Ṛgveda · Maṇḍala 10 · Sūkta 132

Ṛk 10.132.6

Aśvins, Divaḥ, Pṛthivī · Mitra, Varuṇa · Śakapūta Nārmedha

The whole sūkta Link

Saṃhitā

यु॒वोर्हि मा॒तादि॑तिर्विचेतसा॒ द्यौर्न भूमिः॒ पय॑सा पुपू॒तनि॑ ।
अव॑ प्रि॒या दि॑दिष्टन॒ सूरो॑ निनिक्त र॒श्मिभिः॑ ॥

युवोर् हि मातादितिर् विचेतसा द्यौर् न भूमिः पयसा पुपूतनि |
अव प्रिया दिदिष्टन सूरो निनिक्त रश्मिभिः ||

yuvórhí mātā́ditirvicetasā dyáurná bhū́miḥ páyasā pupūtáni ǀ
áva priyā́ didiṣṭana sū́ro ninikta raśmíbhiḥ ǁ

yuvor hi mātāditir vicetasā dyaur na bhūmiḥ payasā pupūtani |
ava priyā didiṣṭana sūro ninikta raśmibhiḥ ||

Padapāṭha

यु॒वोः । हि । मा॒ता । अदि॑तिः । वि॒ऽचे॒त॒सा॒ । द्यौः । न । भूमिः॑ । पय॑सा । पु॒पू॒तनि॑ ।
अव॑ । प्रि॒या । दि॒दि॒ष्ट॒न॒ । सूरः॑ । नि॒नि॒क्त॒ । र॒श्मिऽभिः॑ ॥

युवोः । हि । माता । अदितिः । विऽचेतसा । द्यौः । न । भूमिः । पयसा । पुपूतनि ।
अव । प्रिया । दिदिष्टन । सूरः । निनिक्त । रश्मिऽभिः ॥

yuvóḥ ǀ hí ǀ mātā́ ǀ áditiḥ ǀ vi-cetasā ǀ dyáuḥ ǀ ná ǀ bhū́miḥ ǀ páyasā ǀ pupūtáni ǀ
áva ǀ priyā́ ǀ didiṣṭana ǀ sū́raḥ ǀ ninikta ǀ raśmí-bhiḥ ǁ

yuvoḥ ǀ hi ǀ mātā ǀ aditiḥ ǀ vi-cetasā ǀ dyauḥ ǀ na ǀ bhūmiḥ ǀ payasā ǀ pupūtani ǀ
ava ǀ priyā ǀ didiṣṭana ǀ sūraḥ ǀ ninikta ǀ raśmi-bhiḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.132.06
Aṣṭaka · Adhyāya · Varga · Ṛk
8.7.20.06
Maṇḍala · Anuvāka · Ṛk
10.11.027
Devatā देवता
1: Aśvins, Divaḥ, Pṛthivī; 2-7: Mitra, Varuṇa
Ṛṣi ऋषि
Śakapūta Nārmedha
Chandas छन्दस्
Virāḍrūpā, Prastārapaṅkti, Nyaṅkusāriṇī, Mahāsatobṛhatī
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.132.6

Interpretations

Sāyaṇa

हे विचेतसा विशिष्टज्ञानौ मित्रावरुणौ युवोर्हि युवयो। खलु माता जनन्यदितिरदीनाखण्डनीया वा भवति। सैव भूमिः। इयं वा अदितिरिति श्रुतेः। द्यौर्न यथा द्युलोकः पयसा वृष्ट्युदकेन सर्वं जगत्पुनाति एवमेषा सा भूमिः पयसात्मीयेन रसेन हविरात्मना परिणतेन पुपूतानि परिपवने यजमानां पापस्य शोधने हेतुर्भवतीत्यर्थः। पूतशब्दादाचारे क्विबन्तादौणादिकः कनिप्रत्ययः। छान्दसं द्विर्वचनम्। तौ युवामतिदिश्य यूयं प्रिया प्रियानि धनान्यव दिदिष्वन। अवाङ्मुखमस्मदभिमुखम् दिशत। दत्त। दिश अतिसर्जने। अस्माल्लोटि च्छान्दसः शपः श्लुः। तप्तनप्तनथनाश्चेति तशब्दस्य तनादेशः। अपि च सूरः सूर्यस्य रश्मिभिः किरणैर्निनिक्त। अस्माञ्योधयत पोषयत वा। णिजिर् शौचपोषणयोः जौहोत्यादिकः। संज्ञापूर्वको विधिरनित्यः इति निजां त्रयाणां। पा. ७-४-७५। इत्यभ्यासस्य गुणो न क्रियते॥६॥