Ṛgveda · Maṇḍala 10 · Sūkta 69
Ṛk 10.69.7
Saṃhitā
दी॒र्घतं॑तुर्बृ॒हदु॑क्षा॒यम॒ग्निः स॒हस्र॑स्तरीः श॒तनी॑थ॒ ऋभ्वा॑ ।
द्यु॒मांद्यु॒मत्सु॒ नृभि॑र्मृ॒ज्यमा॑नः सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ॥
दीर्घतन्तुर् बृहदुक्षायम् अग्निः सहस्रस्तरीः शतनीथ ऋभ्वा |
द्युमान् द्युमत्सु नृभिर् मृज्यमानः सुमित्रेषु दीदयो देवयत्सु ||
dīrghátanturbṛhádukṣāyámagníḥ sahásrastarīḥ śatánītha ṛ́bhvā ǀ
dyumā́ndyumátsu nṛ́bhirmṛjyámānaḥ sumitréṣu dīdayo devayátsu ǁ
dīrghatantur bṛhadukṣāyam agniḥ sahasrastarīḥ śatanītha ṛbhvā |
dyumān dyumatsu nṛbhir mṛjyamānaḥ sumitreṣu dīdayo devayatsu ||
Padapāṭha
दी॒र्घऽत॑न्तुः । बृ॒हत्ऽउ॑क्षा । अ॒यम् । अ॒ग्निः । स॒हस्र॑ऽस्तरीः । श॒तऽनी॑थः । ऋभ्वा॑ ।
द्यु॒ऽमान् । द्यु॒मत्ऽसु॑ । नृऽभिः॑ । मृ॒ज्यमा॑नः । सु॒ऽमि॒त्रेषु॑ । दी॒द॒यः॒ । दे॒व॒यत्ऽसु॑ ॥
दीर्घऽतन्तुः । बृहत्ऽउक्षा । अयम् । अग्निः । सहस्रऽस्तरीः । शतऽनीथः । ऋभ्वा ।
द्युऽमान् । द्युमत्ऽसु । नृऽभिः । मृज्यमानः । सुऽमित्रेषु । दीदयः । देवयत्ऽसु ॥
dīrghá-tantuḥ ǀ bṛhát-ukṣā ǀ ayám ǀ agníḥ ǀ sahásra-starīḥ ǀ śatá-nīthaḥ ǀ ṛ́bhvā ǀ
dyu-mā́n ǀ dyumát-su ǀ nṛ́-bhiḥ ǀ mṛjyámānaḥ ǀ su-mitréṣu ǀ dīdayaḥ ǀ devayát-su ǁ
dīrgha-tantuḥ ǀ bṛhat-ukṣā ǀ ayam ǀ agniḥ ǀ sahasra-starīḥ ǀ śata-nīthaḥ ǀ ṛbhvā ǀ
dyu-mān ǀ dyumat-su ǀ nṛ-bhiḥ ǀ mṛjyamānaḥ ǀ su-mitreṣu ǀ dīdayaḥ ǀ devayat-su ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.069.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.20.01
- Maṇḍala · Anuvāka · Ṛk
- 10.06.007
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Sumitra Vādhryaśva
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.