Ṛgveda · Maṇḍala 10 · Sūkta 49

Ṛk 10.49.11

Indra · Indra Vaikuṇṭha

The whole sūkta Link

Saṃhitā

ए॒वा दे॒वाँ इंद्रो॑ विव्ये॒ नॄन्प्र च्यौ॒त्नेन॑ म॒घवा॑ स॒त्यरा॑धाः ।
विश्वेत्ता ते॑ हरिवः शचीवो॒ऽभि तु॒रासः॑ स्वयशो गृणंति ॥

एवा देवां इन्द्रो विव्ये नॄन् प्र च्यौत्नेन मघवा सत्यराधाः |
विश्वेत् ता ते हरिवः शचीवो ऽभि तुरासः स्वयशो गृणन्ति ||

evā́ devā́m̐ índro vivye nṝ́nprá cyautnéna maghávā satyárādhāḥ ǀ
víśvéttā́ te harivaḥ śacīvo’bhí turā́saḥ svayaśo gṛṇanti ǁ

evā devāṃ indro vivye nṝn pra cyautnena maghavā satyarādhāḥ |
viśvet tā te harivaḥ śacīvo 'bhi turāsaḥ svayaśo gṛṇanti ||

Padapāṭha

ए॒व । दे॒वान् । इन्द्रः॑ । वि॒व्ये॒ । नॄन् । प्र । च्यौ॒त्नेन॑ । म॒घऽवा॑ । स॒त्यऽरा॑धाः ।
विश्वा॑ । इत् । ता । ते॒ । ह॒रि॒ऽवः॒ । श॒ची॒ऽवः॒ । अ॒भि । तु॒रासः॑ । स्व॒ऽय॒शः॒ । गृ॒ण॒न्ति॒ ॥

एव । देवान् । इन्द्रः । विव्ये । नॄन् । प्र । च्यौत्नेन । मघऽवा । सत्यऽराधाः ।
विश्वा । इत् । ता । ते । हरिऽवः । शचीऽवः । अभि । तुरासः । स्वऽयशः । गृणन्ति ॥

evá ǀ devā́n ǀ índraḥ ǀ vivye ǀ nṝ́n ǀ prá ǀ cyautnéna ǀ maghá-vā ǀ satyá-rādhāḥ ǀ
víśvā ǀ ít ǀ tā́ ǀ te ǀ hari-vaḥ ǀ śacī-vaḥ ǀ abhí ǀ turā́saḥ ǀ sva-yaśaḥ ǀ gṛṇanti ǁ

eva ǀ devān ǀ indraḥ ǀ vivye ǀ nṝn ǀ pra ǀ cyautnena ǀ magha-vā ǀ satya-rādhāḥ ǀ
viśvā ǀ it ǀ tā ǀ te ǀ hari-vaḥ ǀ śacī-vaḥ ǀ abhi ǀ turāsaḥ ǀ sva-yaśaḥ ǀ gṛṇanti ǁ

References

Maṇḍala · Sūkta · Ṛk
10.049.11
Aṣṭaka · Adhyāya · Varga · Ṛk
8.1.08.06
Maṇḍala · Anuvāka · Ṛk
10.04.074
Devatā देवता
Indra
Ṛṣi ऋषि
Indra Vaikuṇṭha
Chandas छन्दस्
Jagatī, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.49.11

Interpretations

Sāyaṇa

अथानयेन्द्र इन्द्रभावं परित्यज्य ऋषिभावेनाह। एवैवमुक्तप्रकारेण देवान्नॄंश्चेन्द्रो देवः प्र विव्ये। प्रकर्षेण गमयति। तस्मात्पराचीः प्रजाः प्रवीयन्ते प्रतीचीर्जायन्ते। तै. सं. ६-३-१-४। इति ब्राह्मणम्। किमन्यसहायेन नेत्याह। च्यौत्नेन स्वीयेन बलेन। कीदृश इन्द्रः। मघवा धनवान् सत्यराधाः सत्यधनः। अथ प्रत्यक्षेणाह। हे हरिवो हरिभ्यां तद्व ञ्यचीवः कर्मवन् हे स्वयशः स्वायत्तकीर्तेऽन्नवन्वेन्द्र ता तानि विश्वा सर्वाणि कर्माणि ते तव सम्बन्धीनि येषु कर्मसु तुरासस्त्वरमाणा ऋत्विजोऽभि गृणन्ति अभिष्टुवन्ति॥११॥