres by ṛk
1st set of styles pādnicṛdbṛhatī (1, 4, 8, 10, 14); nicṛdanuṣṭup (2, 6, 12, 13); virāḍbṛhatī (3, 11); pādanicṛdanuṣṭup (5); ārcyanuṣṭup (7); anuṣṭup (9); nicṛttriṣṭup (15)
2nd set of styles prastārapaṅkti (1-4, 6, 8, 10-14); anuṣṭubh (5, 7, 9); triṣṭubh (15)
-
Ṛk 1
कुह॑ श्रु॒त इंद्रः॒ कस्मि॑न्न॒द्य जने॑ मि॒त्रो न श्रू॑यते ।
ऋषी॑णां वा॒ यः क्षये॒ गुहा॑ वा॒ चर्कृ॑षे गि॒रा ॥कुह श्रुत इन्द्रः कस्मिन्न् अद्य जने मित्रो न श्रूयते |
ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा ||kúha śrutá índraḥ kásminnadyá jáne mitró ná śrūyate ǀ
ṛ́ṣīṇām vā yáḥ kṣáye gúhā vā cárkṛṣe girā́ ǁkuha śruta indraḥ kasminn adya jane mitro na śrūyate |
ṛṣīṇāṃ vā yaḥ kṣaye guhā vā carkṛṣe girā ||कुह॑ । श्रु॒तः । इन्द्रः॑ । कस्मि॑न् । अ॒द्य । जने॑ । मि॒त्रः । न । श्रू॒य॒ते॒ ।
ऋषी॑णाम् । वा॒ । यः । क्षये॑ । गुहा॑ । वा॒ । चर्कृ॑षे । गि॒रा ॥कुह । श्रुतः । इन्द्रः । कस्मिन् । अद्य । जने । मित्रः । न । श्रूयते ।
ऋषीणाम् । वा । यः । क्षये । गुहा । वा । चर्कृषे । गिरा ॥kúha ǀ śrutáḥ ǀ índraḥ ǀ kásmin ǀ adyá ǀ jáne ǀ mitráḥ ǀ ná ǀ śrūyate ǀ
ṛ́ṣīṇām ǀ vā ǀ yáḥ ǀ kṣáye ǀ gúhā ǀ vā ǀ cárkṛṣe ǀ girā́ ǁkuha ǀ śrutaḥ ǀ indraḥ ǀ kasmin ǀ adya ǀ jane ǀ mitraḥ ǀ na ǀ śrūyate ǀ
ṛṣīṇām ǀ vā ǀ yaḥ ǀ kṣaye ǀ guhā ǀ vā ǀ carkṛṣe ǀ girā ǁ10.22.1 Aṣṭaka 7.7.6.1Anuvāka 10.2.55
-
Ṛk 2
इ॒ह श्रु॒त इंद्रो॑ अ॒स्मे अ॒द्य स्तवे॑ व॒ज्र्यृची॑षमः ।
मि॒त्रो न यो जने॒ष्वा यश॑श्च॒क्रे असा॒म्या ॥इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्य् ऋचीषमः |
मित्रो न यो जनेष्व् आ यशश् चक्रे असाम्य् आ ||ihá śrutá índro asmé adyá stáve vajryṛ́cīṣamaḥ ǀ
mitró ná yó jáneṣvā́ yáśaścakré ásāmyā́ ǁiha śruta indro asme adya stave vajry ṛcīṣamaḥ |
mitro na yo janeṣv ā yaśaś cakre asāmy ā ||इ॒ह । श्रु॒तः । इन्द्रः॑ । अ॒स्मे इति॑ । अ॒द्य । स्तवे॑ । व॒ज्री । ऋची॑षमः ।
मि॒त्रः । न । यः । जने॑षु । आ । यशः॑ । च॒क्रे । असा॑मि । आ ॥इह । श्रुतः । इन्द्रः । अस्मे इति । अद्य । स्तवे । वज्री । ऋचीषमः ।
मित्रः । न । यः । जनेषु । आ । यशः । चक्रे । असामि । आ ॥ihá ǀ śrutáḥ ǀ índraḥ ǀ asmé íti ǀ adyá ǀ stáve ǀ vajrī́ ǀ ṛ́cīṣamaḥ ǀ
mitráḥ ǀ ná ǀ yáḥ ǀ jáneṣu ǀ ā́ ǀ yáśaḥ ǀ cakré ǀ ásāmi ǀ ā́ ǁiha ǀ śrutaḥ ǀ indraḥ ǀ asme iti ǀ adya ǀ stave ǀ vajrī ǀ ṛcīṣamaḥ ǀ
mitraḥ ǀ na ǀ yaḥ ǀ janeṣu ǀ ā ǀ yaśaḥ ǀ cakre ǀ asāmi ǀ ā ǁ10.22.2 Aṣṭaka 7.7.6.2Anuvāka 10.2.56
-
Ṛk 3
म॒हो यस्पतिः॒ शव॑सो॒ असा॒म्या म॒हो नृ॒म्णस्य॑ तूतु॒जिः ।
भ॒र्ता वज्र॑स्य धृ॒ष्णोः पि॒ता पु॒त्रमि॑व प्रि॒यं ॥महो यस् पतिः शवसो असाम्य् आ महो नृम्णस्य तूतुजिः |
भर्ता वज्रस्य धृष्णोः पिता पुत्रम् इव प्रियम् ||mahó yáspátiḥ śávaso ásāmyā́ mahó nṛmṇásya tūtujíḥ ǀ
bhartā́ vájrasya dhṛṣṇóḥ pitā́ putrámiva priyám ǁmaho yas patiḥ śavaso asāmy ā maho nṛmṇasya tūtujiḥ |
bhartā vajrasya dhṛṣṇoḥ pitā putram iva priyam ||म॒हः । यः । पतिः॑ । शव॑सः । असा॑मि । आ । म॒हः । नृ॒म्णस्य॑ । तू॒तु॒जिः ।
भ॒र्ता । वज्र॑स्य । धृ॒ष्णोः । पि॒ता । पु॒त्रम्ऽइ॑व । प्रि॒यम् ॥महः । यः । पतिः । शवसः । असामि । आ । महः । नृम्णस्य । तूतुजिः ।
भर्ता । वज्रस्य । धृष्णोः । पिता । पुत्रम्ऽइव । प्रियम् ॥maháḥ ǀ yáḥ ǀ pátiḥ ǀ śávasaḥ ǀ ásāmi ǀ ā́ ǀ maháḥ ǀ nṛmṇásya ǀ tūtujíḥ ǀ
bhartā́ ǀ vájrasya ǀ dhṛṣṇóḥ ǀ pitā́ ǀ putrám-iva ǀ priyám ǁmahaḥ ǀ yaḥ ǀ patiḥ ǀ śavasaḥ ǀ asāmi ǀ ā ǀ mahaḥ ǀ nṛmṇasya ǀ tūtujiḥ ǀ
bhartā ǀ vajrasya ǀ dhṛṣṇoḥ ǀ pitā ǀ putram-iva ǀ priyam ǁ10.22.3 Aṣṭaka 7.7.6.3Anuvāka 10.2.57
-
Ṛk 4
यु॒जा॒नो अश्वा॒ वात॑स्य॒ धुनी॑ दे॒वो दे॒वस्य॑ वज्रिवः ।
स्यंता॑ प॒था वि॒रुक्म॑ता सृजा॒नः स्तो॒ष्यध्व॑नः ॥युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः |
स्यन्ता पथा विरुक्मता सृजान स्तोष्य् अध्वनः ||yujānó áśvā vā́tasya dhúnī devó devásya vajrivaḥ ǀ
syántā pathā́ virúkmatā sṛjānáḥ stoṣyádhvanaḥ ǁyujāno aśvā vātasya dhunī devo devasya vajrivaḥ |
syantā pathā virukmatā sṛjāna stoṣy adhvanaḥ ||यु॒जा॒नः । अश्वा॑ । वात॑स्य । धुनी॒ इति॑ । दे॒वः । दे॒वस्य॑ । व॒ज्रि॒ऽवः॒ ।
स्यन्ता॑ । प॒था । वि॒रुक्म॑ता । सृ॒जा॒नः । स्तो॒षि॒ । अध्व॑नः ॥युजानः । अश्वा । वातस्य । धुनी इति । देवः । देवस्य । वज्रिऽवः ।
स्यन्ता । पथा । विरुक्मता । सृजानः । स्तोषि । अध्वनः ॥yujānáḥ ǀ áśvā ǀ vā́tasya ǀ dhúnī íti ǀ deváḥ ǀ devásya ǀ vajri-vaḥ ǀ
syántā ǀ pathā́ ǀ virúkmatā ǀ sṛjānáḥ ǀ stoṣi ǀ ádhvanaḥ ǁyujānaḥ ǀ aśvā ǀ vātasya ǀ dhunī iti ǀ devaḥ ǀ devasya ǀ vajri-vaḥ ǀ
syantā ǀ pathā ǀ virukmatā ǀ sṛjānaḥ ǀ stoṣi ǀ adhvanaḥ ǁ10.22.4 Aṣṭaka 7.7.6.4Anuvāka 10.2.58
-
Ṛk 5
त्वं त्या चि॒द्वात॒स्याश्वागा॑ ऋ॒ज्रा त्मना॒ वह॑ध्यै ।
ययो॑र्दे॒वो न मर्त्यो॑ यं॒ता नकि॑र्वि॒दाय्यः॑ ॥त्वं त्या चिद् वातस्याश्वागा ऋज्रा त्मना वहध्यै |
ययोर् देवो न मर्त्यो यन्ता नकिर् विदाय्यः ||tvám tyā́ cidvā́tasyā́śvā́gā ṛjrā́ tmánā váhadhyai ǀ
yáyordevó ná mártyo yantā́ nákirvidā́yyaḥ ǁtvaṃ tyā cid vātasyāśvāgā ṛjrā tmanā vahadhyai |
yayor devo na martyo yantā nakir vidāyyaḥ ||त्वम् । त्या । चि॒त् । वात॑स्य । अश्वा॑ । आ । अ॒गाः॒ । ऋ॒ज्रा । त्मना॑ । वह॑ध्यै ।
ययोः॑ । दे॒वः । न । मर्त्यः॑ । य॒न्ता । नकिः॑ । वि॒दाय्यः॑ ॥त्वम् । त्या । चित् । वातस्य । अश्वा । आ । अगाः । ऋज्रा । त्मना । वहध्यै ।
ययोः । देवः । न । मर्त्यः । यन्ता । नकिः । विदाय्यः ॥tvám ǀ tyā́ ǀ cit ǀ vā́tasya ǀ áśvā ǀ ā́ ǀ agāḥ ǀ ṛjrā́ ǀ tmánā ǀ váhadhyai ǀ
yáyoḥ ǀ deváḥ ǀ ná ǀ mártyaḥ ǀ yantā́ ǀ nákiḥ ǀ vidā́yyaḥ ǁtvam ǀ tyā ǀ cit ǀ vātasya ǀ aśvā ǀ ā ǀ agāḥ ǀ ṛjrā ǀ tmanā ǀ vahadhyai ǀ
yayoḥ ǀ devaḥ ǀ na ǀ martyaḥ ǀ yantā ǀ nakiḥ ǀ vidāyyaḥ ǁ10.22.5 Aṣṭaka 7.7.6.5Anuvāka 10.2.59
-
Ṛk 6
अध॒ ग्मंतो॒शना॑ पृच्छते वां॒ कद॑र्था न॒ आ गृ॒हं ।
आ ज॑ग्मथुः परा॒काद्दि॒वश्च॒ ग्मश्च॒ मर्त्यं॑ ॥अध ग्मन्तोशना पृच्छते वां कदर्था न आ गृहम् |
आ जग्मथुः पराकाद् दिवश् च ग्मश् च मर्त्यम् ||ádha gmántośánā pṛcchate vām kádarthā na ā́ gṛhám ǀ
ā́ jagmathuḥ parākā́ddiváśca gmáśca mártyam ǁadha gmantośanā pṛcchate vāṃ kadarthā na ā gṛham |
ā jagmathuḥ parākād divaś ca gmaś ca martyam ||अध॑ । ग्मन्ता॑ । उ॒शना॑ । पृ॒च्छ॒ते॒ । वा॒म् । कत्ऽअ॑र्था । नः॒ । आ । गृ॒हम् ।
आ । ज॒ग्म॒थुः॒ । प॒रा॒कात् । दि॒वः । च॒ । ग्मः । च॒ । मर्त्य॑म् ॥अध । ग्मन्ता । उशना । पृच्छते । वाम् । कत्ऽअर्था । नः । आ । गृहम् ।
आ । जग्मथुः । पराकात् । दिवः । च । ग्मः । च । मर्त्यम् ॥ádha ǀ gmántā ǀ uśánā ǀ pṛcchate ǀ vām ǀ kát-arthā ǀ naḥ ǀ ā́ ǀ gṛhám ǀ
ā́ ǀ jagmathuḥ ǀ parākā́t ǀ diváḥ ǀ ca ǀ gmáḥ ǀ ca ǀ mártyam ǁadha ǀ gmantā ǀ uśanā ǀ pṛcchate ǀ vām ǀ kat-arthā ǀ naḥ ǀ ā ǀ gṛham ǀ
ā ǀ jagmathuḥ ǀ parākāt ǀ divaḥ ǀ ca ǀ gmaḥ ǀ ca ǀ martyam ǁ10.22.6 Aṣṭaka 7.7.7.1Anuvāka 10.2.60
-
Ṛk 7
आ न॑ इंद्र पृक्षसे॒ऽस्माकं॒ ब्रह्मोद्य॑तं ।
तत्त्वा॑ याचाम॒हेऽवः॒ शुष्णं॒ यद्धन्नमा॑नुषं ॥आ न इन्द्र पृक्षसे ऽस्माकम् ब्रह्मोद्यतम् |
तत् त्वा याचामहे ऽवः शुष्णं यद् धन्न् अमानुषम् ||ā́ na indra pṛkṣase’smā́kam bráhmódyatam ǀ
táttvā yācāmahé’vaḥ śúṣṇam yáddhánnámānuṣam ǁā na indra pṛkṣase 'smākam brahmodyatam |
tat tvā yācāmahe 'vaḥ śuṣṇaṃ yad dhann amānuṣam ||आ । नः॒ । इ॒न्द्र॒ । पृ॒क्ष॒से॒ । अ॒स्माक॑म् । ब्रह्म॑ । उत्ऽय॑तम् ।
तत् । त्वा॒ । या॒चा॒म॒हे॒ । अवः॑ । शुष्ण॑म् । यत् । हन् । अमा॑नुषम् ॥आ । नः । इन्द्र । पृक्षसे । अस्माकम् । ब्रह्म । उत्ऽयतम् ।
तत् । त्वा । याचामहे । अवः । शुष्णम् । यत् । हन् । अमानुषम् ॥ā́ ǀ naḥ ǀ indra ǀ pṛkṣase ǀ asmā́kam ǀ bráhma ǀ út-yatam ǀ
tát ǀ tvā ǀ yācāmahe ǀ ávaḥ ǀ śúṣṇam ǀ yát ǀ hán ǀ ámānuṣam ǁā ǀ naḥ ǀ indra ǀ pṛkṣase ǀ asmākam ǀ brahma ǀ ut-yatam ǀ
tat ǀ tvā ǀ yācāmahe ǀ avaḥ ǀ śuṣṇam ǀ yat ǀ han ǀ amānuṣam ǁ10.22.7 Aṣṭaka 7.7.7.2Anuvāka 10.2.61
-
Ṛk 8
अ॒क॒र्मा दस्यु॑र॒भि नो॑ अमं॒तुर॒न्यव्र॑तो॒ अमा॑नुषः ।
त्वं तस्या॑मित्रह॒न्वध॑र्दा॒सस्य॑ दंभय ॥अकर्मा दस्युर् अभि नो अमन्तुर् अन्यव्रतो अमानुषः |
त्वं तस्यामित्रहन् वधर् दासस्य दम्भय ||akarmā́ dásyurabhí no amantúranyávrato ámānuṣaḥ ǀ
tvám tásyāmitrahanvádhardāsásya dambhaya ǁakarmā dasyur abhi no amantur anyavrato amānuṣaḥ |
tvaṃ tasyāmitrahan vadhar dāsasya dambhaya ||अ॒क॒र्मा । दस्युः॑ । अ॒भि । नः॒ । अ॒म॒न्तुः । अ॒न्यऽव्र॑तः । अमा॑नुषः ।
त्वम् । तस्य॑ । अ॒मि॒त्र॒ऽह॒न् । वधः॑ । दा॒सस्य॑ । द॒म्भ॒य॒ ॥अकर्मा । दस्युः । अभि । नः । अमन्तुः । अन्यऽव्रतः । अमानुषः ।
त्वम् । तस्य । अमित्रऽहन् । वधः । दासस्य । दम्भय ॥akarmā́ ǀ dásyuḥ ǀ abhí ǀ naḥ ǀ amantúḥ ǀ anyá-vrataḥ ǀ ámānuṣaḥ ǀ
tvám ǀ tásya ǀ amitra-han ǀ vádhaḥ ǀ dāsásya ǀ dambhaya ǁakarmā ǀ dasyuḥ ǀ abhi ǀ naḥ ǀ amantuḥ ǀ anya-vrataḥ ǀ amānuṣaḥ ǀ
tvam ǀ tasya ǀ amitra-han ǀ vadhaḥ ǀ dāsasya ǀ dambhaya ǁ10.22.8 Aṣṭaka 7.7.7.3Anuvāka 10.2.62
-
Ṛk 9
त्वं न॑ इंद्र शूर॒ शूरै॑रु॒त त्वोता॑सो ब॒र्हणा॑ ।
पु॒रु॒त्रा ते॒ वि पू॒र्तयो॒ नवं॑त क्षो॒णयो॑ यथा ॥त्वं न इन्द्र शूर शूरैर् उत त्वोतासो बर्हणा |
पुरुत्रा ते वि पूर्तयो नवन्त क्षोणयो यथा ||tvám na indra śūra śū́rairutá tvótāso barháṇā ǀ
purutrā́ te ví pūrtáyo návanta kṣoṇáyo yathā ǁtvaṃ na indra śūra śūrair uta tvotāso barhaṇā |
purutrā te vi pūrtayo navanta kṣoṇayo yathā ||त्वम् । नः॒ । इ॒न्द्र॒ । शू॒र॒ । शूरैः॑ । उ॒त । त्वाऽऊ॑तासः । ब॒र्हणा॑ ।
पु॒रु॒ऽत्रा । ते॒ । वि । पू॒र्तयः॑ । नव॑न्त । क्षो॒णयः॑ । य॒था॒ ॥त्वम् । नः । इन्द्र । शूर । शूरैः । उत । त्वाऽऊतासः । बर्हणा ।
पुरुऽत्रा । ते । वि । पूर्तयः । नवन्त । क्षोणयः । यथा ॥tvám ǀ naḥ ǀ indra ǀ śūra ǀ śū́raiḥ ǀ utá ǀ tvā́-ūtāsaḥ ǀ barháṇā ǀ
puru-trā́ ǀ te ǀ ví ǀ pūrtáyaḥ ǀ návanta ǀ kṣoṇáyaḥ ǀ yathā ǁtvam ǀ naḥ ǀ indra ǀ śūra ǀ śūraiḥ ǀ uta ǀ tvā-ūtāsaḥ ǀ barhaṇā ǀ
puru-trā ǀ te ǀ vi ǀ pūrtayaḥ ǀ navanta ǀ kṣoṇayaḥ ǀ yathā ǁ10.22.9 Aṣṭaka 7.7.7.4Anuvāka 10.2.63
-
Ṛk 10
त्वं तान्वृ॑त्र॒हत्ये॑ चोदयो॒ नॄन्का॑र्पा॒णे शू॑र वज्रिवः ।
गुहा॒ यदी॑ कवी॒नां वि॒शां नक्ष॑त्रशवसां ॥त्वं तान् वृत्रहत्ये चोदयो नॄन् कार्पाणे शूर वज्रिवः |
गुहा यदी कवीनां विशां नक्षत्रशवसाम् ||tvám tā́nvṛtrahátye codayo nṝ́nkārpāṇé śūra vajrivaḥ ǀ
gúhā yádī kavīnā́m viśā́m nákṣatraśavasām ǁtvaṃ tān vṛtrahatye codayo nṝn kārpāṇe śūra vajrivaḥ |
guhā yadī kavīnāṃ viśāṃ nakṣatraśavasām ||त्वम् । तान् । वृ॒त्र॒ऽहत्ये॑ । चो॒द॒यः॒ । नॄन् । का॒र्पा॒णे । शू॒र॒ । व॒ज्रि॒ऽवः॒ ।
गुहा॑ । यदि॑ । क॒वी॒नाम् । वि॒शाम् । नक्ष॑त्रऽशवसाम् ॥त्वम् । तान् । वृत्रऽहत्ये । चोदयः । नॄन् । कार्पाणे । शूर । वज्रिऽवः ।
गुहा । यदि । कवीनाम् । विशाम् । नक्षत्रऽशवसाम् ॥tvám ǀ tā́n ǀ vṛtra-hátye ǀ codayaḥ ǀ nṝ́n ǀ kārpāṇé ǀ śūra ǀ vajri-vaḥ ǀ
gúhā ǀ yádi ǀ kavīnā́m ǀ viśā́m ǀ nákṣatra-śavasām ǁtvam ǀ tān ǀ vṛtra-hatye ǀ codayaḥ ǀ nṝn ǀ kārpāṇe ǀ śūra ǀ vajri-vaḥ ǀ
guhā ǀ yadi ǀ kavīnām ǀ viśām ǀ nakṣatra-śavasām ǁ10.22.10 Aṣṭaka 7.7.7.5Anuvāka 10.2.64
-
Ṛk 11
म॒क्षू ता त॑ इंद्र दा॒नाप्न॑स आक्षा॒णे शू॑र वज्रिवः ।
यद्ध॒ शुष्ण॑स्य दं॒भयो॑ जा॒तं विश्वं॑ स॒याव॑भिः ॥मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः |
यद् ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ||makṣū́ tā́ ta indra dānā́pnasa ākṣāṇé śūra vajrivaḥ ǀ
yáddha śúṣṇasya dambháyo jātám víśvam sayā́vabhiḥ ǁmakṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ |
yad dha śuṣṇasya dambhayo jātaṃ viśvaṃ sayāvabhiḥ ||म॒क्षु । ता । ते॒ । इ॒न्द्र॒ । दा॒नऽअ॑प्नसः । आ॒क्षा॒णे । शू॒र॒ । व॒ज्रि॒ऽवः॒ ।
यत् । ह॒ । शुष्ण॑स्य । द॒म्भयः॑ । जा॒तम् । विश्व॑म् । स॒याव॑ऽभिः ॥मक्षु । ता । ते । इन्द्र । दानऽअप्नसः । आक्षाणे । शूर । वज्रिऽवः ।
यत् । ह । शुष्णस्य । दम्भयः । जातम् । विश्वम् । सयावऽभिः ॥makṣú ǀ tā́ ǀ te ǀ indra ǀ dāná-apnasaḥ ǀ ākṣāṇé ǀ śūra ǀ vajri-vaḥ ǀ
yát ǀ ha ǀ śúṣṇasya ǀ dambháyaḥ ǀ jātám ǀ víśvam ǀ sayā́va-bhiḥ ǁmakṣu ǀ tā ǀ te ǀ indra ǀ dāna-apnasaḥ ǀ ākṣāṇe ǀ śūra ǀ vajri-vaḥ ǀ
yat ǀ ha ǀ śuṣṇasya ǀ dambhayaḥ ǀ jātam ǀ viśvam ǀ sayāva-bhiḥ ǁ10.22.11 Aṣṭaka 7.7.8.1Anuvāka 10.2.65
-
Ṛk 12
माकु॒ध्र्य॑गिंद्र शूर॒ वस्वी॑र॒स्मे भू॑वन्न॒भिष्ट॑यः ।
व॒यंव॑यं त आसां सु॒म्ने स्या॑म वज्रिवः ॥माकुध्र्यग् इन्द्र शूर वस्वीर् अस्मे भूवन्न् अभिष्टयः |
वयं-वयं त आसां सुम्ने स्याम वज्रिवः ||mā́kudhryágindra śūra vásvīrasmé bhūvannabhíṣṭayaḥ ǀ
vayáṃvayam ta āsām sumné syāma vajrivaḥ ǁmākudhryag indra śūra vasvīr asme bhūvann abhiṣṭayaḥ |
vayaṃ-vayaṃ ta āsāṃ sumne syāma vajrivaḥ ||मा । अ॒कु॒ध्र्य॑क् । इ॒न्द्र॒ । शू॒र॒ । वस्वीः॑ । अ॒स्मे इति॑ । भू॒व॒न् । अ॒भिष्ट॑यः ।
व॒यम्ऽव॑यम् । ते॒ । आ॒सा॒म् । सु॒म्ने । स्या॒म॒ । व॒ज्रि॒ऽवः॒ ॥मा । अकुध्र्यक् । इन्द्र । शूर । वस्वीः । अस्मे इति । भूवन् । अभिष्टयः ।
वयम्ऽवयम् । ते । आसाम् । सुम्ने । स्याम । वज्रिऽवः ॥mā́ ǀ akudhryák ǀ indra ǀ śūra ǀ vásvīḥ ǀ asmé íti ǀ bhūvan ǀ abhíṣṭayaḥ ǀ
vayám-vayam ǀ te ǀ āsām ǀ sumné ǀ syāma ǀ vajri-vaḥ ǁmā ǀ akudhryak ǀ indra ǀ śūra ǀ vasvīḥ ǀ asme iti ǀ bhūvan ǀ abhiṣṭayaḥ ǀ
vayam-vayam ǀ te ǀ āsām ǀ sumne ǀ syāma ǀ vajri-vaḥ ǁ10.22.12 Aṣṭaka 7.7.8.2Anuvāka 10.2.66
-
Ṛk 13
अ॒स्मे ता त॑ इंद्र संतु स॒त्याहिं॑संतीरुप॒स्पृशः॑ ।
वि॒द्याम॒ यासां॒ भुजो॑ धेनू॒नां न व॑ज्रिवः ॥अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीर् उपस्पृशः |
विद्याम यासाम् भुजो धेनूनां न वज्रिवः ||asmé tā́ ta indra santu satyā́hiṃsantīrupaspṛ́śaḥ ǀ
vidyā́ma yā́sām bhújo dhenūnā́m ná vajrivaḥ ǁasme tā ta indra santu satyāhiṃsantīr upaspṛśaḥ |
vidyāma yāsām bhujo dhenūnāṃ na vajrivaḥ ||अ॒स्मे इति॑ । ता । ते॒ । इ॒न्द्र॒ । स॒न्तु॒ । स॒त्या । अहिं॑सन्तीः । उ॒प॒ऽस्पृशः॑ ।
वि॒द्याम॑ । यासा॑म् । भुजः॑ । धे॒नू॒नाम् । न । व॒ज्रि॒ऽवः॒ ॥अस्मे इति । ता । ते । इन्द्र । सन्तु । सत्या । अहिंसन्तीः । उपऽस्पृशः ।
विद्याम । यासाम् । भुजः । धेनूनाम् । न । वज्रिऽवः ॥asmé íti ǀ tā́ ǀ te ǀ indra ǀ santu ǀ satyā́ ǀ áhiṃsantīḥ ǀ upa-spṛ́śaḥ ǀ
vidyā́ma ǀ yā́sām ǀ bhújaḥ ǀ dhenūnā́m ǀ ná ǀ vajri-vaḥ ǁasme iti ǀ tā ǀ te ǀ indra ǀ santu ǀ satyā ǀ ahiṃsantīḥ ǀ upa-spṛśaḥ ǀ
vidyāma ǀ yāsām ǀ bhujaḥ ǀ dhenūnām ǀ na ǀ vajri-vaḥ ǁ10.22.13 Aṣṭaka 7.7.8.3Anuvāka 10.2.67
-
Ṛk 14
अ॒ह॒स्ता यद॒पदी॒ वर्ध॑त॒ क्षाः शची॑भिर्वे॒द्यानां॑ ।
शुष्णं॒ परि॑ प्रदक्षि॒णिद्वि॒श्वाय॑वे॒ नि शि॑श्नथः ॥अहस्ता यद् अपदी वर्धत क्षाः शचीभिर् वेद्यानाम् |
शुष्णम् परि प्रदक्षिणिद् विश्वायवे नि शिश्नथः ||ahastā́ yádapádī várdhata kṣā́ḥ śácībhirvedyā́nām ǀ
śúṣṇam pári pradakṣiṇídviśvā́yave ní śiśnathaḥ ǁahastā yad apadī vardhata kṣāḥ śacībhir vedyānām |
śuṣṇam pari pradakṣiṇid viśvāyave ni śiśnathaḥ ||अ॒ह॒स्ता । यत् । अ॒पदी॑ । वर्ध॑त । क्षाः । शची॑भिः । वे॒द्याना॑म् ।
शुष्ण॑म् । परि॑ । प्र॒ऽद॒क्षि॒णित् । वि॒श्वऽआ॑यवे । नि । शि॒श्न॒थः॒ ॥अहस्ता । यत् । अपदी । वर्धत । क्षाः । शचीभिः । वेद्यानाम् ।
शुष्णम् । परि । प्रऽदक्षिणित् । विश्वऽआयवे । नि । शिश्नथः ॥ahastā́ ǀ yát ǀ apádī ǀ várdhata ǀ kṣā́ḥ ǀ śácībhiḥ ǀ vedyā́nām ǀ
śúṣṇam ǀ pári ǀ pra-dakṣiṇít ǀ viśvá-āyave ǀ ní ǀ śiśnathaḥ ǁahastā ǀ yat ǀ apadī ǀ vardhata ǀ kṣāḥ ǀ śacībhiḥ ǀ vedyānām ǀ
śuṣṇam ǀ pari ǀ pra-dakṣiṇit ǀ viśva-āyave ǀ ni ǀ śiśnathaḥ ǁ10.22.14 Aṣṭaka 7.7.8.4Anuvāka 10.2.68
-
Ṛk 15
पिबा॑पि॒बेदिं॑द्र शूर॒ सोमं॒ मा रि॑षण्यो वसवान॒ वसुः॒ सन् ।
उ॒त त्रा॑यस्व गृण॒तो म॒घोनो॑ म॒हश्च॑ रा॒यो रे॒वत॑स्कृधी नः ॥पिबा-पिबेद् इन्द्र शूर सोमम् मा रिषण्यो वसवान वसुः सन् |
उत त्रायस्व गृणतो मघोनो महश् च रायो रेवतस् कृधी नः ||píbāpibédindra śūra sómam mā́ riṣaṇyo vasavāna vásuḥ sán ǀ
utá trāyasva gṛṇató maghóno maháśca rāyó revátaskṛdhī naḥ ǁpibā-pibed indra śūra somam mā riṣaṇyo vasavāna vasuḥ san |
uta trāyasva gṛṇato maghono mahaś ca rāyo revatas kṛdhī naḥ ||पिब॑ऽपिब । इत् । इ॒न्द्र॒ । शू॒र॒ । सोम॑म् । मा । रि॒ष॒ण्यः॒ । व॒स॒वा॒न॒ । वसुः॑ । सन् ।
उ॒त । त्रा॒य॒स्व॒ । गृ॒ण॒तः । म॒घोनः॑ । म॒हः । च॒ । रा॒यः । रे॒वतः॑ । कृ॒धि॒ । नः॒ ॥पिबऽपिब । इत् । इन्द्र । शूर । सोमम् । मा । रिषण्यः । वसवान । वसुः । सन् ।
उत । त्रायस्व । गृणतः । मघोनः । महः । च । रायः । रेवतः । कृधि । नः ॥píba-piba ǀ ít ǀ indra ǀ śūra ǀ sómam ǀ mā́ ǀ riṣaṇyaḥ ǀ vasavāna ǀ vásuḥ ǀ sán ǀ
utá ǀ trāyasva ǀ gṛṇatáḥ ǀ maghónaḥ ǀ maháḥ ǀ ca ǀ rāyáḥ ǀ revátaḥ ǀ kṛdhi ǀ naḥ ǁpiba-piba ǀ it ǀ indra ǀ śūra ǀ somam ǀ mā ǀ riṣaṇyaḥ ǀ vasavāna ǀ vasuḥ ǀ san ǀ
uta ǀ trāyasva ǀ gṛṇataḥ ǀ maghonaḥ ǀ mahaḥ ǀ ca ǀ rāyaḥ ǀ revataḥ ǀ kṛdhi ǀ naḥ ǁ10.22.15 Aṣṭaka 7.7.8.5Anuvāka 10.2.69
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.