Ṛgveda · Maṇḍala 10 · Sūkta 69
Ṛk 10.69.6
Saṃhitā
सम॒ज्र्या॑ पर्व॒त्या॒३॒॑ वसू॑नि॒ दासा॑ वृ॒त्राण्यार्या॑ जिगेथ ।
शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना॑नां॒ त्वम॑ग्ने पृतना॒यूँर॒भि ष्याः॑ ॥
सम् अज्र्या पर्वत्या वसूनि दासा वृत्राण्य् आर्या जिगेथ |
शूर इव धृष्णुश् च्यवनो जनानां त्वम् अग्ने पृतनायूंर् अभि ष्याः ||
sámajryā́ parvatyā́ vásūni dā́sā vṛtrā́ṇyā́ryā jigetha ǀ
śū́ra iva dhṛṣṇúścyávano jánānām tvámagne pṛtanāyū́m̐rabhí ṣyāḥ ǁ
sam ajryā parvatyā vasūni dāsā vṛtrāṇy āryā jigetha |
śūra iva dhṛṣṇuś cyavano janānāṃ tvam agne pṛtanāyūṃr abhi ṣyāḥ ||
Padapāṭha
सम् । अ॒ज्र्या॑ । प॒र्व॒त्या॑ । वसू॑नि । दासा॑ । वृ॒त्राणि॑ । आर्या॑ । जि॒गे॒थ॒ ।
शूरः॑ऽइव । घृ॒ष्णुः । च्यव॑नः । जना॑नाम् । त्वम् । अ॒ग्ने॒ । पृ॒त॒ना॒ऽयून् । अ॒भि । स्याः॒ ॥
सम् । अज्र्या । पर्वत्या । वसूनि । दासा । वृत्राणि । आर्या । जिगेथ ।
शूरःऽइव । घृष्णुः । च्यवनः । जनानाम् । त्वम् । अग्ने । पृतनाऽयून् । अभि । स्याः ॥
sám ǀ ajryā́ ǀ parvatyā́ ǀ vásūni ǀ dā́sā ǀ vṛtrā́ṇi ǀ ā́ryā ǀ jigetha ǀ
śū́raḥ-iva ǀ ghṛṣṇúḥ ǀ cyávanaḥ ǀ jánānām ǀ tvám ǀ agne ǀ pṛtanā-yū́n ǀ abhí ǀ syāḥ ǁ
sam ǀ ajryā ǀ parvatyā ǀ vasūni ǀ dāsā ǀ vṛtrāṇi ǀ āryā ǀ jigetha ǀ
śūraḥ-iva ǀ ghṛṣṇuḥ ǀ cyavanaḥ ǀ janānām ǀ tvam ǀ agne ǀ pṛtanā-yūn ǀ abhi ǀ syāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.069.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.19.06
- Maṇḍala · Anuvāka · Ṛk
- 10.06.006
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Sumitra Vādhryaśva
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.