Sūkta 69
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Sumitra Vādhryaśva
- Chandas छन्दस्
- Triṣṭubh, Jagatī
Metres by ṛk
1st set of styles nicṛttriṣṭup (4, 5, 12); triṣṭup (3, 7); pādanicṛttriṣṭup (8, 10); virāḍtriṣṭup (9, 11); nicṛjjagatī (1); virāḍjagatī (2); svarāḍārcītriṣṭup (6)
2nd set of styles triṣṭubh (3-12); jagatī (1, 2)
-
Ṛk 1
भ॒द्रा अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो॑ वा॒मी प्रणी॑तिः सु॒रणा॒ उपे॑तयः ।
यदीं॑ सुमि॒त्रा विशो॒ अग्र॑ इं॒धते॑ घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ॥भद्रा अग्नेर् वध्र्यश्वस्य संदृशो वामी प्रणीतिः सुरणा उपेतयः |
यद् ईं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत् ||bhadrā́ agnérvadhryaśvásya saṃdṛ́śo vāmī́ práṇītiḥ suráṇā úpetayaḥ ǀ
yádīm sumitrā́ víśo ágra indháte ghṛténā́huto jarate dávidyutat ǁbhadrā agner vadhryaśvasya saṃdṛśo vāmī praṇītiḥ suraṇā upetayaḥ |
yad īṃ sumitrā viśo agra indhate ghṛtenāhuto jarate davidyutat ||भ॒द्राः । अ॒ग्नेः । व॒ध्रि॒ऽअ॒श्वस्य॑ । स॒म्ऽदृशः॑ । वा॒मी । प्रऽनी॑तिः । सु॒ऽरणाः॑ । उप॑ऽइतयः ।
यत् । ई॒म् । सु॒ऽमि॒त्राः । विशः॑ । अग्रे॑ । इ॒न्धते॑ । घृ॒तेन॑ । आऽहु॑तः । ज॒र॒ते॒ । दवि॑द्युतत् ॥भद्राः । अग्नेः । वध्रिऽअश्वस्य । सम्ऽदृशः । वामी । प्रऽनीतिः । सुऽरणाः । उपऽइतयः ।
यत् । ईम् । सुऽमित्राः । विशः । अग्रे । इन्धते । घृतेन । आऽहुतः । जरते । दविद्युतत् ॥bhadrā́ḥ ǀ agnéḥ ǀ vadhri-aśvásya ǀ sam-dṛ́śaḥ ǀ vāmī́ ǀ prá-nītiḥ ǀ su-ráṇāḥ ǀ úpa-itayaḥ ǀ
yát ǀ īm ǀ su-mitrā́ḥ ǀ víśaḥ ǀ ágre ǀ indháte ǀ ghṛténa ǀ ā́-hutaḥ ǀ jarate ǀ dávidyutat ǁbhadrāḥ ǀ agneḥ ǀ vadhri-aśvasya ǀ sam-dṛśaḥ ǀ vāmī ǀ pra-nītiḥ ǀ su-raṇāḥ ǀ upa-itayaḥ ǀ
yat ǀ īm ǀ su-mitrāḥ ǀ viśaḥ ǀ agre ǀ indhate ǀ ghṛtena ǀ ā-hutaḥ ǀ jarate ǀ davidyutat ǁ10.69.1 Aṣṭaka 8.2.19.1Anuvāka 10.6.1
-
Ṛk 2
घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒ वर्ध॑नं घृ॒तमन्नं॑ घृ॒तम्व॑स्य॒ मेद॑नं ।
घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे॒ सूर्य॑ इव रोचते स॒र्पिरा॑सुतिः ॥घृतम् अग्नेर् वध्र्यश्वस्य वर्धनं घृतम् अन्नं घृतम् व् अस्य मेदनम् |
घृतेनाहुत उर्विया वि पप्रथे सूर्य इव रोचते सर्पिरासुतिः ||ghṛtámagnérvadhryaśvásya várdhanam ghṛtámánnam ghṛtámvasya médanam ǀ
ghṛténā́huta urviyā́ ví paprathe sū́rya iva rocate sarpírāsutiḥ ǁghṛtam agner vadhryaśvasya vardhanaṃ ghṛtam annaṃ ghṛtam v asya medanam |
ghṛtenāhuta urviyā vi paprathe sūrya iva rocate sarpirāsutiḥ ||घृ॒तम् । अ॒ग्नेः । व॒ध्रि॒ऽअ॒श्वस्य॑ । वर्ध॑नम् । घृ॒तम् । अन्न॑म् । घृ॒तम् । ऊं॒ इति॑ । अ॒स्य॒ । मेद॑नम् ।
घृ॒तेन॑ । आऽहु॑तः । उ॒र्वि॒या । वि । प॒प्र॒थे॒ । सूर्यः॑ऽइव । रो॒च॒ते॒ । स॒र्पिःऽआ॑सुतिः ॥घृतम् । अग्नेः । वध्रिऽअश्वस्य । वर्धनम् । घृतम् । अन्नम् । घृतम् । ऊं इति । अस्य । मेदनम् ।
घृतेन । आऽहुतः । उर्विया । वि । पप्रथे । सूर्यःऽइव । रोचते । सर्पिःऽआसुतिः ॥ghṛtám ǀ agnéḥ ǀ vadhri-aśvásya ǀ várdhanam ǀ ghṛtám ǀ ánnam ǀ ghṛtám ǀ ūṃ íti ǀ asya ǀ médanam ǀ
ghṛténa ǀ ā́-hutaḥ ǀ urviyā́ ǀ ví ǀ paprathe ǀ sū́ryaḥ-iva ǀ rocate ǀ sarpíḥ-āsutiḥ ǁghṛtam ǀ agneḥ ǀ vadhri-aśvasya ǀ vardhanam ǀ ghṛtam ǀ annam ǀ ghṛtam ǀ ūṃ iti ǀ asya ǀ medanam ǀ
ghṛtena ǀ ā-hutaḥ ǀ urviyā ǀ vi ǀ paprathe ǀ sūryaḥ-iva ǀ rocate ǀ sarpiḥ-āsutiḥ ǁ10.69.2 Aṣṭaka 8.2.19.2Anuvāka 10.6.2
-
Ṛk 3
यत्ते॒ मनु॒र्यदनी॑कं सुमि॒त्रः स॑मी॒धे अ॑ग्ने॒ तदि॒दं नवी॑यः ।
स रे॒वच्छो॑च॒ स गिरो॑ जुषस्व॒ स वाजं॑ दर्षि॒ स इ॒ह श्रवो॑ धाः ॥यत् ते मनुर् यद् अनीकं सुमित्रः समीधे अग्ने तद् इदं नवीयः |
स रेवच् छोच स गिरो जुषस्व स वाजं दर्षि स इह श्रवो धाः ||yátte mánuryádánīkam sumitráḥ samīdhé agne tádidám návīyaḥ ǀ
sá revácchoca sá gíro juṣasva sá vā́jam darṣi sá ihá śrávo dhāḥ ǁyat te manur yad anīkaṃ sumitraḥ samīdhe agne tad idaṃ navīyaḥ |
sa revac choca sa giro juṣasva sa vājaṃ darṣi sa iha śravo dhāḥ ||यत् । ते॒ । मनुः॑ । यत् । अनी॑कम् । सु॒ऽमि॒त्रः । स॒म्ऽई॒धे । अ॒ग्ने॒ । तत् । इ॒दम् । नवी॑यः ।
सः । रे॒वत् । शो॒च॒ । सः । गिरः॑ । जु॒ष॒स्व॒ । सः । वाज॑म् । द॒र्षि॒ । सः । इ॒ह । श्रवः॑ । धाः॒ ॥यत् । ते । मनुः । यत् । अनीकम् । सुऽमित्रः । सम्ऽईधे । अग्ने । तत् । इदम् । नवीयः ।
सः । रेवत् । शोच । सः । गिरः । जुषस्व । सः । वाजम् । दर्षि । सः । इह । श्रवः । धाः ॥yát ǀ te ǀ mánuḥ ǀ yát ǀ ánīkam ǀ su-mitráḥ ǀ sam-īdhé ǀ agne ǀ tát ǀ idám ǀ návīyaḥ ǀ
sáḥ ǀ revát ǀ śoca ǀ sáḥ ǀ gíraḥ ǀ juṣasva ǀ sáḥ ǀ vā́jam ǀ darṣi ǀ sáḥ ǀ ihá ǀ śrávaḥ ǀ dhāḥ ǁyat ǀ te ǀ manuḥ ǀ yat ǀ anīkam ǀ su-mitraḥ ǀ sam-īdhe ǀ agne ǀ tat ǀ idam ǀ navīyaḥ ǀ
saḥ ǀ revat ǀ śoca ǀ saḥ ǀ giraḥ ǀ juṣasva ǀ saḥ ǀ vājam ǀ darṣi ǀ saḥ ǀ iha ǀ śravaḥ ǀ dhāḥ ǁ10.69.3 Aṣṭaka 8.2.19.3Anuvāka 10.6.3
-
Ṛk 4
यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः स॑मी॒धे अ॑ग्ने॒ स इ॒दं जु॑षस्व ।
स नः॑ स्ति॒पा उ॒त भ॑वा तनू॒पा दा॒त्रं र॑क्षस्व॒ यदि॒दं ते॑ अ॒स्मे ॥यं त्वा पूर्वम् ईऌइतो वध्र्यश्वः समीधे अग्ने स इदं जुषस्व |
स न स्तिपा उत भवा तनूपा दात्रं रक्षस्व यद् इदं ते अस्मे ||yám tvā pū́rvamīḷitó vadhryaśváḥ samīdhé agne sá idám juṣasva ǀ
sá naḥ stipā́ utá bhavā tanūpā́ dātrám rakṣasva yádidám te asmé ǁyaṃ tvā pūrvam īḷito vadhryaśvaḥ samīdhe agne sa idaṃ juṣasva |
sa na stipā uta bhavā tanūpā dātraṃ rakṣasva yad idaṃ te asme ||यम् । त्वा॒ । पूर्व॑म् । ई॒ळि॒तः । व॒ध्रि॒ऽअ॒श्वः । स॒म्ऽई॒धे । अ॒ग्ने॒ । सः । इ॒दम् । जु॒ष॒स्व॒ ।
सः । नः॒ । स्ति॒ऽपाः । उ॒त । भ॒व॒ । त॒नू॒ऽपाः । दा॒त्रम् । र॒क्ष॒स्व॒ । यत् । इ॒दम् । ते॒ । अ॒स्मे इति॑ ॥यम् । त्वा । पूर्वम् । ईळितः । वध्रिऽअश्वः । सम्ऽईधे । अग्ने । सः । इदम् । जुषस्व ।
सः । नः । स्तिऽपाः । उत । भव । तनूऽपाः । दात्रम् । रक्षस्व । यत् । इदम् । ते । अस्मे इति ॥yám ǀ tvā ǀ pū́rvam ǀ īḷitáḥ ǀ vadhri-aśváḥ ǀ sam-īdhé ǀ agne ǀ sáḥ ǀ idám ǀ juṣasva ǀ
sáḥ ǀ naḥ ǀ sti-pā́ḥ ǀ utá ǀ bhava ǀ tanū-pā́ḥ ǀ dātrám ǀ rakṣasva ǀ yát ǀ idám ǀ te ǀ asmé íti ǁyam ǀ tvā ǀ pūrvam ǀ īḷitaḥ ǀ vadhri-aśvaḥ ǀ sam-īdhe ǀ agne ǀ saḥ ǀ idam ǀ juṣasva ǀ
saḥ ǀ naḥ ǀ sti-pāḥ ǀ uta ǀ bhava ǀ tanū-pāḥ ǀ dātram ǀ rakṣasva ǀ yat ǀ idam ǀ te ǀ asme iti ǁ10.69.4 Aṣṭaka 8.2.19.4Anuvāka 10.6.4
-
Ṛk 5
भवा॑ द्यु॒म्नी वा॑ध्र्यश्वो॒त गो॒पा मा त्वा॑ तारीद॒भिमा॑ति॒र्जना॑नां ।
शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः प्र नु वो॑चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ॥भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीद् अभिमातिर् जनानाम् |
शूर इव धृष्णुश् च्यवनः सुमित्रः प्र नु वोचं वाध्र्यश्वस्य नाम ||bhávā dyumnī́ vādhryaśvotá gopā́ mā́ tvā tārīdabhímātirjánānām ǀ
śū́ra iva dhṛṣṇúścyávanaḥ sumitráḥ prá nú vocam vā́dhryaśvasya nā́ma ǁbhavā dyumnī vādhryaśvota gopā mā tvā tārīd abhimātir janānām |
śūra iva dhṛṣṇuś cyavanaḥ sumitraḥ pra nu vocaṃ vādhryaśvasya nāma ||भव॑ । द्यु॒म्नी । वा॒ध्रि॒ऽअ॒श्व॒ । उ॒त । गो॒पाः । मा । त्वा॒ । ता॒री॒त् । अ॒भिऽमा॑तिः । जना॑नाम् ।
शूरः॑ऽइव । घृ॒ष्णुः । च्यव॑नः । सु॒ऽमि॒त्रः । प्र । नु । वो॒च॒म् । वाध्रि॑ऽअश्वस्य । नाम॑ ॥भव । द्युम्नी । वाध्रिऽअश्व । उत । गोपाः । मा । त्वा । तारीत् । अभिऽमातिः । जनानाम् ।
शूरःऽइव । घृष्णुः । च्यवनः । सुऽमित्रः । प्र । नु । वोचम् । वाध्रिऽअश्वस्य । नाम ॥bháva ǀ dyumnī́ ǀ vādhri-aśva ǀ utá ǀ gopā́ḥ ǀ mā́ ǀ tvā ǀ tārīt ǀ abhí-mātiḥ ǀ jánānām ǀ
śū́raḥ-iva ǀ ghṛṣṇúḥ ǀ cyávanaḥ ǀ su-mitráḥ ǀ prá ǀ nú ǀ vocam ǀ vā́dhri-aśvasya ǀ nā́ma ǁbhava ǀ dyumnī ǀ vādhri-aśva ǀ uta ǀ gopāḥ ǀ mā ǀ tvā ǀ tārīt ǀ abhi-mātiḥ ǀ janānām ǀ
śūraḥ-iva ǀ ghṛṣṇuḥ ǀ cyavanaḥ ǀ su-mitraḥ ǀ pra ǀ nu ǀ vocam ǀ vādhri-aśvasya ǀ nāma ǁ10.69.5 Aṣṭaka 8.2.19.5Anuvāka 10.6.5
-
Ṛk 6
सम॒ज्र्या॑ पर्व॒त्या॒३॒॑ वसू॑नि॒ दासा॑ वृ॒त्राण्यार्या॑ जिगेथ ।
शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना॑नां॒ त्वम॑ग्ने पृतना॒यूँर॒भि ष्याः॑ ॥सम् अज्र्या पर्वत्या वसूनि दासा वृत्राण्य् आर्या जिगेथ |
शूर इव धृष्णुश् च्यवनो जनानां त्वम् अग्ने पृतनायूंर् अभि ष्याः ||sámajryā́ parvatyā́ vásūni dā́sā vṛtrā́ṇyā́ryā jigetha ǀ
śū́ra iva dhṛṣṇúścyávano jánānām tvámagne pṛtanāyū́m̐rabhí ṣyāḥ ǁsam ajryā parvatyā vasūni dāsā vṛtrāṇy āryā jigetha |
śūra iva dhṛṣṇuś cyavano janānāṃ tvam agne pṛtanāyūṃr abhi ṣyāḥ ||सम् । अ॒ज्र्या॑ । प॒र्व॒त्या॑ । वसू॑नि । दासा॑ । वृ॒त्राणि॑ । आर्या॑ । जि॒गे॒थ॒ ।
शूरः॑ऽइव । घृ॒ष्णुः । च्यव॑नः । जना॑नाम् । त्वम् । अ॒ग्ने॒ । पृ॒त॒ना॒ऽयून् । अ॒भि । स्याः॒ ॥सम् । अज्र्या । पर्वत्या । वसूनि । दासा । वृत्राणि । आर्या । जिगेथ ।
शूरःऽइव । घृष्णुः । च्यवनः । जनानाम् । त्वम् । अग्ने । पृतनाऽयून् । अभि । स्याः ॥sám ǀ ajryā́ ǀ parvatyā́ ǀ vásūni ǀ dā́sā ǀ vṛtrā́ṇi ǀ ā́ryā ǀ jigetha ǀ
śū́raḥ-iva ǀ ghṛṣṇúḥ ǀ cyávanaḥ ǀ jánānām ǀ tvám ǀ agne ǀ pṛtanā-yū́n ǀ abhí ǀ syāḥ ǁsam ǀ ajryā ǀ parvatyā ǀ vasūni ǀ dāsā ǀ vṛtrāṇi ǀ āryā ǀ jigetha ǀ
śūraḥ-iva ǀ ghṛṣṇuḥ ǀ cyavanaḥ ǀ janānām ǀ tvam ǀ agne ǀ pṛtanā-yūn ǀ abhi ǀ syāḥ ǁ10.69.6 Aṣṭaka 8.2.19.6Anuvāka 10.6.6
-
Ṛk 7
दी॒र्घतं॑तुर्बृ॒हदु॑क्षा॒यम॒ग्निः स॒हस्र॑स्तरीः श॒तनी॑थ॒ ऋभ्वा॑ ।
द्यु॒मांद्यु॒मत्सु॒ नृभि॑र्मृ॒ज्यमा॑नः सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ॥दीर्घतन्तुर् बृहदुक्षायम् अग्निः सहस्रस्तरीः शतनीथ ऋभ्वा |
द्युमान् द्युमत्सु नृभिर् मृज्यमानः सुमित्रेषु दीदयो देवयत्सु ||dīrghátanturbṛhádukṣāyámagníḥ sahásrastarīḥ śatánītha ṛ́bhvā ǀ
dyumā́ndyumátsu nṛ́bhirmṛjyámānaḥ sumitréṣu dīdayo devayátsu ǁdīrghatantur bṛhadukṣāyam agniḥ sahasrastarīḥ śatanītha ṛbhvā |
dyumān dyumatsu nṛbhir mṛjyamānaḥ sumitreṣu dīdayo devayatsu ||दी॒र्घऽत॑न्तुः । बृ॒हत्ऽउ॑क्षा । अ॒यम् । अ॒ग्निः । स॒हस्र॑ऽस्तरीः । श॒तऽनी॑थः । ऋभ्वा॑ ।
द्यु॒ऽमान् । द्यु॒मत्ऽसु॑ । नृऽभिः॑ । मृ॒ज्यमा॑नः । सु॒ऽमि॒त्रेषु॑ । दी॒द॒यः॒ । दे॒व॒यत्ऽसु॑ ॥दीर्घऽतन्तुः । बृहत्ऽउक्षा । अयम् । अग्निः । सहस्रऽस्तरीः । शतऽनीथः । ऋभ्वा ।
द्युऽमान् । द्युमत्ऽसु । नृऽभिः । मृज्यमानः । सुऽमित्रेषु । दीदयः । देवयत्ऽसु ॥dīrghá-tantuḥ ǀ bṛhát-ukṣā ǀ ayám ǀ agníḥ ǀ sahásra-starīḥ ǀ śatá-nīthaḥ ǀ ṛ́bhvā ǀ
dyu-mā́n ǀ dyumát-su ǀ nṛ́-bhiḥ ǀ mṛjyámānaḥ ǀ su-mitréṣu ǀ dīdayaḥ ǀ devayát-su ǁdīrgha-tantuḥ ǀ bṛhat-ukṣā ǀ ayam ǀ agniḥ ǀ sahasra-starīḥ ǀ śata-nīthaḥ ǀ ṛbhvā ǀ
dyu-mān ǀ dyumat-su ǀ nṛ-bhiḥ ǀ mṛjyamānaḥ ǀ su-mitreṣu ǀ dīdayaḥ ǀ devayat-su ǁ10.69.7 Aṣṭaka 8.2.20.1Anuvāka 10.6.7
-
Ṛk 8
त्वे धे॒नुः सु॒दुघा॑ जातवेदोऽस॒श्चते॑व सम॒ना स॑ब॒र्धुक् ।
त्वं नृभि॒र्दक्षि॑णावद्भिरग्ने सुमि॒त्रेभि॑रिध्यसे देव॒यद्भिः॑ ॥त्वे धेनुः सुदुघा जातवेदो ऽसश्चतेव समना सबर्धुक् |
त्वं नृभिर् दक्षिणावद्भिर् अग्ने सुमित्रेभिर् इध्यसे देवयद्भिः ||tvé dhenúḥ sudúghā jātavedo’saścáteva samanā́ sabardhúk ǀ
tvám nṛ́bhirdákṣiṇāvadbhiragne sumitrébhiridhyase devayádbhiḥ ǁtve dhenuḥ sudughā jātavedo 'saścateva samanā sabardhuk |
tvaṃ nṛbhir dakṣiṇāvadbhir agne sumitrebhir idhyase devayadbhiḥ ||त्वे इति॑ । धे॒नुः । सु॒ऽदुघा॑ । जा॒त॒ऽवे॒दः॒ । अ॒स॒श्चता॑ऽइव । स॒म॒ना । स॒बः॒ऽधुक् ।
त्वम् । नृऽभिः॑ । दक्षि॑णावत्ऽभिः । अ॒ग्ने॒ । सु॒ऽमि॒त्रेभिः॑ । इ॒ध्य॒से॒ । दे॒व॒यत्ऽभिः॑ ॥त्वे इति । धेनुः । सुऽदुघा । जातऽवेदः । असश्चताऽइव । समना । सबःऽधुक् ।
त्वम् । नृऽभिः । दक्षिणावत्ऽभिः । अग्ने । सुऽमित्रेभिः । इध्यसे । देवयत्ऽभिः ॥tvé íti ǀ dhenúḥ ǀ su-dúghā ǀ jāta-vedaḥ ǀ asaścátā-iva ǀ samanā́ ǀ sabaḥ-dhúk ǀ
tvám ǀ nṛ́-bhiḥ ǀ dákṣiṇāvat-bhiḥ ǀ agne ǀ su-mitrébhiḥ ǀ idhyase ǀ devayát-bhiḥ ǁtve iti ǀ dhenuḥ ǀ su-dughā ǀ jāta-vedaḥ ǀ asaścatā-iva ǀ samanā ǀ sabaḥ-dhuk ǀ
tvam ǀ nṛ-bhiḥ ǀ dakṣiṇāvat-bhiḥ ǀ agne ǀ su-mitrebhiḥ ǀ idhyase ǀ devayat-bhiḥ ǁ10.69.8 Aṣṭaka 8.2.20.2Anuvāka 10.6.8
-
Ṛk 9
दे॒वाश्चि॑त्ते अ॒मृता॑ जातवेदो महि॒मानं॑ वाध्र्यश्व॒ प्र वो॑चन् ।
यत्सं॒पृच्छं॒ मानु॑षी॒र्विश॒ आयं॒त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ॥देवाश् चित् ते अमृता जातवेदो महिमानं वाध्र्यश्व प्र वोचन् |
यत् सम्पृच्छम् मानुषीर् विश आयन् त्वं नृभिर् अजयस् त्वावृधेभिः ||devā́ścitte amṛ́tā jātavedo mahimā́nam vādhryaśva prá vocan ǀ
yátsampṛ́ccham mā́nuṣīrvíśa ā́yantvám nṛ́bhirajayastvā́vṛdhebhiḥ ǁdevāś cit te amṛtā jātavedo mahimānaṃ vādhryaśva pra vocan |
yat sampṛccham mānuṣīr viśa āyan tvaṃ nṛbhir ajayas tvāvṛdhebhiḥ ||दे॒वाः । चि॒त् । ते॒ । अ॒मृताः॑ । जा॒त॒ऽवे॒दः॒ । म॒हि॒मान॑म् । वा॒ध्रि॒ऽअ॒श्व॒ । प्र । वो॒च॒न् ।
यत् । स॒म्ऽपृच्छ॑म् । मानु॑षीः । विशः॑ । आय॑न् । त्वम् । नृऽभिः॑ । अ॒ज॒यः॒ । त्वाऽवृ॑धेभिः ॥देवाः । चित् । ते । अमृताः । जातऽवेदः । महिमानम् । वाध्रिऽअश्व । प्र । वोचन् ।
यत् । सम्ऽपृच्छम् । मानुषीः । विशः । आयन् । त्वम् । नृऽभिः । अजयः । त्वाऽवृधेभिः ॥devā́ḥ ǀ cit ǀ te ǀ amṛ́tāḥ ǀ jāta-vedaḥ ǀ mahimā́nam ǀ vādhri-aśva ǀ prá ǀ vocan ǀ
yát ǀ sam-pṛ́ccham ǀ mā́nuṣīḥ ǀ víśaḥ ǀ ā́yan ǀ tvám ǀ nṛ́-bhiḥ ǀ ajayaḥ ǀ tvā́-vṛdhebhiḥ ǁdevāḥ ǀ cit ǀ te ǀ amṛtāḥ ǀ jāta-vedaḥ ǀ mahimānam ǀ vādhri-aśva ǀ pra ǀ vocan ǀ
yat ǀ sam-pṛccham ǀ mānuṣīḥ ǀ viśaḥ ǀ āyan ǀ tvam ǀ nṛ-bhiḥ ǀ ajayaḥ ǀ tvā-vṛdhebhiḥ ǁ10.69.9 Aṣṭaka 8.2.20.3Anuvāka 10.6.9
-
Ṛk 10
पि॒तेव॑ पु॒त्रम॑बिभरु॒पस्थे॒ त्वाम॑ग्ने वध्र्य॒श्वः स॑प॒र्यन् ।
जु॒षा॒णो अ॑स्य स॒मिधं॑ यविष्ठो॒त पूर्वाँ॑ अवनो॒र्व्राध॑तश्चित् ॥पितेव पुत्रम् अबिभर् उपस्थे त्वाम् अग्ने वध्र्यश्वः सपर्यन् |
जुषाणो अस्य समिधं यविष्ठोत पूर्वां अवनोर् व्राधतश् चित् ||pitéva putrámabibharupásthe tvā́magne vadhryaśváḥ saparyán ǀ
juṣāṇó asya samídham yaviṣṭhotá pū́rvām̐ avanorvrā́dhataścit ǁpiteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan |
juṣāṇo asya samidhaṃ yaviṣṭhota pūrvāṃ avanor vrādhataś cit ||पि॒ताऽइ॑व । पु॒त्रम् । अ॒बि॒भः॒ । उ॒पऽस्थे॑ । त्वाम् । अ॒ग्ने॒ । व॒ध्रि॒ऽअ॒श्वः । स॒प॒र्यन् ।
जु॒षा॒णः । अ॒स्य॒ । स॒म्ऽइध॑म् । य॒वि॒ष्ठ॒ । उ॒त । पूर्वा॑न् । अ॒व॒नोः॒ । व्राध॑तः । चि॒त् ॥पिताऽइव । पुत्रम् । अबिभः । उपऽस्थे । त्वाम् । अग्ने । वध्रिऽअश्वः । सपर्यन् ।
जुषाणः । अस्य । सम्ऽइधम् । यविष्ठ । उत । पूर्वान् । अवनोः । व्राधतः । चित् ॥pitā́-iva ǀ putrám ǀ abibhaḥ ǀ upá-sthe ǀ tvā́m ǀ agne ǀ vadhri-aśváḥ ǀ saparyán ǀ
juṣāṇáḥ ǀ asya ǀ sam-ídham ǀ yaviṣṭha ǀ utá ǀ pū́rvān ǀ avanoḥ ǀ vrā́dhataḥ ǀ cit ǁpitā-iva ǀ putram ǀ abibhaḥ ǀ upa-sthe ǀ tvām ǀ agne ǀ vadhri-aśvaḥ ǀ saparyan ǀ
juṣāṇaḥ ǀ asya ǀ sam-idham ǀ yaviṣṭha ǀ uta ǀ pūrvān ǀ avanoḥ ǀ vrādhataḥ ǀ cit ǁ10.69.10 Aṣṭaka 8.2.20.4Anuvāka 10.6.10
-
Ṛk 11
शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॒न्नृभि॑र्जिगाय सु॒तसो॑मवद्भिः ।
सम॑नं चिददहश्चित्रभा॒नोऽव॒ व्राधं॑तमभिनद्वृ॒धश्चि॑त् ॥शश्वद् अग्निर् वध्र्यश्वस्य शत्रून् नृभिर् जिगाय सुतसोमवद्भिः |
समनं चिद् अदहश् चित्रभानो ऽव व्राधन्तम् अभिनद् वृधश् चित् ||śáśvadagnírvadhryaśvásya śátrūnnṛ́bhirjigāya sutásomavadbhiḥ ǀ
sámanam cidadahaścitrabhānó’va vrā́dhantamabhinadvṛdháścit ǁśaśvad agnir vadhryaśvasya śatrūn nṛbhir jigāya sutasomavadbhiḥ |
samanaṃ cid adahaś citrabhāno 'va vrādhantam abhinad vṛdhaś cit ||शश्व॑त् । अ॒ग्निः । व॒ध्रि॒ऽअ॒श्वस्य॑ । शत्रू॑न् । नृऽभिः॑ । जि॒गा॒य॒ । सु॒तसो॑मवत्ऽभिः ।
सम॑नम् । चि॒त् । अ॒द॒हः॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । अव॑ । व्राध॑न्तम् । अ॒भि॒न॒त् । वृ॒धः । चि॒त् ॥शश्वत् । अग्निः । वध्रिऽअश्वस्य । शत्रून् । नृऽभिः । जिगाय । सुतसोमवत्ऽभिः ।
समनम् । चित् । अदहः । चित्रभानो इति चित्रऽभानो । अव । व्राधन्तम् । अभिनत् । वृधः । चित् ॥śáśvat ǀ agníḥ ǀ vadhri-aśvásya ǀ śátrūn ǀ nṛ́-bhiḥ ǀ jigāya ǀ sutásomavat-bhiḥ ǀ
sámanam ǀ cit ǀ adahaḥ ǀ citrabhāno íti citra-bhāno ǀ áva ǀ vrā́dhantam ǀ abhinat ǀ vṛdháḥ ǀ cit ǁśaśvat ǀ agniḥ ǀ vadhri-aśvasya ǀ śatrūn ǀ nṛ-bhiḥ ǀ jigāya ǀ sutasomavat-bhiḥ ǀ
samanam ǀ cit ǀ adahaḥ ǀ citrabhāno iti citra-bhāno ǀ ava ǀ vrādhantam ǀ abhinat ǀ vṛdhaḥ ǀ cit ǁ10.69.11 Aṣṭaka 8.2.20.5Anuvāka 10.6.11
-
Ṛk 12
अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्यः॑ ।
स नो॒ अजा॑मीँरु॒त वा॒ विजा॑मीन॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ॥अयम् अग्निर् वध्र्यश्वस्य वृत्रहा सनकात् प्रेद्धो नमसोपवाक्यः |
स नो अजामींर् उत वा विजामीन् अभि तिष्ठ शर्धतो वाध्र्यश्व ||ayámagnírvadhryaśvásya vṛtrahā́ sanakā́tpréddho námasopavākyáḥ ǀ
sá no ájāmīm̐rutá vā víjāmīnabhí tiṣṭha śárdhato vādhryaśva ǁayam agnir vadhryaśvasya vṛtrahā sanakāt preddho namasopavākyaḥ |
sa no ajāmīṃr uta vā vijāmīn abhi tiṣṭha śardhato vādhryaśva ||अ॒यम् । अ॒ग्निः । व॒ध्रि॒ऽअ॒श्वस्य॑ । वृ॒त्र॒ऽहा । स॒न॒कात् । प्रऽइ॑द्धः । नम॑सा । उ॒प॒ऽवा॒क्यः॑ ।
सः । नः॒ । अजा॑मीन् । उ॒त । वा॒ । विऽजा॑मीन् । अ॒भि । ति॒ष्ठ॒ । शर्ध॑तः । वा॒ध्रि॒ऽअ॒श्व॒ ॥अयम् । अग्निः । वध्रिऽअश्वस्य । वृत्रऽहा । सनकात् । प्रऽइद्धः । नमसा । उपऽवाक्यः ।
सः । नः । अजामीन् । उत । वा । विऽजामीन् । अभि । तिष्ठ । शर्धतः । वाध्रिऽअश्व ॥ayám ǀ agníḥ ǀ vadhri-aśvásya ǀ vṛtra-hā́ ǀ sanakā́t ǀ prá-iddhaḥ ǀ námasā ǀ upa-vākyáḥ ǀ
sáḥ ǀ naḥ ǀ ájāmīn ǀ utá ǀ vā ǀ ví-jāmīn ǀ abhí ǀ tiṣṭha ǀ śárdhataḥ ǀ vādhri-aśva ǁayam ǀ agniḥ ǀ vadhri-aśvasya ǀ vṛtra-hā ǀ sanakāt ǀ pra-iddhaḥ ǀ namasā ǀ upa-vākyaḥ ǀ
saḥ ǀ naḥ ǀ ajāmīn ǀ uta ǀ vā ǀ vi-jāmīn ǀ abhi ǀ tiṣṭha ǀ śardhataḥ ǀ vādhri-aśva ǁ10.69.12 Aṣṭaka 8.2.20.6Anuvāka 10.6.12
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.