Sūkta 118
- Devatā देवता
- Agni Rakṣohan
- Ṛṣi ऋषि
- Urukṣaya Āmahīyava
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (2, 5); virāḍgāyatrī (3, 8); gāyatrī (4, 9); gāyatrī (pādanicṛdgāyatrī) (6, 7); pipīlikāmadhyāgāyatrī (1)
2nd set of styles gāyatrī
-
Ṛk 1
अग्ने॒ हंसि॒ न्य१॒॑त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा ।
स्वे क्षये॑ शुचिव्रत ॥अग्ने हंसि न्य् अत्रिणं दीद्यन् मर्त्येष्व् आ |
स्वे क्षये शुचिव्रत ||ágne háṃsi nyátríṇam dī́dyanmártyeṣvā́ ǀ
své kṣáye śucivrata ǁagne haṃsi ny atriṇaṃ dīdyan martyeṣv ā |
sve kṣaye śucivrata ||अग्ने॑ । हंसि॑ । नि । अ॒त्रिण॑म् । दीद्य॑त् । मर्त्ये॑षु । आ ।
स्वे । क्षये॑ । शु॒चि॒ऽव्र॒त॒ ॥अग्ने । हंसि । नि । अत्रिणम् । दीद्यत् । मर्त्येषु । आ ।
स्वे । क्षये । शुचिऽव्रत ॥ágne ǀ háṃsi ǀ ní ǀ atríṇam ǀ dī́dyat ǀ mártyeṣu ǀ ā́ ǀ
své ǀ kṣáye ǀ śuci-vrata ǁagne ǀ haṃsi ǀ ni ǀ atriṇam ǀ dīdyat ǀ martyeṣu ǀ ā ǀ
sve ǀ kṣaye ǀ śuci-vrata ǁ10.118.1 Aṣṭaka 8.6.24.1Anuvāka 10.10.48
-
Ṛk 2
उत्ति॑ष्ठसि॒ स्वा॑हुतो घृ॒तानि॒ प्रति॑ मोदसे ।
यत्त्वा॒ स्रुचः॑ स॒मस्थि॑रन् ॥उत् तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे |
यत् त्वा स्रुचः समस्थिरन् ||úttiṣṭhasi svā́huto ghṛtā́ni práti modase ǀ
yáttvā srúcaḥ samásthiran ǁut tiṣṭhasi svāhuto ghṛtāni prati modase |
yat tvā srucaḥ samasthiran ||उत् । ति॒ष्ठ॒सि॒ । सुऽआ॑हुतः । घृ॒तानि॑ । प्रति॑ । मो॒द॒से॒ ।
यत् । त्वा॒ । स्रुचः॑ । स॒म्ऽअस्थि॑रन् ॥उत् । तिष्ठसि । सुऽआहुतः । घृतानि । प्रति । मोदसे ।
यत् । त्वा । स्रुचः । सम्ऽअस्थिरन् ॥út ǀ tiṣṭhasi ǀ sú-āhutaḥ ǀ ghṛtā́ni ǀ práti ǀ modase ǀ
yát ǀ tvā ǀ srúcaḥ ǀ sam-ásthiran ǁut ǀ tiṣṭhasi ǀ su-āhutaḥ ǀ ghṛtāni ǀ prati ǀ modase ǀ
yat ǀ tvā ǀ srucaḥ ǀ sam-asthiran ǁ10.118.2 Aṣṭaka 8.6.24.2Anuvāka 10.10.49
-
Ṛk 3
स आहु॑तो॒ वि रो॑चते॒ऽग्निरी॒ळेन्यो॑ गि॒रा ।
स्रु॒चा प्रती॑कमज्यते ॥स आहुतो वि रोचते ऽग्निर् ईळेन्यो गिरा |
स्रुचा प्रतीकम् अज्यते ||sá ā́huto ví rocate’gnírīḷényo girā́ ǀ
srucā́ prátīkamajyate ǁsa āhuto vi rocate 'gnir īḷenyo girā |
srucā pratīkam ajyate ||सः । आऽहु॑तः । वि । रो॒च॒ते॒ । अ॒ग्निः । ई॒ळेन्यः॑ । गि॒रा ।
स्रु॒चा । प्रती॑कम् । अ॒ज्य॒ते॒ ॥सः । आऽहुतः । वि । रोचते । अग्निः । ईळेन्यः । गिरा ।
स्रुचा । प्रतीकम् । अज्यते ॥sáḥ ǀ ā́-hutaḥ ǀ ví ǀ rocate ǀ agníḥ ǀ īḷényaḥ ǀ girā́ ǀ
srucā́ ǀ prátīkam ǀ ajyate ǁsaḥ ǀ ā-hutaḥ ǀ vi ǀ rocate ǀ agniḥ ǀ īḷenyaḥ ǀ girā ǀ
srucā ǀ pratīkam ǀ ajyate ǁ10.118.3 Aṣṭaka 8.6.24.3Anuvāka 10.10.50
-
Ṛk 4
घृ॒तेना॒ग्निः सम॑ज्यते॒ मधु॑प्रतीक॒ आहु॑तः ।
रोच॑मानो वि॒भाव॑सुः ॥घृतेनाग्निः सम् अज्यते मधुप्रतीक आहुतः |
रोचमानो विभावसुः ||ghṛténāgníḥ sámajyate mádhupratīka ā́hutaḥ ǀ
rócamāno vibhā́vasuḥ ǁghṛtenāgniḥ sam ajyate madhupratīka āhutaḥ |
rocamāno vibhāvasuḥ ||घृ॒तेन॑ । अ॒ग्निः । सम् । अ॒ज्य॒ते॒ । मधु॑ऽप्रतीकः । आऽहु॑तः ।
रोच॑मानः । वि॒भाऽव॑सुः ॥घृतेन । अग्निः । सम् । अज्यते । मधुऽप्रतीकः । आऽहुतः ।
रोचमानः । विभाऽवसुः ॥ghṛténa ǀ agníḥ ǀ sám ǀ ajyate ǀ mádhu-pratīkaḥ ǀ ā́-hutaḥ ǀ
rócamānaḥ ǀ vibhā́-vasuḥ ǁghṛtena ǀ agniḥ ǀ sam ǀ ajyate ǀ madhu-pratīkaḥ ǀ ā-hutaḥ ǀ
rocamānaḥ ǀ vibhā-vasuḥ ǁ10.118.4 Aṣṭaka 8.6.24.4Anuvāka 10.10.51
-
Ṛk 5
जर॑माणः॒ समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन ।
तं त्वा॑ हवंत॒ मर्त्याः॑ ॥जरमाणः सम् इध्यसे देवेभ्यो हव्यवाहन |
तं त्वा हवन्त मर्त्याः ||járamāṇaḥ sámidhyase devébhyo havyavāhana ǀ
tám tvā havanta mártyāḥ ǁjaramāṇaḥ sam idhyase devebhyo havyavāhana |
taṃ tvā havanta martyāḥ ||जर॑माणः । सम् । इ॒ध्य॒से॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ ।
तम् । त्वा॒ । ह॒व॒न्त॒ । मर्त्याः॑ ॥जरमाणः । सम् । इध्यसे । देवेभ्यः । हव्यऽवाहन ।
तम् । त्वा । हवन्त । मर्त्याः ॥járamāṇaḥ ǀ sám ǀ idhyase ǀ devébhyaḥ ǀ havya-vāhana ǀ
tám ǀ tvā ǀ havanta ǀ mártyāḥ ǁjaramāṇaḥ ǀ sam ǀ idhyase ǀ devebhyaḥ ǀ havya-vāhana ǀ
tam ǀ tvā ǀ havanta ǀ martyāḥ ǁ10.118.5 Aṣṭaka 8.6.24.5Anuvāka 10.10.52
-
Ṛk 6
तं म॑र्ता॒ अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत ।
अदा॑भ्यं गृ॒हप॑तिं ॥तम् मर्ता अमर्त्यं घृतेनाग्निं सपर्यत |
अदाभ्यं गृहपतिम् ||tám martā ámartyam ghṛténāgním saparyata ǀ
ádābhyam gṛhápatim ǁtam martā amartyaṃ ghṛtenāgniṃ saparyata |
adābhyaṃ gṛhapatim ||तम् । म॒र्ताः॒ । अम॑र्त्यम् । घृ॒तेन॑ । अ॒ग्निम् । स॒प॒र्य॒त॒ ।
अदा॑भ्यम् । गृ॒हऽप॑तिम् ॥तम् । मर्ताः । अमर्त्यम् । घृतेन । अग्निम् । सपर्यत ।
अदाभ्यम् । गृहऽपतिम् ॥tám ǀ martāḥ ǀ ámartyam ǀ ghṛténa ǀ agním ǀ saparyata ǀ
ádābhyam ǀ gṛhá-patim ǁtam ǀ martāḥ ǀ amartyam ǀ ghṛtena ǀ agnim ǀ saparyata ǀ
adābhyam ǀ gṛha-patim ǁ10.118.6 Aṣṭaka 8.6.25.1Anuvāka 10.10.53
-
Ṛk 7
अदा॑भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द॑ह ।
गो॒पा ऋ॒तस्य॑ दीदिहि ॥अदाभ्येन शोचिषाग्ने रक्षस् त्वं दह |
गोपा ऋतस्य दीदिहि ||ádābhyena śocíṣā́gne rákṣastvám daha ǀ
gopā́ ṛtásya dīdihi ǁadābhyena śociṣāgne rakṣas tvaṃ daha |
gopā ṛtasya dīdihi ||अदा॑भ्येन । शो॒चिषा॑ । अग्ने॑ । रक्षः॑ । त्वम् । द॒ह॒ ।
गो॒पाः । ऋ॒तस्य॑ । दी॒दि॒हि॒ ॥अदाभ्येन । शोचिषा । अग्ने । रक्षः । त्वम् । दह ।
गोपाः । ऋतस्य । दीदिहि ॥ádābhyena ǀ śocíṣā ǀ ágne ǀ rákṣaḥ ǀ tvám ǀ daha ǀ
gopā́ḥ ǀ ṛtásya ǀ dīdihi ǁadābhyena ǀ śociṣā ǀ agne ǀ rakṣaḥ ǀ tvam ǀ daha ǀ
gopāḥ ǀ ṛtasya ǀ dīdihi ǁ10.118.7 Aṣṭaka 8.6.25.2Anuvāka 10.10.54
-
Ṛk 8
स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ ।
उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥स त्वम् अग्ने प्रतीकेन प्रत्य् ओष यातुधान्यः |
उरुक्षयेषु दीद्यत् ||sá tvámagne prátīkena prátyoṣa yātudhānyáḥ ǀ
urukṣáyeṣu dī́dyat ǁsa tvam agne pratīkena praty oṣa yātudhānyaḥ |
urukṣayeṣu dīdyat ||सः । त्वम् । अ॒ग्ने॒ । प्रती॑केन । प्रति॑ । ओ॒ष॒ । या॒तु॒ऽधा॒न्यः॑ ।
उ॒रु॒ऽक्षये॑षु । दीद्य॑त् ॥सः । त्वम् । अग्ने । प्रतीकेन । प्रति । ओष । यातुऽधान्यः ।
उरुऽक्षयेषु । दीद्यत् ॥sáḥ ǀ tvám ǀ agne ǀ prátīkena ǀ práti ǀ oṣa ǀ yātu-dhānyáḥ ǀ
uru-kṣáyeṣu ǀ dī́dyat ǁsaḥ ǀ tvam ǀ agne ǀ pratīkena ǀ prati ǀ oṣa ǀ yātu-dhānyaḥ ǀ
uru-kṣayeṣu ǀ dīdyat ǁ10.118.8 Aṣṭaka 8.6.25.3Anuvāka 10.10.55
-
Ṛk 9
तं त्वा॑ गी॒र्भिरु॑रु॒क्षया॑ हव्य॒वाहं॒ समी॑धिरे ।
यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥तं त्वा गीर्भिर् उरुक्षया हव्यवाहं सम् ईधिरे |
यजिष्ठम् मानुषे जने ||tám tvā gīrbhírurukṣáyā havyavā́ham sámīdhire ǀ
yájiṣṭham mā́nuṣe jáne ǁtaṃ tvā gīrbhir urukṣayā havyavāhaṃ sam īdhire |
yajiṣṭham mānuṣe jane ||तम् । त्वा॒ । गीः॒ऽभिः । उ॒रु॒ऽक्षयाः॑ । ह॒व्य॒ऽवाह॑म् । सम् । ई॒धि॒रे॒ ।
यजि॑ष्ठम् । मानु॑षे । जने॑ ॥तम् । त्वा । गीःऽभिः । उरुऽक्षयाः । हव्यऽवाहम् । सम् । ईधिरे ।
यजिष्ठम् । मानुषे । जने ॥tám ǀ tvā ǀ gīḥ-bhíḥ ǀ uru-kṣáyāḥ ǀ havya-vā́ham ǀ sám ǀ īdhire ǀ
yájiṣṭham ǀ mā́nuṣe ǀ jáne ǁtam ǀ tvā ǀ gīḥ-bhiḥ ǀ uru-kṣayāḥ ǀ havya-vāham ǀ sam ǀ īdhire ǀ
yajiṣṭham ǀ mānuṣe ǀ jane ǁ10.118.9 Aṣṭaka 8.6.25.4Anuvāka 10.10.56
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.