Sūkta 49
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Indra Vaikuṇṭha
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛjjagatī (5, 6, 8); virāḍjagatī (3, 9); bhurigārcījagatī (1); virāṭtrisṭup (2); jagatī (4); svarāḍārcījagatī (7); pādanicṛjjgatī (10); svarāḍārcītriṣṭup (11)
2nd set of styles jagatī (1, 3-10); triṣṭubh (2, 11)
-
Ṛk 1
अ॒हं दां॑ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नं ।
अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न्भरे॑ ॥अहं दां गृणते पूर्व्यं वस्व् अहम् ब्रह्म कृणवम् मह्यं वर्धनम् |
अहम् भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन् भरे ||ahám dām gṛṇaté pū́rvyam vásvahám bráhma kṛṇavam máhyam várdhanam ǀ
ahám bhuvam yájamānasya coditā́yajvanaḥ sākṣi víśvasminbháre ǁahaṃ dāṃ gṛṇate pūrvyaṃ vasv aham brahma kṛṇavam mahyaṃ vardhanam |
aham bhuvaṃ yajamānasya coditāyajvanaḥ sākṣi viśvasmin bhare ||अ॒हम् । दा॒म् । गृ॒ण॒ते । पूर्व्य॑म् । वसु॑ । अ॒हम् । ब्रह्म॑ । कृ॒ण॒व॒म् । मह्य॑म् । वर्ध॑नम् ।
अ॒हम् । भु॒व॒म् । यज॑मानस्य । चो॒दि॒ता । अय॑ज्वनः । सा॒क्षि॒ । विश्व॑स्मिन् । भरे॑ ॥अहम् । दाम् । गृणते । पूर्व्यम् । वसु । अहम् । ब्रह्म । कृणवम् । मह्यम् । वर्धनम् ।
अहम् । भुवम् । यजमानस्य । चोदिता । अयज्वनः । साक्षि । विश्वस्मिन् । भरे ॥ahám ǀ dām ǀ gṛṇaté ǀ pū́rvyam ǀ vásu ǀ ahám ǀ bráhma ǀ kṛṇavam ǀ máhyam ǀ várdhanam ǀ
ahám ǀ bhuvam ǀ yájamānasya ǀ coditā́ ǀ áyajvanaḥ ǀ sākṣi ǀ víśvasmin ǀ bháre ǁaham ǀ dām ǀ gṛṇate ǀ pūrvyam ǀ vasu ǀ aham ǀ brahma ǀ kṛṇavam ǀ mahyam ǀ vardhanam ǀ
aham ǀ bhuvam ǀ yajamānasya ǀ coditā ǀ ayajvanaḥ ǀ sākṣi ǀ viśvasmin ǀ bhare ǁ10.49.1 Aṣṭaka 8.1.7.1Anuvāka 10.4.64
-
Ṛk 2
मां धु॒रिंद्रं॒ नाम॑ दे॒वता॑ दि॒वश्च॒ ग्मश्चा॒पां च॑ जं॒तवः॑ ।
अ॒हं हरी॒ वृष॑णा॒ विव्र॑ता र॒घू अ॒हं वज्रं॒ शव॑से धृ॒ष्ण्वा द॑दे ॥मां धुर् इन्द्रं नाम देवता दिवश् च ग्मश् चापां च जन्तवः |
अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्व् आ ददे ||mā́m dhuríndram nā́ma devátā diváśca gmáścāpā́m ca jantávaḥ ǀ
ahám hárī vṛ́ṣaṇā vívratā raghū́ ahám vájram śávase dhṛṣṇvā́ dade ǁmāṃ dhur indraṃ nāma devatā divaś ca gmaś cāpāṃ ca jantavaḥ |
ahaṃ harī vṛṣaṇā vivratā raghū ahaṃ vajraṃ śavase dhṛṣṇv ā dade ||माम् । धुः॒ । इन्द्र॑म् । नाम॑ । दे॒वता॑ । दि॒वः । च॒ । ग्मः । च॒ । अ॒पाम् । च॒ । ज॒न्तवः॑ ।
अ॒हम् । हरी॒ इति॑ । वृष॑णा । विऽव्र॑ता । र॒घू इति॑ । अ॒हम् । वज्र॑म् । शव॑से । धृ॒ष्णु । आ । द॒दे॒ ॥माम् । धुः । इन्द्रम् । नाम । देवता । दिवः । च । ग्मः । च । अपाम् । च । जन्तवः ।
अहम् । हरी इति । वृषणा । विऽव्रता । रघू इति । अहम् । वज्रम् । शवसे । धृष्णु । आ । ददे ॥mā́m ǀ dhuḥ ǀ índram ǀ nā́ma ǀ devátā ǀ diváḥ ǀ ca ǀ gmáḥ ǀ ca ǀ apā́m ǀ ca ǀ jantávaḥ ǀ
ahám ǀ hárī íti ǀ vṛ́ṣaṇā ǀ ví-vratā ǀ raghū́ íti ǀ ahám ǀ vájram ǀ śávase ǀ dhṛṣṇú ǀ ā́ ǀ dade ǁmām ǀ dhuḥ ǀ indram ǀ nāma ǀ devatā ǀ divaḥ ǀ ca ǀ gmaḥ ǀ ca ǀ apām ǀ ca ǀ jantavaḥ ǀ
aham ǀ harī iti ǀ vṛṣaṇā ǀ vi-vratā ǀ raghū iti ǀ aham ǀ vajram ǀ śavase ǀ dhṛṣṇu ǀ ā ǀ dade ǁ10.49.2 Aṣṭaka 8.1.7.2Anuvāka 10.4.65
-
Ṛk 3
अ॒हमत्कं॑ क॒वये॑ शिश्नथं॒ हथै॑र॒हं कुत्स॑मावमा॒भिरू॒तिभिः॑ ।
अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध॑र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ॥अहम् अत्कं कवये शिश्नथं हथैर् अहं कुत्सम् आवम् आभिर् ऊतिभिः |
अहं शुष्णस्य श्नथिता वधर् यमं न यो रर आर्यं नाम दस्यवे ||ahámátkam kaváye śiśnatham háthairahám kútsamāvamābhírūtíbhiḥ ǀ
ahám śúṣṇasya śnáthitā vádharyamam ná yó rará ā́ryam nā́ma dásyave ǁaham atkaṃ kavaye śiśnathaṃ hathair ahaṃ kutsam āvam ābhir ūtibhiḥ |
ahaṃ śuṣṇasya śnathitā vadhar yamaṃ na yo rara āryaṃ nāma dasyave ||अ॒हम् । अत्क॑म् । क॒वये॑ । शि॒श्न॒थ॒म् । हथैः॑ । अ॒हम् । कुत्स॑म् । आ॒व॒म् । आ॒भिः । ऊ॒तिऽभिः॑ ।
अ॒हम् । शुष्ण॑स्य । श्नथि॑ता । वधः॑ । य॒म॒म् । न । यः । र॒रे । आर्य॑म् । नाम॑ । दस्य॑वे ॥अहम् । अत्कम् । कवये । शिश्नथम् । हथैः । अहम् । कुत्सम् । आवम् । आभिः । ऊतिऽभिः ।
अहम् । शुष्णस्य । श्नथिता । वधः । यमम् । न । यः । ररे । आर्यम् । नाम । दस्यवे ॥ahám ǀ átkam ǀ kaváye ǀ śiśnatham ǀ háthaiḥ ǀ ahám ǀ kútsam ǀ āvam ǀ ābhíḥ ǀ ūtí-bhiḥ ǀ
ahám ǀ śúṣṇasya ǀ śnáthitā ǀ vádhaḥ ǀ yamam ǀ ná ǀ yáḥ ǀ raré ǀ ā́ryam ǀ nā́ma ǀ dásyave ǁaham ǀ atkam ǀ kavaye ǀ śiśnatham ǀ hathaiḥ ǀ aham ǀ kutsam ǀ āvam ǀ ābhiḥ ǀ ūti-bhiḥ ǀ
aham ǀ śuṣṇasya ǀ śnathitā ǀ vadhaḥ ǀ yamam ǀ na ǀ yaḥ ǀ rare ǀ āryam ǀ nāma ǀ dasyave ǁ10.49.3 Aṣṭaka 8.1.7.3Anuvāka 10.4.66
-
Ṛk 4
अ॒हं पि॒तेव॑ वेत॒सूँर॒भिष्ट॑ये॒ तुग्रं॒ कुत्सा॑य॒ स्मदि॑भं च रंधयं ।
अ॒हं भु॑वं॒ यज॑मानस्य रा॒जनि॒ प्र यद्भरे॒ तुज॑ये॒ न प्रि॒याधृषे॑ ॥अहम् पितेव वेतसूंर् अभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् |
अहम् भुवं यजमानस्य राजनि प्र यद् भरे तुजये न प्रियाधृषे ||ahám pitéva vetasū́m̐rabhíṣṭaye túgram kútsāya smádibham ca randhayam ǀ
ahám bhuvam yájamānasya rājáni prá yádbháre tújaye ná priyā́dhṛ́ṣe ǁaham piteva vetasūṃr abhiṣṭaye tugraṃ kutsāya smadibhaṃ ca randhayam |
aham bhuvaṃ yajamānasya rājani pra yad bhare tujaye na priyādhṛṣe ||अ॒हम् । पि॒ताऽइ॑व । वे॒त॒सून् । अ॒भिष्ट॑ये । तुग्र॑म् । कुत्सा॑य । स्मत्ऽइ॑भम् । च॒ । र॒न्ध॒य॒म् ।
अ॒हम् । भु॒व॒म् । यज॑मानस्य । रा॒जनि॑ । प्र । यत् । भ॒रे॒ । तुज॑ये । न । प्रि॒या । आ॒ऽधृषे॑ ॥अहम् । पिताऽइव । वेतसून् । अभिष्टये । तुग्रम् । कुत्साय । स्मत्ऽइभम् । च । रन्धयम् ।
अहम् । भुवम् । यजमानस्य । राजनि । प्र । यत् । भरे । तुजये । न । प्रिया । आऽधृषे ॥ahám ǀ pitā́-iva ǀ vetasū́n ǀ abhíṣṭaye ǀ túgram ǀ kútsāya ǀ smát-ibham ǀ ca ǀ randhayam ǀ
ahám ǀ bhuvam ǀ yájamānasya ǀ rājáni ǀ prá ǀ yát ǀ bhare ǀ tújaye ǀ ná ǀ priyā́ ǀ ā-dhṛ́ṣe ǁaham ǀ pitā-iva ǀ vetasūn ǀ abhiṣṭaye ǀ tugram ǀ kutsāya ǀ smat-ibham ǀ ca ǀ randhayam ǀ
aham ǀ bhuvam ǀ yajamānasya ǀ rājani ǀ pra ǀ yat ǀ bhare ǀ tujaye ǀ na ǀ priyā ǀ ā-dhṛṣe ǁ10.49.4 Aṣṭaka 8.1.7.4Anuvāka 10.4.67
-
Ṛk 5
अ॒हं रं॑धयं॒ मृग॑यं श्रु॒तर्व॑णे॒ यन्माजि॑हीत व॒युना॑ च॒नानु॒षक् ।
अ॒हं वे॒शं न॒म्रमा॒यवे॑ऽकरम॒हं सव्या॑य॒ पड्गृ॑भिमरंधयं ॥अहं रन्धयम् मृगयं श्रुतर्वणे यन् माजिहीत वयुना चनानुषक् |
अहं वेशं नम्रम् आयवे ऽकरम् अहं सव्याय पड्गृभिम् अरन्धयम् ||ahám randhayam mṛ́gayam śrutárvaṇe yánmā́jihīta vayúnā canā́nuṣák ǀ
ahám veśám namrámāyáve’karamahám sávyāya páḍgṛbhimarandhayam ǁahaṃ randhayam mṛgayaṃ śrutarvaṇe yan mājihīta vayunā canānuṣak |
ahaṃ veśaṃ namram āyave 'karam ahaṃ savyāya paḍgṛbhim arandhayam ||अ॒हम् । र॒न्ध॒य॒म् । मृग॑यम् । श्रु॒तर्व॑णे । यत् । मा॒ । अजि॑हीत । व॒युना॑ । च॒न । आ॒नु॒षक् ।
अ॒हम् । वे॒शम् । न॒म्रम् । आ॒यवे॑ । अ॒क॒र॒म् । अ॒हम् । सव्या॑य । पट्ऽगृ॑भिम् । अ॒र॒न्ध॒य॒म् ॥अहम् । रन्धयम् । मृगयम् । श्रुतर्वणे । यत् । मा । अजिहीत । वयुना । चन । आनुषक् ।
अहम् । वेशम् । नम्रम् । आयवे । अकरम् । अहम् । सव्याय । पट्ऽगृभिम् । अरन्धयम् ॥ahám ǀ randhayam ǀ mṛ́gayam ǀ śrutárvaṇe ǀ yát ǀ mā ǀ ájihīta ǀ vayúnā ǀ caná ǀ ānuṣák ǀ
ahám ǀ veśám ǀ namrám ǀ āyáve ǀ akaram ǀ ahám ǀ sávyāya ǀ páṭ-gṛbhim ǀ arandhayam ǁaham ǀ randhayam ǀ mṛgayam ǀ śrutarvaṇe ǀ yat ǀ mā ǀ ajihīta ǀ vayunā ǀ cana ǀ ānuṣak ǀ
aham ǀ veśam ǀ namram ǀ āyave ǀ akaram ǀ aham ǀ savyāya ǀ paṭ-gṛbhim ǀ arandhayam ǁ10.49.5 Aṣṭaka 8.1.7.5Anuvāka 10.4.68
-
Ṛk 6
अ॒हं स यो नव॑वास्त्वं बृ॒हद्र॑थं॒ सं वृ॒त्रेव॒ दासं॑ वृत्र॒हारु॑जं ।
यद्व॒र्धयं॑तं प्र॒थयं॑तमानु॒षग्दू॒रे पा॒रे रज॑सो रोच॒नाक॑रं ॥अहं स यो नववास्त्वम् बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम् |
यद् वर्धयन्तम् प्रथयन्तम् आनुषग् दूरे पारे रजसो रोचनाकरम् ||ahám sá yó návavāstvam bṛhádratham sám vṛtréva dā́sam vṛtrahā́rujam ǀ
yádvardháyantam pratháyantamānuṣágdūré pāré rájaso rocanā́karam ǁahaṃ sa yo navavāstvam bṛhadrathaṃ saṃ vṛtreva dāsaṃ vṛtrahārujam |
yad vardhayantam prathayantam ānuṣag dūre pāre rajaso rocanākaram ||अ॒हम् । सः । यः । नव॑ऽवास्त्वम् । बृ॒हत्ऽर॑थम् । सम् । वृ॒त्राऽइ॑व । दास॑म् । वृ॒त्र॒ऽहा । अरु॑जम् ।
यत् । व॒र्धय॑न्तम् । प्र॒थय॑न्तम् । आ॒नु॒षक् । दू॒रे । पा॒रे । रज॑सः । रो॒च॒ना । अक॑रम् ॥अहम् । सः । यः । नवऽवास्त्वम् । बृहत्ऽरथम् । सम् । वृत्राऽइव । दासम् । वृत्रऽहा । अरुजम् ।
यत् । वर्धयन्तम् । प्रथयन्तम् । आनुषक् । दूरे । पारे । रजसः । रोचना । अकरम् ॥ahám ǀ sáḥ ǀ yáḥ ǀ náva-vāstvam ǀ bṛhát-ratham ǀ sám ǀ vṛtrā́-iva ǀ dā́sam ǀ vṛtra-hā́ ǀ árujam ǀ
yát ǀ vardháyantam ǀ pratháyantam ǀ ānuṣák ǀ dūré ǀ pāré ǀ rájasaḥ ǀ rocanā́ ǀ ákaram ǁaham ǀ saḥ ǀ yaḥ ǀ nava-vāstvam ǀ bṛhat-ratham ǀ sam ǀ vṛtrā-iva ǀ dāsam ǀ vṛtra-hā ǀ arujam ǀ
yat ǀ vardhayantam ǀ prathayantam ǀ ānuṣak ǀ dūre ǀ pāre ǀ rajasaḥ ǀ rocanā ǀ akaram ǁ10.49.6 Aṣṭaka 8.1.8.1Anuvāka 10.4.69
-
Ṛk 7
अ॒हं सूर्य॑स्य॒ परि॑ याम्या॒शुभिः॒ प्रैत॒शेभि॒र्वह॑मान॒ ओज॑सा ।
यन्मा॑ सा॒वो मनु॑ष॒ आह॑ नि॒र्णिज॒ ऋध॑क्कृषे॒ दासं॒ कृत्व्यं॒ हथैः॑ ॥अहं सूर्यस्य परि याम्य् आशुभिः प्रैतशेभिर् वहमान ओजसा |
यन् मा सावो मनुष आह निर्णिज ऋधक् कृषे दासं कृत्व्यं हथैः ||ahám sū́ryasya pári yāmyāśúbhiḥ práitaśébhirváhamāna ójasā ǀ
yánmā sāvó mánuṣa ā́ha nirṇíja ṛ́dhakkṛṣe dā́sam kṛ́tvyam háthaiḥ ǁahaṃ sūryasya pari yāmy āśubhiḥ praitaśebhir vahamāna ojasā |
yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣe dāsaṃ kṛtvyaṃ hathaiḥ ||अ॒हम् । सूर्य॑स्य । परि॑ । या॒मि॒ । आ॒शुऽभिः॑ । प्र । ए॒त॒शेभिः॑ । वह॑मानः । ओज॑सा ।
यत् । मा॒ । सा॒वः । मनु॑षः । आह॑ । निः॒ऽनिजे॑ । ऋध॑क् । कृ॒षे॒ । दास॑म् । कृत्व्य॑म् । हथैः॑ ॥अहम् । सूर्यस्य । परि । यामि । आशुऽभिः । प्र । एतशेभिः । वहमानः । ओजसा ।
यत् । मा । सावः । मनुषः । आह । निःऽनिजे । ऋधक् । कृषे । दासम् । कृत्व्यम् । हथैः ॥ahám ǀ sū́ryasya ǀ pári ǀ yāmi ǀ āśú-bhiḥ ǀ prá ǀ etaśébhiḥ ǀ váhamānaḥ ǀ ójasā ǀ
yát ǀ mā ǀ sāváḥ ǀ mánuṣaḥ ǀ ā́ha ǀ niḥ-níje ǀ ṛ́dhak ǀ kṛṣe ǀ dā́sam ǀ kṛ́tvyam ǀ háthaiḥ ǁaham ǀ sūryasya ǀ pari ǀ yāmi ǀ āśu-bhiḥ ǀ pra ǀ etaśebhiḥ ǀ vahamānaḥ ǀ ojasā ǀ
yat ǀ mā ǀ sāvaḥ ǀ manuṣaḥ ǀ āha ǀ niḥ-nije ǀ ṛdhak ǀ kṛṣe ǀ dāsam ǀ kṛtvyam ǀ hathaiḥ ǁ10.49.7 Aṣṭaka 8.1.8.2Anuvāka 10.4.70
-
Ṛk 8
अ॒हं स॑प्त॒हा नहु॑षो॒ नहु॑ष्टरः॒ प्राश्रा॑वयं॒ शव॑सा तु॒र्वशं॒ यदुं॑ ।
अ॒हं न्य१॒॑न्यं सह॑सा॒ सह॑स्करं॒ नव॒ व्राध॑तो नव॒तिं च॑ वक्षयं ॥अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम् |
अहं न्य् अन्यं सहसा सहस् करं नव व्राधतो नवतिं च वक्षयम् ||ahám saptahā́ náhuṣo náhuṣṭaraḥ prā́śrāvayam śávasā turváśam yádum ǀ
ahám nyányám sáhasā sáhaskaram náva vrā́dhato navatím ca vakṣayam ǁahaṃ saptahā nahuṣo nahuṣṭaraḥ prāśrāvayaṃ śavasā turvaśaṃ yadum |
ahaṃ ny anyaṃ sahasā sahas karaṃ nava vrādhato navatiṃ ca vakṣayam ||अ॒हम् । स॒प्त॒ऽहा । नहु॑षः । नहुः॑ऽतरः । प्र । अ॒श्र॒व॒य॒म् । शव॑सा । तु॒र्वश॑म् । यदु॑म् ।
अ॒हम् । नि । अ॒न्यम् । सह॑सा । सहः॑ । क॒र॒म् । नव॑ । व्राध॑तः । न॒व॒तिम् । च॒ । व॒क्ष॒य॒म् ॥अहम् । सप्तऽहा । नहुषः । नहुःऽतरः । प्र । अश्रवयम् । शवसा । तुर्वशम् । यदुम् ।
अहम् । नि । अन्यम् । सहसा । सहः । करम् । नव । व्राधतः । नवतिम् । च । वक्षयम् ॥ahám ǀ sapta-hā́ ǀ náhuṣaḥ ǀ náhuḥ-taraḥ ǀ prá ǀ aśravayam ǀ śávasā ǀ turváśam ǀ yádum ǀ
ahám ǀ ní ǀ anyám ǀ sáhasā ǀ sáhaḥ ǀ karam ǀ náva ǀ vrā́dhataḥ ǀ navatím ǀ ca ǀ vakṣayam ǁaham ǀ sapta-hā ǀ nahuṣaḥ ǀ nahuḥ-taraḥ ǀ pra ǀ aśravayam ǀ śavasā ǀ turvaśam ǀ yadum ǀ
aham ǀ ni ǀ anyam ǀ sahasā ǀ sahaḥ ǀ karam ǀ nava ǀ vrādhataḥ ǀ navatim ǀ ca ǀ vakṣayam ǁ10.49.8 Aṣṭaka 8.1.8.3Anuvāka 10.4.71
-
Ṛk 9
अ॒हं स॒प्त स्र॒वतो॑ धारयं॒ वृषा॑ द्रवि॒त्न्वः॑ पृथि॒व्यां सी॒रा अधि॑ ।
अ॒हमर्णां॑सि॒ वि ति॑रामि सु॒क्रतु॑र्यु॒धा वि॑दं॒ मन॑वे गा॒तुमि॒ष्टये॑ ॥अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि |
अहम् अर्णांसि वि तिरामि सुक्रतुर् युधा विदम् मनवे गातुम् इष्टये ||ahám saptá sraváto dhārayam vṛ́ṣā dravitnváḥ pṛthivyā́m sīrā́ ádhi ǀ
ahámárṇāṃsi ví tirāmi sukráturyudhā́ vidam mánave gātúmiṣṭáye ǁahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃ sīrā adhi |
aham arṇāṃsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye ||अ॒हम् । स॒प्त । स्र॒वतः॑ । धा॒र॒य॒म् । वृषा॑ । द्र॒वि॒त्न्वः॑ । पृ॒थि॒व्याम् । सी॒राः । अधि॑ ।
अ॒हम् । अर्णां॑सि । वि । ति॒रा॒मि॒ । सु॒ऽक्रतुः॑ । यु॒धा । वि॒द॒म् । मन॑वे । गा॒तुम् । इ॒ष्टये॑ ॥अहम् । सप्त । स्रवतः । धारयम् । वृषा । द्रवित्न्वः । पृथिव्याम् । सीराः । अधि ।
अहम् । अर्णांसि । वि । तिरामि । सुऽक्रतुः । युधा । विदम् । मनवे । गातुम् । इष्टये ॥ahám ǀ saptá ǀ sravátaḥ ǀ dhārayam ǀ vṛ́ṣā ǀ dravitnváḥ ǀ pṛthivyā́m ǀ sīrā́ḥ ǀ ádhi ǀ
ahám ǀ árṇāṃsi ǀ ví ǀ tirāmi ǀ su-krátuḥ ǀ yudhā́ ǀ vidam ǀ mánave ǀ gātúm ǀ iṣṭáye ǁaham ǀ sapta ǀ sravataḥ ǀ dhārayam ǀ vṛṣā ǀ dravitnvaḥ ǀ pṛthivyām ǀ sīrāḥ ǀ adhi ǀ
aham ǀ arṇāṃsi ǀ vi ǀ tirāmi ǀ su-kratuḥ ǀ yudhā ǀ vidam ǀ manave ǀ gātum ǀ iṣṭaye ǁ10.49.9 Aṣṭaka 8.1.8.4Anuvāka 10.4.72
-
Ṛk 10
अ॒हं तदा॑सु धारयं॒ यदा॑सु॒ न दे॒वश्च॒न त्वष्टाधा॑रय॒द्रुश॑त् ।
स्पा॒र्हं गवा॒मूध॑स्सु व॒क्षणा॒स्वा मधो॒र्मधु॒ श्वात्र्यं॒ सोम॑मा॒शिरं॑ ॥अहं तद् आसु धारयं यद् आसु न देवश् चन त्वष्टाधारयद् रुशत् |
स्पार्हं गवाम् ऊधस्सु वक्षणास्व् आ मधोर् मधु श्वात्र्यं सोमम् आशिरम् ||ahám tádāsu dhārayam yádāsu ná deváścaná tváṣṭā́dhārayadrúśat ǀ
spārhám gávāmū́dhassu vakṣáṇāsvā́ mádhormádhu śvā́tryam sómamāśíram ǁahaṃ tad āsu dhārayaṃ yad āsu na devaś cana tvaṣṭādhārayad ruśat |
spārhaṃ gavām ūdhassu vakṣaṇāsv ā madhor madhu śvātryaṃ somam āśiram ||अ॒हम् । तत् । आ॒सु॒ । धा॒र॒य॒म् । यत् । आ॒सु॒ । न । दे॒वः । च॒न । त्वष्टा॑ । अधा॑रयत् । रुश॑त् ।
स्पा॒र्हम् । गवा॑म् । ऊधः॑ऽसु । व॒क्षणा॑सु । आ । मधोः॑ । मधु॑ । श्वात्र्य॑म् । सोम॑म् । आ॒ऽशिर॑म् ॥अहम् । तत् । आसु । धारयम् । यत् । आसु । न । देवः । चन । त्वष्टा । अधारयत् । रुशत् ।
स्पार्हम् । गवाम् । ऊधःऽसु । वक्षणासु । आ । मधोः । मधु । श्वात्र्यम् । सोमम् । आऽशिरम् ॥ahám ǀ tát ǀ āsu ǀ dhārayam ǀ yát ǀ āsu ǀ ná ǀ deváḥ ǀ caná ǀ tváṣṭā ǀ ádhārayat ǀ rúśat ǀ
spārhám ǀ gávām ǀ ū́dhaḥ-su ǀ vakṣáṇāsu ǀ ā́ ǀ mádhoḥ ǀ mádhu ǀ śvā́tryam ǀ sómam ǀ ā-śíram ǁaham ǀ tat ǀ āsu ǀ dhārayam ǀ yat ǀ āsu ǀ na ǀ devaḥ ǀ cana ǀ tvaṣṭā ǀ adhārayat ǀ ruśat ǀ
spārham ǀ gavām ǀ ūdhaḥ-su ǀ vakṣaṇāsu ǀ ā ǀ madhoḥ ǀ madhu ǀ śvātryam ǀ somam ǀ ā-śiram ǁ10.49.10 Aṣṭaka 8.1.8.5Anuvāka 10.4.73
-
Ṛk 11
ए॒वा दे॒वाँ इंद्रो॑ विव्ये॒ नॄन्प्र च्यौ॒त्नेन॑ म॒घवा॑ स॒त्यरा॑धाः ।
विश्वेत्ता ते॑ हरिवः शचीवो॒ऽभि तु॒रासः॑ स्वयशो गृणंति ॥एवा देवां इन्द्रो विव्ये नॄन् प्र च्यौत्नेन मघवा सत्यराधाः |
विश्वेत् ता ते हरिवः शचीवो ऽभि तुरासः स्वयशो गृणन्ति ||evā́ devā́m̐ índro vivye nṝ́nprá cyautnéna maghávā satyárādhāḥ ǀ
víśvéttā́ te harivaḥ śacīvo’bhí turā́saḥ svayaśo gṛṇanti ǁevā devāṃ indro vivye nṝn pra cyautnena maghavā satyarādhāḥ |
viśvet tā te harivaḥ śacīvo 'bhi turāsaḥ svayaśo gṛṇanti ||ए॒व । दे॒वान् । इन्द्रः॑ । वि॒व्ये॒ । नॄन् । प्र । च्यौ॒त्नेन॑ । म॒घऽवा॑ । स॒त्यऽरा॑धाः ।
विश्वा॑ । इत् । ता । ते॒ । ह॒रि॒ऽवः॒ । श॒ची॒ऽवः॒ । अ॒भि । तु॒रासः॑ । स्व॒ऽय॒शः॒ । गृ॒ण॒न्ति॒ ॥एव । देवान् । इन्द्रः । विव्ये । नॄन् । प्र । च्यौत्नेन । मघऽवा । सत्यऽराधाः ।
विश्वा । इत् । ता । ते । हरिऽवः । शचीऽवः । अभि । तुरासः । स्वऽयशः । गृणन्ति ॥evá ǀ devā́n ǀ índraḥ ǀ vivye ǀ nṝ́n ǀ prá ǀ cyautnéna ǀ maghá-vā ǀ satyá-rādhāḥ ǀ
víśvā ǀ ít ǀ tā́ ǀ te ǀ hari-vaḥ ǀ śacī-vaḥ ǀ abhí ǀ turā́saḥ ǀ sva-yaśaḥ ǀ gṛṇanti ǁeva ǀ devān ǀ indraḥ ǀ vivye ǀ nṝn ǀ pra ǀ cyautnena ǀ magha-vā ǀ satya-rādhāḥ ǀ
viśvā ǀ it ǀ tā ǀ te ǀ hari-vaḥ ǀ śacī-vaḥ ǀ abhi ǀ turāsaḥ ǀ sva-yaśaḥ ǀ gṛṇanti ǁ10.49.11 Aṣṭaka 8.1.8.6Anuvāka 10.4.74
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.