Sūkta 132
- Devatā देवता
- 1: Aśvins, Divaḥ, Pṛthivī; 2-7: Mitra, Varuṇa
- Ṛṣi ऋषि
- Śakapūta Nārmedha
- Chandas छन्दस्
- Virāḍrūpā, Prastārapaṅkti, Nyaṅkusāriṇī, Mahāsatobṛhatī
Metres by ṛk
1st set of styles pādanicṛtpaṅkti (2, 4); virāṭpaṅkti (5, 6); bṛhatī (1); paṅktiḥ (3); mahāsatobṛhatī (7)
2nd set of styles virāḍrūpā (3-5); prastārapaṅkti (2, 6); nyaṅkusāriṇī (1); mahāsatobṛhatī (7)
-
Ṛk 1
ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नं भूमि॑र॒भि प्र॑भू॒षणि॑ ।
ई॒जा॒नं दे॒वाव॒श्विना॑व॒भि सु॒म्नैर॑वर्धतां ॥ईजानम् इद् द्यौर् गूर्तावसुर् ईजानम् भूमिर् अभि प्रभूषणि |
ईजानं देवाव् अश्विनाव् अभि सुम्नैर् अवर्धताम् ||ījānámíddyáurgūrtā́vasurījānám bhū́mirabhí prabhūṣáṇi ǀ
ījānám devā́vaśvínāvabhí sumnáiravardhatām ǁījānam id dyaur gūrtāvasur ījānam bhūmir abhi prabhūṣaṇi |
ījānaṃ devāv aśvināv abhi sumnair avardhatām ||ई॒जा॒नम् । इत् । द्यौः । गू॒र्तऽव॑सुः । ई॒जा॒नम् । भूमिः॑ । अ॒भि । प्र॒ऽभू॒षणि॑ ।
ई॒जा॒नम् । दे॒वौ । अ॒श्विनौ॑ । अ॒भि । सु॒म्नैः । अ॒व॒र्ध॒ता॒म् ॥ईजानम् । इत् । द्यौः । गूर्तऽवसुः । ईजानम् । भूमिः । अभि । प्रऽभूषणि ।
ईजानम् । देवौ । अश्विनौ । अभि । सुम्नैः । अवर्धताम् ॥ījānám ǀ ít ǀ dyáuḥ ǀ gūrtá-vasuḥ ǀ ījānám ǀ bhū́miḥ ǀ abhí ǀ pra-bhūṣáṇi ǀ
ījānám ǀ deváu ǀ aśvínau ǀ abhí ǀ sumnáiḥ ǀ avardhatām ǁījānam ǀ it ǀ dyauḥ ǀ gūrta-vasuḥ ǀ ījānam ǀ bhūmiḥ ǀ abhi ǀ pra-bhūṣaṇi ǀ
ījānam ǀ devau ǀ aśvinau ǀ abhi ǀ sumnaiḥ ǀ avardhatām ǁ10.132.1 Aṣṭaka 8.7.20.1Anuvāka 10.11.22
-
Ṛk 2
ता वां॑ मित्रावरुणा धार॒यत्क्षि॑ती सुषु॒म्नेषि॑त॒त्वता॑ यजामसि ।
यु॒वोः क्रा॒णाय॑ स॒ख्यैर॒भि ष्या॑म र॒क्षसः॑ ॥ता वाम् मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता यजामसि |
युवोः क्राणाय सख्यैर् अभि ष्याम रक्षसः ||tā́ vām mitrāvaruṇā dhārayátkṣitī suṣumnéṣitatvátā yajāmasi ǀ
yuvóḥ krāṇā́ya sakhyáirabhí ṣyāma rakṣásaḥ ǁtā vām mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatā yajāmasi |
yuvoḥ krāṇāya sakhyair abhi ṣyāma rakṣasaḥ ||ता । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । धा॒र॒यत्क्षि॑ती॒ इति॑ धा॒र॒यत्ऽक्षि॑ती । सु॒ऽसु॒म्ना । इ॒षि॒त॒त्वता॑ । य॒जा॒म॒सि॒ ।
यु॒वोः । क्रा॒णाय॑ । स॒ख्यैः । अ॒भि । स्या॒म॒ । र॒क्षसः॑ ॥ता । वाम् । मित्रावरुणा । धारयत्क्षिती इति धारयत्ऽक्षिती । सुऽसुम्ना । इषितत्वता । यजामसि ।
युवोः । क्राणाय । सख्यैः । अभि । स्याम । रक्षसः ॥tā́ ǀ vām ǀ mitrāvaruṇā ǀ dhārayátkṣitī íti dhārayát-kṣitī ǀ su-sumnā́ ǀ iṣitatvátā ǀ yajāmasi ǀ
yuvóḥ ǀ krāṇā́ya ǀ sakhyáiḥ ǀ abhí ǀ syāma ǀ rakṣásaḥ ǁtā ǀ vām ǀ mitrāvaruṇā ǀ dhārayatkṣitī iti dhārayat-kṣitī ǀ su-sumnā ǀ iṣitatvatā ǀ yajāmasi ǀ
yuvoḥ ǀ krāṇāya ǀ sakhyaiḥ ǀ abhi ǀ syāma ǀ rakṣasaḥ ǁ10.132.2 Aṣṭaka 8.7.20.2Anuvāka 10.11.23
-
Ṛk 3
अधा॑ चि॒न्नु यद्दिधि॑षामहे वाम॒भि प्रि॒यं रेक्णः॒ पत्य॑मानाः ।
द॒द्वाँ वा॒ यत्पुष्य॑ति॒ रेक्णः॒ सम्वा॑र॒न्नकि॑रस्य म॒घानि॑ ॥अधा चिन् नु यद् दिधिषामहे वाम् अभि प्रियं रेक्णः पत्यमानाः |
दद्वां वा यत् पुष्यति रेक्णः सम् व् आरन् नकिर् अस्य मघानि ||ádhā cinnú yáddídhiṣāmahe vāmabhí priyám rékṇaḥ pátyamānāḥ ǀ
dadvā́m̐ vā yátpúṣyati rékṇaḥ sámvārannákirasya maghā́ni ǁadhā cin nu yad didhiṣāmahe vām abhi priyaṃ rekṇaḥ patyamānāḥ |
dadvāṃ vā yat puṣyati rekṇaḥ sam v āran nakir asya maghāni ||अध॑ । चि॒त् । नु । यत् । दिधि॑षामहे । वा॒म् । अ॒भि । प्रि॒यम् । रेक्णः॑ । पत्य॑मानाः ।
द॒द्वान् । वा॒ । यत् । पुष्य॑ति । रेक्णः॑ । सम् । ऊं॒ इति॑ । आ॒र॒न् । नकिः॑ । अ॒स्य॒ । म॒घानि॑ ॥अध । चित् । नु । यत् । दिधिषामहे । वाम् । अभि । प्रियम् । रेक्णः । पत्यमानाः ।
दद्वान् । वा । यत् । पुष्यति । रेक्णः । सम् । ऊं इति । आरन् । नकिः । अस्य । मघानि ॥ádha ǀ cit ǀ nú ǀ yát ǀ dídhiṣāmahe ǀ vām ǀ abhí ǀ priyám ǀ rékṇaḥ ǀ pátyamānāḥ ǀ
dadvā́n ǀ vā ǀ yát ǀ púṣyati ǀ rékṇaḥ ǀ sám ǀ ūṃ íti ǀ āran ǀ nákiḥ ǀ asya ǀ maghā́ni ǁadha ǀ cit ǀ nu ǀ yat ǀ didhiṣāmahe ǀ vām ǀ abhi ǀ priyam ǀ rekṇaḥ ǀ patyamānāḥ ǀ
dadvān ǀ vā ǀ yat ǀ puṣyati ǀ rekṇaḥ ǀ sam ǀ ūṃ iti ǀ āran ǀ nakiḥ ǀ asya ǀ maghāni ǁ10.132.3 Aṣṭaka 8.7.20.3Anuvāka 10.11.24
-
Ṛk 4
अ॒साव॒न्यो अ॑सुर सूयत॒ द्यौस्त्वं विश्वे॑षां वरुणासि॒ राजा॑ ।
मू॒र्धा रथ॑स्य चाक॒न्नैताव॒तैन॑सांतक॒ध्रुक् ॥असाव् अन्यो असुर सूयत द्यौस् त्वं विश्वेषां वरुणासि राजा |
मूर्धा रथस्य चाकन् नैतावतैनसान्तकध्रुक् ||asā́vanyó asura sūyata dyáustvám víśveṣām varuṇāsi rā́jā ǀ
mūrdhā́ ráthasya cākannáitā́vatáinasāntakadhrúk ǁasāv anyo asura sūyata dyaus tvaṃ viśveṣāṃ varuṇāsi rājā |
mūrdhā rathasya cākan naitāvatainasāntakadhruk ||अ॒सौ । अ॒न्यः । अ॒सु॒र॒ । सू॒य॒त॒ । द्यौः । त्वम् । विश्वे॑षाम् । व॒रु॒ण॒ । अ॒सि॒ । राजा॑ ।
मू॒र्धा । रथ॑स्य । चा॒क॒न् । न । ए॒ताव॑ता । एन॑सा । अ॒न्त॒क॒ऽध्रुक् ॥असौ । अन्यः । असुर । सूयत । द्यौः । त्वम् । विश्वेषाम् । वरुण । असि । राजा ।
मूर्धा । रथस्य । चाकन् । न । एतावता । एनसा । अन्तकऽध्रुक् ॥asáu ǀ anyáḥ ǀ asura ǀ sūyata ǀ dyáuḥ ǀ tvám ǀ víśveṣām ǀ varuṇa ǀ asi ǀ rā́jā ǀ
mūrdhā́ ǀ ráthasya ǀ cākan ǀ ná ǀ etā́vatā ǀ énasā ǀ antaka-dhrúk ǁasau ǀ anyaḥ ǀ asura ǀ sūyata ǀ dyauḥ ǀ tvam ǀ viśveṣām ǀ varuṇa ǀ asi ǀ rājā ǀ
mūrdhā ǀ rathasya ǀ cākan ǀ na ǀ etāvatā ǀ enasā ǀ antaka-dhruk ǁ10.132.4 Aṣṭaka 8.7.20.4Anuvāka 10.11.25
-
Ṛk 5
अ॒स्मिन्त्स्वे॒३॒॑तच्छक॑पूत॒ एनो॑ हि॒ते मि॒त्रे निग॑तान्हंति वी॒रान् ।
अ॒वोर्वा॒ यद्धात्त॒नूष्ववः॑ प्रि॒यासु॑ य॒ज्ञिया॒स्वर्वा॑ ॥अस्मिन् स्व् एतच् छकपूत एनो हिते मित्रे निगतान् हन्ति वीरान् |
अवोर् वा यद् धात् तनूष्व् अवः प्रियासु यज्ञियास्व् अर्वा ||asmíntsvétácchákapūta éno hité mitré nígatānhanti vīrā́n ǀ
avórvā yáddhā́ttanū́ṣvávaḥ priyā́su yajñíyāsvárvā ǁasmin sv etac chakapūta eno hite mitre nigatān hanti vīrān |
avor vā yad dhāt tanūṣv avaḥ priyāsu yajñiyāsv arvā ||अ॒स्मिन् । सु । ए॒तत् । शक॑ऽपूते । एनः॑ । हि॒ते । मि॒त्रे । निऽग॑तान् । ह॒न्ति॒ । वी॒रान् ।
अ॒वोः । वा॒ । यत् । धात् । त॒नूषु॑ । अवः॑ । प्रि॒यासु॑ । य॒ज्ञिया॑सु । अर्वा॑ ॥अस्मिन् । सु । एतत् । शकऽपूते । एनः । हिते । मित्रे । निऽगतान् । हन्ति । वीरान् ।
अवोः । वा । यत् । धात् । तनूषु । अवः । प्रियासु । यज्ञियासु । अर्वा ॥asmín ǀ sú ǀ etát ǀ śáka-pūte ǀ énaḥ ǀ hité ǀ mitré ǀ ní-gatān ǀ hanti ǀ vīrā́n ǀ
avóḥ ǀ vā ǀ yát ǀ dhā́t ǀ tanū́ṣu ǀ ávaḥ ǀ priyā́su ǀ yajñíyāsu ǀ árvā ǁasmin ǀ su ǀ etat ǀ śaka-pūte ǀ enaḥ ǀ hite ǀ mitre ǀ ni-gatān ǀ hanti ǀ vīrān ǀ
avoḥ ǀ vā ǀ yat ǀ dhāt ǀ tanūṣu ǀ avaḥ ǀ priyāsu ǀ yajñiyāsu ǀ arvā ǁ10.132.5 Aṣṭaka 8.7.20.5Anuvāka 10.11.26
-
Ṛk 6
यु॒वोर्हि मा॒तादि॑तिर्विचेतसा॒ द्यौर्न भूमिः॒ पय॑सा पुपू॒तनि॑ ।
अव॑ प्रि॒या दि॑दिष्टन॒ सूरो॑ निनिक्त र॒श्मिभिः॑ ॥युवोर् हि मातादितिर् विचेतसा द्यौर् न भूमिः पयसा पुपूतनि |
अव प्रिया दिदिष्टन सूरो निनिक्त रश्मिभिः ||yuvórhí mātā́ditirvicetasā dyáurná bhū́miḥ páyasā pupūtáni ǀ
áva priyā́ didiṣṭana sū́ro ninikta raśmíbhiḥ ǁyuvor hi mātāditir vicetasā dyaur na bhūmiḥ payasā pupūtani |
ava priyā didiṣṭana sūro ninikta raśmibhiḥ ||यु॒वोः । हि । मा॒ता । अदि॑तिः । वि॒ऽचे॒त॒सा॒ । द्यौः । न । भूमिः॑ । पय॑सा । पु॒पू॒तनि॑ ।
अव॑ । प्रि॒या । दि॒दि॒ष्ट॒न॒ । सूरः॑ । नि॒नि॒क्त॒ । र॒श्मिऽभिः॑ ॥युवोः । हि । माता । अदितिः । विऽचेतसा । द्यौः । न । भूमिः । पयसा । पुपूतनि ।
अव । प्रिया । दिदिष्टन । सूरः । निनिक्त । रश्मिऽभिः ॥yuvóḥ ǀ hí ǀ mātā́ ǀ áditiḥ ǀ vi-cetasā ǀ dyáuḥ ǀ ná ǀ bhū́miḥ ǀ páyasā ǀ pupūtáni ǀ
áva ǀ priyā́ ǀ didiṣṭana ǀ sū́raḥ ǀ ninikta ǀ raśmí-bhiḥ ǁyuvoḥ ǀ hi ǀ mātā ǀ aditiḥ ǀ vi-cetasā ǀ dyauḥ ǀ na ǀ bhūmiḥ ǀ payasā ǀ pupūtani ǀ
ava ǀ priyā ǀ didiṣṭana ǀ sūraḥ ǀ ninikta ǀ raśmi-bhiḥ ǁ10.132.6 Aṣṭaka 8.7.20.6Anuvāka 10.11.27
-
Ṛk 7
यु॒वं ह्य॑प्न॒राजा॒वसी॑दतं॒ तिष्ठ॒द्रथं॒ न धू॒र्षदं॑ वन॒र्षदं॑ ।
ता नः॑ कणूक॒यंती॑र्नृ॒मेध॑स्तत्रे॒ अंह॑सः सु॒मेध॑स्तत्रे॒ अंह॑सः ॥युवं ह्य् अप्नराजाव् असीदतं तिष्ठद् रथं न धूर्षदं वनर्षदम् |
ता नः कणूकयन्तीर् नृमेधस् तत्रे अंहसः सुमेधस् तत्रे अंहसः ||yuvám hyápnarā́jāvásīdatam tíṣṭhadrátham ná dhūrṣádam vanarṣádam ǀ
tā́ naḥ kaṇūkayántīrnṛmédhastatre áṃhasaḥ sumédhastatre áṃhasaḥ ǁyuvaṃ hy apnarājāv asīdataṃ tiṣṭhad rathaṃ na dhūrṣadaṃ vanarṣadam |
tā naḥ kaṇūkayantīr nṛmedhas tatre aṃhasaḥ sumedhas tatre aṃhasaḥ ||यु॒वम् । हि । अ॒प्न॒ऽराजौ॑ । असी॑दतम् । तिष्ठ॑त् । रथ॑म् । न । धूः॒ऽसद॑म् । व॒न॒ऽसद॑म् ।
ताः । नः॒ । क॒णू॒क॒ऽयन्तीः॑ । नृ॒ऽमेधः॑ । त॒त्रे॒ । अंह॑सः । सु॒ऽमेधः॑ । त॒त्रे॒ । अंह॑सः ॥युवम् । हि । अप्नऽराजौ । असीदतम् । तिष्ठत् । रथम् । न । धूःऽसदम् । वनऽसदम् ।
ताः । नः । कणूकऽयन्तीः । नृऽमेधः । तत्रे । अंहसः । सुऽमेधः । तत्रे । अंहसः ॥yuvám ǀ hí ǀ apna-rā́jau ǀ ásīdatam ǀ tíṣṭhat ǀ rátham ǀ ná ǀ dhūḥ-sádam ǀ vana-sádam ǀ
tā́ḥ ǀ naḥ ǀ kaṇūka-yántīḥ ǀ nṛ-médhaḥ ǀ tatre ǀ áṃhasaḥ ǀ su-médhaḥ ǀ tatre ǀ áṃhasaḥ ǁyuvam ǀ hi ǀ apna-rājau ǀ asīdatam ǀ tiṣṭhat ǀ ratham ǀ na ǀ dhūḥ-sadam ǀ vana-sadam ǀ
tāḥ ǀ naḥ ǀ kaṇūka-yantīḥ ǀ nṛ-medhaḥ ǀ tatre ǀ aṃhasaḥ ǀ su-medhaḥ ǀ tatre ǀ aṃhasaḥ ǁ10.132.7 Aṣṭaka 8.7.20.7Anuvāka 10.11.28
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.