Ṛgveda · Maṇḍala 10 · Sūkta 69
Ṛk 10.69.11
Saṃhitā
शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॒न्नृभि॑र्जिगाय सु॒तसो॑मवद्भिः ।
सम॑नं चिददहश्चित्रभा॒नोऽव॒ व्राधं॑तमभिनद्वृ॒धश्चि॑त् ॥
शश्वद् अग्निर् वध्र्यश्वस्य शत्रून् नृभिर् जिगाय सुतसोमवद्भिः |
समनं चिद् अदहश् चित्रभानो ऽव व्राधन्तम् अभिनद् वृधश् चित् ||
śáśvadagnírvadhryaśvásya śátrūnnṛ́bhirjigāya sutásomavadbhiḥ ǀ
sámanam cidadahaścitrabhānó’va vrā́dhantamabhinadvṛdháścit ǁ
śaśvad agnir vadhryaśvasya śatrūn nṛbhir jigāya sutasomavadbhiḥ |
samanaṃ cid adahaś citrabhāno 'va vrādhantam abhinad vṛdhaś cit ||
Padapāṭha
शश्व॑त् । अ॒ग्निः । व॒ध्रि॒ऽअ॒श्वस्य॑ । शत्रू॑न् । नृऽभिः॑ । जि॒गा॒य॒ । सु॒तसो॑मवत्ऽभिः ।
सम॑नम् । चि॒त् । अ॒द॒हः॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । अव॑ । व्राध॑न्तम् । अ॒भि॒न॒त् । वृ॒धः । चि॒त् ॥
शश्वत् । अग्निः । वध्रिऽअश्वस्य । शत्रून् । नृऽभिः । जिगाय । सुतसोमवत्ऽभिः ।
समनम् । चित् । अदहः । चित्रभानो इति चित्रऽभानो । अव । व्राधन्तम् । अभिनत् । वृधः । चित् ॥
śáśvat ǀ agníḥ ǀ vadhri-aśvásya ǀ śátrūn ǀ nṛ́-bhiḥ ǀ jigāya ǀ sutásomavat-bhiḥ ǀ
sámanam ǀ cit ǀ adahaḥ ǀ citrabhāno íti citra-bhāno ǀ áva ǀ vrā́dhantam ǀ abhinat ǀ vṛdháḥ ǀ cit ǁ
śaśvat ǀ agniḥ ǀ vadhri-aśvasya ǀ śatrūn ǀ nṛ-bhiḥ ǀ jigāya ǀ sutasomavat-bhiḥ ǀ
samanam ǀ cit ǀ adahaḥ ǀ citrabhāno iti citra-bhāno ǀ ava ǀ vrādhantam ǀ abhinat ǀ vṛdhaḥ ǀ cit ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.069.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.20.05
- Maṇḍala · Anuvāka · Ṛk
- 10.06.011
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Sumitra Vādhryaśva
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.