Ṛgveda · Maṇḍala 10 · Sūkta 49
Ṛk 10.49.1
Saṃhitā
अ॒हं दां॑ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नं ।
अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न्भरे॑ ॥
अहं दां गृणते पूर्व्यं वस्व् अहम् ब्रह्म कृणवम् मह्यं वर्धनम् |
अहम् भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन् भरे ||
ahám dām gṛṇaté pū́rvyam vásvahám bráhma kṛṇavam máhyam várdhanam ǀ
ahám bhuvam yájamānasya coditā́yajvanaḥ sākṣi víśvasminbháre ǁ
ahaṃ dāṃ gṛṇate pūrvyaṃ vasv aham brahma kṛṇavam mahyaṃ vardhanam |
aham bhuvaṃ yajamānasya coditāyajvanaḥ sākṣi viśvasmin bhare ||
Padapāṭha
अ॒हम् । दा॒म् । गृ॒ण॒ते । पूर्व्य॑म् । वसु॑ । अ॒हम् । ब्रह्म॑ । कृ॒ण॒व॒म् । मह्य॑म् । वर्ध॑नम् ।
अ॒हम् । भु॒व॒म् । यज॑मानस्य । चो॒दि॒ता । अय॑ज्वनः । सा॒क्षि॒ । विश्व॑स्मिन् । भरे॑ ॥
अहम् । दाम् । गृणते । पूर्व्यम् । वसु । अहम् । ब्रह्म । कृणवम् । मह्यम् । वर्धनम् ।
अहम् । भुवम् । यजमानस्य । चोदिता । अयज्वनः । साक्षि । विश्वस्मिन् । भरे ॥
ahám ǀ dām ǀ gṛṇaté ǀ pū́rvyam ǀ vásu ǀ ahám ǀ bráhma ǀ kṛṇavam ǀ máhyam ǀ várdhanam ǀ
ahám ǀ bhuvam ǀ yájamānasya ǀ coditā́ ǀ áyajvanaḥ ǀ sākṣi ǀ víśvasmin ǀ bháre ǁ
aham ǀ dām ǀ gṛṇate ǀ pūrvyam ǀ vasu ǀ aham ǀ brahma ǀ kṛṇavam ǀ mahyam ǀ vardhanam ǀ
aham ǀ bhuvam ǀ yajamānasya ǀ coditā ǀ ayajvanaḥ ǀ sākṣi ǀ viśvasmin ǀ bhare ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.049.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.07.01
- Maṇḍala · Anuvāka · Ṛk
- 10.04.064
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Indra Vaikuṇṭha
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.