Sūkta 30
- Devatā देवता
- Apas
- Ṛṣi ऋषि
- Kavaṣa Ailūṣa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3, 9, 11, 12, 15); virāṭtrisṭup (2, 4, 6, 8, 14); triṣṭup (5, 7, 10, 13)
2nd set of styles triṣṭubh
-
Ṛk 1
प्र दे॑व॒त्रा ब्रह्म॑णे गा॒तुरे॑त्व॒पो अच्छा॒ मन॑सो॒ न प्रयु॑क्ति ।
म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिं ॥प्र देवत्रा ब्रह्मणे गातुर् एत्व् अपो अच्छा मनसो न प्रयुक्ति |
महीम् मित्रस्य वरुणस्य धासिम् पृथुज्रयसे रीरधा सुवृक्तिम् ||prá devatrā́ bráhmaṇe gātúretvapó ácchā mánaso ná práyukti ǀ
mahī́m mitrásya váruṇasya dhāsím pṛthujráyase rīradhā suvṛktím ǁpra devatrā brahmaṇe gātur etv apo acchā manaso na prayukti |
mahīm mitrasya varuṇasya dhāsim pṛthujrayase rīradhā suvṛktim ||प्र । दे॒व॒ऽत्रा । ब्रह्म॑णे । गा॒तुः । ए॒तु॒ । अ॒पः । अच्छ॑ । मन॑सः । न । प्रऽयु॑क्ति ।
म॒हीम् । मि॒त्रस्य॑ । वरु॑णस्य । धा॒सिम् । पृ॒थु॒ऽज्रय॑से । री॒र॒ध॒ । सु॒ऽवृ॒क्तिम् ॥प्र । देवऽत्रा । ब्रह्मणे । गातुः । एतु । अपः । अच्छ । मनसः । न । प्रऽयुक्ति ।
महीम् । मित्रस्य । वरुणस्य । धासिम् । पृथुऽज्रयसे । रीरध । सुऽवृक्तिम् ॥prá ǀ deva-trā́ ǀ bráhmaṇe ǀ gātúḥ ǀ etu ǀ apáḥ ǀ áccha ǀ mánasaḥ ǀ ná ǀ prá-yukti ǀ
mahī́m ǀ mitrásya ǀ váruṇasya ǀ dhāsím ǀ pṛthu-jráyase ǀ rīradha ǀ su-vṛktím ǁpra ǀ deva-trā ǀ brahmaṇe ǀ gātuḥ ǀ etu ǀ apaḥ ǀ accha ǀ manasaḥ ǀ na ǀ pra-yukti ǀ
mahīm ǀ mitrasya ǀ varuṇasya ǀ dhāsim ǀ pṛthu-jrayase ǀ rīradha ǀ su-vṛktim ǁ10.30.1 Aṣṭaka 7.7.24.1Anuvāka 10.3.1
-
Ṛk 2
अध्व॑र्यवो ह॒विष्मं॑तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शंतः ।
अव॒ याश्चष्टे॑ अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ॥अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीर् उशन्तः |
अव याश् चष्टे अरुणः सुपर्णस् तम् आस्यध्वम् ऊर्मिम् अद्या सुहस्ताः ||ádhvaryavo havíṣmanto hí bhūtā́cchāpá itośatī́ruśantaḥ ǀ
áva yā́ścáṣṭe aruṇáḥ suparṇástámā́syadhvamūrmímadyā́ suhastāḥ ǁadhvaryavo haviṣmanto hi bhūtācchāpa itośatīr uśantaḥ |
ava yāś caṣṭe aruṇaḥ suparṇas tam āsyadhvam ūrmim adyā suhastāḥ ||अध्व॑र्यवः । ह॒विष्म॑न्तः । हि । भू॒त । अच्छ॑ । अ॒पः । इ॒त॒ । उ॒श॒तीः । उ॒श॒न्तः॒ ।
अव॑ । याः । चष्टे॑ । अ॒रु॒णः । सु॒ऽप॒र्णः । तम् । आ । अ॒स्य॒ध्व॒म् । ऊ॒र्मिम् । अ॒द्य । सु॒ऽह॒स्ताः॒ ॥अध्वर्यवः । हविष्मन्तः । हि । भूत । अच्छ । अपः । इत । उशतीः । उशन्तः ।
अव । याः । चष्टे । अरुणः । सुऽपर्णः । तम् । आ । अस्यध्वम् । ऊर्मिम् । अद्य । सुऽहस्ताः ॥ádhvaryavaḥ ǀ havíṣmantaḥ ǀ hí ǀ bhūtá ǀ áccha ǀ apáḥ ǀ ita ǀ uśatī́ḥ ǀ uśantaḥ ǀ
áva ǀ yā́ḥ ǀ cáṣṭe ǀ aruṇáḥ ǀ su-parṇáḥ ǀ tám ǀ ā́ ǀ asyadhvam ǀ ūrmím ǀ adyá ǀ su-hastāḥ ǁadhvaryavaḥ ǀ haviṣmantaḥ ǀ hi ǀ bhūta ǀ accha ǀ apaḥ ǀ ita ǀ uśatīḥ ǀ uśantaḥ ǀ
ava ǀ yāḥ ǀ caṣṭe ǀ aruṇaḥ ǀ su-parṇaḥ ǀ tam ǀ ā ǀ asyadhvam ǀ ūrmim ǀ adya ǀ su-hastāḥ ǁ10.30.2 Aṣṭaka 7.7.24.2Anuvāka 10.3.2
-
Ṛk 3
अध्व॑र्यवो॒ऽप इ॑ता समु॒द्रम॒पां नपा॑तं ह॒विषा॑ यजध्वं ।
स वो॑ दददू॒र्मिम॒द्या सुपू॑तं॒ तस्मै॒ सोमं॒ मधु॑मंतं सुनोत ॥अध्वर्यवो ऽप इता समुद्रम् अपां नपातं हविषा यजध्वम् |
स वो ददद् ऊर्मिम् अद्या सुपूतं तस्मै सोमम् मधुमन्तं सुनोत ||ádhvaryavo’pá itā samudrámapā́m nápātam havíṣā yajadhvam ǀ
sá vo dadadūrmímadyā́ súpūtam tásmai sómam mádhumantam sunota ǁadhvaryavo 'pa itā samudram apāṃ napātaṃ haviṣā yajadhvam |
sa vo dadad ūrmim adyā supūtaṃ tasmai somam madhumantaṃ sunota ||अध्व॑र्यवः । अ॒पः । इ॒त॒ । स॒मु॒द्रम् । अ॒पाम् । नपा॑तम् । ह॒विषा॑ । य॒ज॒ध्व॒म् ।
सः । वः॒ । द॒द॒त् । ऊ॒र्मिम् । अ॒द्य । सुऽपू॑तम् । तस्मै॑ । सोम॑म् । मधु॑ऽमन्तम् । सु॒नो॒त॒ ॥अध्वर्यवः । अपः । इत । समुद्रम् । अपाम् । नपातम् । हविषा । यजध्वम् ।
सः । वः । ददत् । ऊर्मिम् । अद्य । सुऽपूतम् । तस्मै । सोमम् । मधुऽमन्तम् । सुनोत ॥ádhvaryavaḥ ǀ apáḥ ǀ ita ǀ samudrám ǀ apā́m ǀ nápātam ǀ havíṣā ǀ yajadhvam ǀ
sáḥ ǀ vaḥ ǀ dadat ǀ ūrmím ǀ adyá ǀ sú-pūtam ǀ tásmai ǀ sómam ǀ mádhu-mantam ǀ sunota ǁadhvaryavaḥ ǀ apaḥ ǀ ita ǀ samudram ǀ apām ǀ napātam ǀ haviṣā ǀ yajadhvam ǀ
saḥ ǀ vaḥ ǀ dadat ǀ ūrmim ǀ adya ǀ su-pūtam ǀ tasmai ǀ somam ǀ madhu-mantam ǀ sunota ǁ10.30.3 Aṣṭaka 7.7.24.3Anuvāka 10.3.3
-
Ṛk 4
यो अ॑नि॒ध्मो दीद॑यद॒प्स्वं१॒॑तर्यं विप्रा॑स॒ ईळ॑ते अध्व॒रेषु॑ ।
अपां॑ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिंद्रो॑ वावृ॒धे वी॒र्या॑य ॥यो अनिध्मो दीदयद् अप्स्व् अन्तर् यं विप्रास ईऌअते अध्वरेषु |
अपां नपान् मधुमतीर् अपो दा याभिर् इन्द्रो वावृधे वीर्याय ||yó anidhmó dī́dayadapsvántáryám víprāsa ī́ḷate adhvaréṣu ǀ
ápām napānmádhumatīrapó dā yā́bhiríndro vāvṛdhé vīryā́ya ǁyo anidhmo dīdayad apsv antar yaṃ viprāsa īḷate adhvareṣu |
apāṃ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāya ||यः । अ॒नि॒ध्मः । दीद॑यत् । अ॒प्ऽसु । अ॒न्तः । यम् । विप्रा॑सः । ईळ॑ते । अ॒ध्व॒रेषु॑ ।
अपा॑म् । न॒पा॒त् । मधु॑ऽमतीः । अ॒पः । दाः॒ । याभिः॑ । इन्द्रः॑ । व॒वृ॒धे । वी॒र्या॑य ॥यः । अनिध्मः । दीदयत् । अप्ऽसु । अन्तः । यम् । विप्रासः । ईळते । अध्वरेषु ।
अपाम् । नपात् । मधुऽमतीः । अपः । दाः । याभिः । इन्द्रः । ववृधे । वीर्याय ॥yáḥ ǀ anidhmáḥ ǀ dī́dayat ǀ ap-sú ǀ antáḥ ǀ yám ǀ víprāsaḥ ǀ ī́ḷate ǀ adhvaréṣu ǀ
ápām ǀ napāt ǀ mádhu-matīḥ ǀ apáḥ ǀ dāḥ ǀ yā́bhiḥ ǀ índraḥ ǀ vavṛdhé ǀ vīryā́ya ǁyaḥ ǀ anidhmaḥ ǀ dīdayat ǀ ap-su ǀ antaḥ ǀ yam ǀ viprāsaḥ ǀ īḷate ǀ adhvareṣu ǀ
apām ǀ napāt ǀ madhu-matīḥ ǀ apaḥ ǀ dāḥ ǀ yābhiḥ ǀ indraḥ ǀ vavṛdhe ǀ vīryāya ǁ10.30.4 Aṣṭaka 7.7.24.4Anuvāka 10.3.4
-
Ṛk 5
याभिः॒ सोमो॒ मोद॑ते॒ हर्ष॑ते च कल्या॒णीभि॑र्युव॒तिभि॒र्न मर्यः॑ ।
ता अ॑ध्वर्यो अ॒पो अच्छा॒ परे॑हि॒ यदा॑सिं॒चा ओष॑धीभिः पुनीतात् ॥याभिः सोमो मोदते हर्षते च कल्याणीभिर् युवतिभिर् न मर्यः |
ता अध्वर्यो अपो अच्छा परेहि यद् आसिञ्चा ओषधीभिः पुनीतात् ||yā́bhiḥ sómo módate hárṣate ca kalyāṇī́bhiryuvatíbhirná máryaḥ ǀ
tā́ adhvaryo apó ácchā párehi yádāsiñcā́ óṣadhībhiḥ punītāt ǁyābhiḥ somo modate harṣate ca kalyāṇībhir yuvatibhir na maryaḥ |
tā adhvaryo apo acchā parehi yad āsiñcā oṣadhībhiḥ punītāt ||याभिः॑ । सोमः॑ । मोद॑ते । हर्ष॑ते । च॒ । क॒ल्या॒णीभिः॑ । यु॒व॒तिऽभिः॑ । न । मर्यः॑ ।
ताः । अ॒ध्व॒र्यो॒ इति॑ । अ॒पः । अच्छ॑ । परा॑ । इ॒हि॒ । यत् । आ॒ऽसि॒ञ्चाः । ओष॑धीभिः । पु॒नी॒ता॒त् ॥याभिः । सोमः । मोदते । हर्षते । च । कल्याणीभिः । युवतिऽभिः । न । मर्यः ।
ताः । अध्वर्यो इति । अपः । अच्छ । परा । इहि । यत् । आऽसिञ्चाः । ओषधीभिः । पुनीतात् ॥yā́bhiḥ ǀ sómaḥ ǀ módate ǀ hárṣate ǀ ca ǀ kalyāṇī́bhiḥ ǀ yuvatí-bhiḥ ǀ ná ǀ máryaḥ ǀ
tā́ḥ ǀ adhvaryo íti ǀ apáḥ ǀ áccha ǀ párā ǀ ihi ǀ yát ǀ ā-siñcā́ḥ ǀ óṣadhībhiḥ ǀ punītāt ǁyābhiḥ ǀ somaḥ ǀ modate ǀ harṣate ǀ ca ǀ kalyāṇībhiḥ ǀ yuvati-bhiḥ ǀ na ǀ maryaḥ ǀ
tāḥ ǀ adhvaryo iti ǀ apaḥ ǀ accha ǀ parā ǀ ihi ǀ yat ǀ ā-siñcāḥ ǀ oṣadhībhiḥ ǀ punītāt ǁ10.30.5 Aṣṭaka 7.7.24.5Anuvāka 10.3.5
-
Ṛk 6
ए॒वेद्यूने॑ युव॒तयो॑ नमंत॒ यदी॑मु॒शन्नु॑श॒तीरेत्यच्छ॑ ।
सं जा॑नते॒ मन॑सा॒ सं चि॑कित्रेऽध्व॒र्यवो॑ धि॒षणाप॑श्च दे॒वीः ॥एवेद् यूने युवतयो नमन्त यद् ईम् उशन्न् उशतीर् एत्य् अच्छ |
सं जानते मनसा सं चिकित्रे ऽध्वर्यवो धिषणापश् च देवीः ||evédyū́ne yuvatáyo namanta yádīmuśánnuśatī́rétyáccha ǀ
sám jānate mánasā sám cikitre’dhvaryávo dhiṣáṇā́paśca devī́ḥ ǁeved yūne yuvatayo namanta yad īm uśann uśatīr ety accha |
saṃ jānate manasā saṃ cikitre 'dhvaryavo dhiṣaṇāpaś ca devīḥ ||ए॒व । इत् । यूने॑ । यु॒व॒तयः॑ । न॒म॒न्त॒ । यत् । ई॒म् । उ॒शन् । उ॒श॒तीः । एति॑ । अच्छ॑ ।
सम् । जा॒न॒ते॒ । मन॑सा । सम् । चि॒कि॒त्रे॒ । अ॒ध्व॒र्यवः॑ । धि॒षणा॑ । आपः॑ । च॒ । दे॒वीः ॥एव । इत् । यूने । युवतयः । नमन्त । यत् । ईम् । उशन् । उशतीः । एति । अच्छ ।
सम् । जानते । मनसा । सम् । चिकित्रे । अध्वर्यवः । धिषणा । आपः । च । देवीः ॥evá ǀ ít ǀ yū́ne ǀ yuvatáyaḥ ǀ namanta ǀ yát ǀ īm ǀ uśán ǀ uśatī́ḥ ǀ éti ǀ áccha ǀ
sám ǀ jānate ǀ mánasā ǀ sám ǀ cikitre ǀ adhvaryávaḥ ǀ dhiṣáṇā ǀ ā́paḥ ǀ ca ǀ devī́ḥ ǁeva ǀ it ǀ yūne ǀ yuvatayaḥ ǀ namanta ǀ yat ǀ īm ǀ uśan ǀ uśatīḥ ǀ eti ǀ accha ǀ
sam ǀ jānate ǀ manasā ǀ sam ǀ cikitre ǀ adhvaryavaḥ ǀ dhiṣaṇā ǀ āpaḥ ǀ ca ǀ devīḥ ǁ10.30.6 Aṣṭaka 7.7.25.1Anuvāka 10.3.6
-
Ṛk 7
यो वो॑ वृ॒ताभ्यो॒ अकृ॑णोदु लो॒कं यो वो॑ म॒ह्या अ॒भिश॑स्ते॒रमुं॑चत् ।
तस्मा॒ इंद्रा॑य॒ मधु॑मंतमू॒र्मिं दे॑व॒माद॑नं॒ प्र हि॑णोतनापः ॥यो वो वृताभ्यो अकृणोद् उ लोकं यो वो मह्या अभिशस्तेर् अमुञ्चत् |
तस्मा इन्द्राय मधुमन्तम् ऊर्मिं देवमादनम् प्र हिणोतनापः ||yó vo vṛtā́bhyo ákṛṇodu lokám yó vo mahyā́ abhíśasterámuñcat ǀ
tásmā índrāya mádhumantamūrmím devamā́danam prá hiṇotanāpaḥ ǁyo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat |
tasmā indrāya madhumantam ūrmiṃ devamādanam pra hiṇotanāpaḥ ||यः । वः॒ । वृ॒ताभ्यः॑ । अकृ॑णोत् । ऊं॒ इति॑ । लो॒कम् । यः । वः॒ । म॒ह्याः । अ॒भिऽश॑स्तेः । अमु॑ञ्चत् ।
तस्मै॑ । इन्द्रा॑य । मधु॑ऽमन्तम् । ऊ॒र्मिम् । दे॒व॒ऽमाद॑नम् । प्र । हि॒णो॒त॒न॒ । आ॒पः॒ ॥यः । वः । वृताभ्यः । अकृणोत् । ऊं इति । लोकम् । यः । वः । मह्याः । अभिऽशस्तेः । अमुञ्चत् ।
तस्मै । इन्द्राय । मधुऽमन्तम् । ऊर्मिम् । देवऽमादनम् । प्र । हिणोतन । आपः ॥yáḥ ǀ vaḥ ǀ vṛtā́bhyaḥ ǀ ákṛṇot ǀ ūṃ íti ǀ lokám ǀ yáḥ ǀ vaḥ ǀ mahyā́ḥ ǀ abhí-śasteḥ ǀ ámuñcat ǀ
tásmai ǀ índrāya ǀ mádhu-mantam ǀ ūrmím ǀ deva-mā́danam ǀ prá ǀ hiṇotana ǀ āpaḥ ǁyaḥ ǀ vaḥ ǀ vṛtābhyaḥ ǀ akṛṇot ǀ ūṃ iti ǀ lokam ǀ yaḥ ǀ vaḥ ǀ mahyāḥ ǀ abhi-śasteḥ ǀ amuñcat ǀ
tasmai ǀ indrāya ǀ madhu-mantam ǀ ūrmim ǀ deva-mādanam ǀ pra ǀ hiṇotana ǀ āpaḥ ǁ10.30.7 Aṣṭaka 7.7.25.2Anuvāka 10.3.7
-
Ṛk 8
प्रास्मै॑ हिनोत॒ मधु॑मंतमू॒र्मिं गर्भो॒ यो वः॑ सिंधवो॒ मध्व॒ उत्सः॑ ।
घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो॑ रेवतीः शृणु॒ता हवं॑ मे ॥प्रास्मै हिनोत मधुमन्तम् ऊर्मिं गर्भो यो वः सिन्धवो मध्व उत्सः |
घृतपृष्ठम् ईड्यम् अध्वरेष्व् आपो रेवतीः शृणुता हवम् मे ||prā́smai hinota mádhumantamūrmím gárbho yó vaḥ sindhavo mádhva útsaḥ ǀ
ghṛtápṛṣṭhamī́ḍyamadhvaréṣvā́po revatīḥ śṛṇutā́ hávam me ǁprāsmai hinota madhumantam ūrmiṃ garbho yo vaḥ sindhavo madhva utsaḥ |
ghṛtapṛṣṭham īḍyam adhvareṣv āpo revatīḥ śṛṇutā havam me ||प्र । अ॒स्मै॒ । हि॒नो॒त॒ । मधु॑ऽमन्तम् । ऊ॒र्मिम् । गर्भः॑ । यः । वः॒ । सि॒न्ध॒वः॒ । मध्वः॑ । उत्सः॑ ।
घृ॒तऽपृ॑ष्ठम् । ईड्य॑म् । अ॒ध्व॒रेषु॑ । आपः॑ । रे॒व॒तीः॒ । शृ॒णु॒त । हव॑म् । मे॒ ॥प्र । अस्मै । हिनोत । मधुऽमन्तम् । ऊर्मिम् । गर्भः । यः । वः । सिन्धवः । मध्वः । उत्सः ।
घृतऽपृष्ठम् । ईड्यम् । अध्वरेषु । आपः । रेवतीः । शृणुत । हवम् । मे ॥prá ǀ asmai ǀ hinota ǀ mádhu-mantam ǀ ūrmím ǀ gárbhaḥ ǀ yáḥ ǀ vaḥ ǀ sindhavaḥ ǀ mádhvaḥ ǀ útsaḥ ǀ
ghṛtá-pṛṣṭham ǀ ī́ḍyam ǀ adhvaréṣu ǀ ā́paḥ ǀ revatīḥ ǀ śṛṇutá ǀ hávam ǀ me ǁpra ǀ asmai ǀ hinota ǀ madhu-mantam ǀ ūrmim ǀ garbhaḥ ǀ yaḥ ǀ vaḥ ǀ sindhavaḥ ǀ madhvaḥ ǀ utsaḥ ǀ
ghṛta-pṛṣṭham ǀ īḍyam ǀ adhvareṣu ǀ āpaḥ ǀ revatīḥ ǀ śṛṇuta ǀ havam ǀ me ǁ10.30.8 Aṣṭaka 7.7.25.3Anuvāka 10.3.8
-
Ṛk 9
तं सिं॑धवो मत्स॒रमिं॑द्र॒पान॑मू॒र्मिं प्र हे॑त॒ य उ॒भे इय॑र्ति ।
म॒द॒च्युत॑मौशा॒नं न॑भो॒जां परि॑ त्रि॒तंतुं॑ वि॒चरं॑त॒मुत्सं॑ ॥तं सिन्धवो मत्सरम् इन्द्रपानम् ऊर्मिम् प्र हेत य उभे इयर्ति |
मदच्युतम् औशानं नभोजाम् परि त्रितन्तुं विचरन्तम् उत्सम् ||tám sindhavo matsarámindrapā́namūrmím prá heta yá ubhé íyarti ǀ
madacyútamauśānám nabhojā́m pári tritántum vicárantamútsam ǁtaṃ sindhavo matsaram indrapānam ūrmim pra heta ya ubhe iyarti |
madacyutam auśānaṃ nabhojām pari tritantuṃ vicarantam utsam ||तम् । सि॒न्ध॒वः॒ । म॒त्स॒रम् । इ॒न्द्र॒ऽपान॑म् । ऊ॒र्मिम् । प्र । हे॒त॒ । यः । उ॒भे इति॑ । इय॑र्ति ।
म॒द॒ऽच्युत॑म् । औ॒शा॒नम् । न॒भः॒ऽजाम् । परि॑ । त्रि॒ऽतन्तु॑म् । वि॒ऽचर॑न्तम् । उत्स॑म् ॥तम् । सिन्धवः । मत्सरम् । इन्द्रऽपानम् । ऊर्मिम् । प्र । हेत । यः । उभे इति । इयर्ति ।
मदऽच्युतम् । औशानम् । नभःऽजाम् । परि । त्रिऽतन्तुम् । विऽचरन्तम् । उत्सम् ॥tám ǀ sindhavaḥ ǀ matsarám ǀ indra-pā́nam ǀ ūrmím ǀ prá ǀ heta ǀ yáḥ ǀ ubhé íti ǀ íyarti ǀ
mada-cyútam ǀ auśānám ǀ nabhaḥ-jā́m ǀ pári ǀ tri-tántum ǀ vi-cárantam ǀ útsam ǁtam ǀ sindhavaḥ ǀ matsaram ǀ indra-pānam ǀ ūrmim ǀ pra ǀ heta ǀ yaḥ ǀ ubhe iti ǀ iyarti ǀ
mada-cyutam ǀ auśānam ǀ nabhaḥ-jām ǀ pari ǀ tri-tantum ǀ vi-carantam ǀ utsam ǁ10.30.9 Aṣṭaka 7.7.25.4Anuvāka 10.3.9
-
Ṛk 10
आ॒वर्वृ॑तती॒रध॒ नु द्वि॒धारा॑ गोषु॒युधो॒ न नि॑य॒वं चरं॑तीः ।
ऋषे॒ जनि॑त्री॒र्भुव॑नस्य॒ पत्नी॑र॒पो वं॑दस्व स॒वृधः॒ सयो॑नीः ॥आवर्वृततीर् अध नु द्विधारा गोषुयुधो न नियवं चरन्तीः |
ऋषे जनित्रीर् भुवनस्य पत्नीर् अपो वन्दस्व सवृधः सयोनीः ||āvárvṛtatīrádha nú dvidhā́rā goṣuyúdho ná niyavám cárantīḥ ǀ
ṛ́ṣe jánitrīrbhúvanasya pátnīrapó vandasva savṛ́dhaḥ sáyonīḥ ǁāvarvṛtatīr adha nu dvidhārā goṣuyudho na niyavaṃ carantīḥ |
ṛṣe janitrīr bhuvanasya patnīr apo vandasva savṛdhaḥ sayonīḥ ||आ॒ऽवर्वृ॑ततीः । अध॑ । नु । द्वि॒ऽधाराः॑ । गो॒षु॒ऽयुधः॑ । न । नि॒ऽय॒वम् । चर॑न्तीः ।
ऋषे॑ । जनि॑त्रीः । भुव॑नस्य । पत्नीः॑ । अ॒पः । व॒न्द॒स्व॒ । स॒ऽवृधः॑ । सऽयो॑नीः ॥आऽवर्वृततीः । अध । नु । द्विऽधाराः । गोषुऽयुधः । न । निऽयवम् । चरन्तीः ।
ऋषे । जनित्रीः । भुवनस्य । पत्नीः । अपः । वन्दस्व । सऽवृधः । सऽयोनीः ॥ā-várvṛtatīḥ ǀ ádha ǀ nú ǀ dvi-dhā́rāḥ ǀ goṣu-yúdhaḥ ǀ ná ǀ ni-yavám ǀ cárantīḥ ǀ
ṛ́ṣe ǀ jánitrīḥ ǀ bhúvanasya ǀ pátnīḥ ǀ apáḥ ǀ vandasva ǀ sa-vṛ́dhaḥ ǀ sá-yonīḥ ǁā-varvṛtatīḥ ǀ adha ǀ nu ǀ dvi-dhārāḥ ǀ goṣu-yudhaḥ ǀ na ǀ ni-yavam ǀ carantīḥ ǀ
ṛṣe ǀ janitrīḥ ǀ bhuvanasya ǀ patnīḥ ǀ apaḥ ǀ vandasva ǀ sa-vṛdhaḥ ǀ sa-yonīḥ ǁ10.30.10 Aṣṭaka 7.7.25.5Anuvāka 10.3.10
-
Ṛk 11
हि॒नोता॑ नो अध्व॒रं दे॑वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना॑नां ।
ऋ॒तस्य॒ योगे॒ वि ष्य॑ध्व॒मूधः॑ श्रुष्टी॒वरी॑र्भूतना॒स्मभ्य॑मापः ॥हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम् |
ऋतस्य योगे वि ष्यध्वम् ऊधः श्रुष्टीवरीर् भूतनास्मभ्यम् आपः ||hinótā no adhvarám devayajyā́ hinóta bráhma sanáye dhánānām ǀ
ṛtásya yóge ví ṣyadhvamū́dhaḥ śruṣṭīvárīrbhūtanāsmábhyamāpaḥ ǁhinotā no adhvaraṃ devayajyā hinota brahma sanaye dhanānām |
ṛtasya yoge vi ṣyadhvam ūdhaḥ śruṣṭīvarīr bhūtanāsmabhyam āpaḥ ||हि॒नोत॑ । नः॒ । अ॒ध्व॒रम् । दे॒व॒ऽय॒ज्या । हि॒नोत॑ । ब्रह्म॑ । स॒नये॑ । धना॑नाम् ।
ऋ॒तस्य॑ । योगे॑ । वि । स्य॒ध्व॒म् । ऊधः॑ । श्रु॒ष्टी॒ऽवरीः॑ । भू॒त॒न॒ । अ॒स्मभ्य॑म् । आ॒पः॒ ॥हिनोत । नः । अध्वरम् । देवऽयज्या । हिनोत । ब्रह्म । सनये । धनानाम् ।
ऋतस्य । योगे । वि । स्यध्वम् । ऊधः । श्रुष्टीऽवरीः । भूतन । अस्मभ्यम् । आपः ॥hinóta ǀ naḥ ǀ adhvarám ǀ deva-yajyā́ ǀ hinóta ǀ bráhma ǀ sanáye ǀ dhánānām ǀ
ṛtásya ǀ yóge ǀ ví ǀ syadhvam ǀ ū́dhaḥ ǀ śruṣṭī-várīḥ ǀ bhūtana ǀ asmábhyam ǀ āpaḥ ǁhinota ǀ naḥ ǀ adhvaram ǀ deva-yajyā ǀ hinota ǀ brahma ǀ sanaye ǀ dhanānām ǀ
ṛtasya ǀ yoge ǀ vi ǀ syadhvam ǀ ūdhaḥ ǀ śruṣṭī-varīḥ ǀ bhūtana ǀ asmabhyam ǀ āpaḥ ǁ10.30.11 Aṣṭaka 7.7.26.1Anuvāka 10.3.11
-
Ṛk 12
आपो॑ रेवतीः॒ क्षय॑था॒ हि वस्वः॒ क्रतुं॑ च भ॒द्रं बि॑भृ॒थामृतं॑ च ।
रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नीः॒ सर॑स्वती॒ तद्गृ॑ण॒ते वयो॑ धात् ॥आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रम् बिभृथामृतं च |
रायश् च स्थ स्वपत्यस्य पत्नीः सरस्वती तद् गृणते वयो धात् ||ā́po revatīḥ kṣáyathā hí vásvaḥ krátum ca bhadrám bibhṛthā́mṛ́tam ca ǀ
rāyáśca sthá svapatyásya pátnīḥ sárasvatī tádgṛṇaté váyo dhāt ǁāpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadram bibhṛthāmṛtaṃ ca |
rāyaś ca stha svapatyasya patnīḥ sarasvatī tad gṛṇate vayo dhāt ||आपः॑ । रे॒व॒तीः॒ । क्षय॑थ । हि । वस्वः॑ । क्रतु॑म् । च॒ । भ॒द्रम् । बि॒भृ॒थ । अ॒मृत॑म् । च॒ ।
रा॒यः । च॒ । स्थ । सु॒ऽअ॒प॒त्यस्य॑ । पत्नीः॑ । सर॑स्वती । तत् । गृ॒ण॒ते । वयः॑ । धा॒त् ॥आपः । रेवतीः । क्षयथ । हि । वस्वः । क्रतुम् । च । भद्रम् । बिभृथ । अमृतम् । च ।
रायः । च । स्थ । सुऽअपत्यस्य । पत्नीः । सरस्वती । तत् । गृणते । वयः । धात् ॥ā́paḥ ǀ revatīḥ ǀ kṣáyatha ǀ hí ǀ vásvaḥ ǀ krátum ǀ ca ǀ bhadrám ǀ bibhṛthá ǀ amṛ́tam ǀ ca ǀ
rāyáḥ ǀ ca ǀ sthá ǀ su-apatyásya ǀ pátnīḥ ǀ sárasvatī ǀ tát ǀ gṛṇaté ǀ váyaḥ ǀ dhāt ǁāpaḥ ǀ revatīḥ ǀ kṣayatha ǀ hi ǀ vasvaḥ ǀ kratum ǀ ca ǀ bhadram ǀ bibhṛtha ǀ amṛtam ǀ ca ǀ
rāyaḥ ǀ ca ǀ stha ǀ su-apatyasya ǀ patnīḥ ǀ sarasvatī ǀ tat ǀ gṛṇate ǀ vayaḥ ǀ dhāt ǁ10.30.12 Aṣṭaka 7.7.26.2Anuvāka 10.3.12
-
Ṛk 13
प्रति॒ यदापो॒ अदृ॑श्रमाय॒तीर्घृ॒तं पयां॑सि॒ बिभ्र॑ती॒र्मधू॑नि ।
अ॒ध्व॒र्युभि॒र्मन॑सा संविदा॒ना इंद्रा॑य॒ सोमं॒ सुषु॑तं॒ भरं॑तीः ॥प्रति यद् आपो अदृश्रम् आयतीर् घृतम् पयांसि बिभ्रतीर् मधूनि |
अध्वर्युभिर् मनसा संविदाना इन्द्राय सोमं सुषुतम् भरन्तीः ||práti yádā́po ádṛśramāyatī́rghṛtám páyāṃsi bíbhratīrmádhūni ǀ
adhvaryúbhirmánasā saṃvidānā́ índrāya sómam súṣutam bhárantīḥ ǁprati yad āpo adṛśram āyatīr ghṛtam payāṃsi bibhratīr madhūni |
adhvaryubhir manasā saṃvidānā indrāya somaṃ suṣutam bharantīḥ ||प्रति॑ । यत् । आपः॑ । अदृ॑श्रम् । आ॒ऽय॒तीः । घृ॒तम् । पयां॑सि । बिभ्र॑तीः । मधू॑नि ।
अ॒ध्व॒र्युऽभिः॑ । मन॑सा । स॒म्ऽवि॒दा॒नाः । इन्द्रा॑य । सोम॑म् । सुऽसु॑तम् । भर॑न्तीः ॥प्रति । यत् । आपः । अदृश्रम् । आऽयतीः । घृतम् । पयांसि । बिभ्रतीः । मधूनि ।
अध्वर्युऽभिः । मनसा । सम्ऽविदानाः । इन्द्राय । सोमम् । सुऽसुतम् । भरन्तीः ॥práti ǀ yát ǀ ā́paḥ ǀ ádṛśram ǀ ā-yatī́ḥ ǀ ghṛtám ǀ páyāṃsi ǀ bíbhratīḥ ǀ mádhūni ǀ
adhvaryú-bhiḥ ǀ mánasā ǀ sam-vidānā́ḥ ǀ índrāya ǀ sómam ǀ sú-sutam ǀ bhárantīḥ ǁprati ǀ yat ǀ āpaḥ ǀ adṛśram ǀ ā-yatīḥ ǀ ghṛtam ǀ payāṃsi ǀ bibhratīḥ ǀ madhūni ǀ
adhvaryu-bhiḥ ǀ manasā ǀ sam-vidānāḥ ǀ indrāya ǀ somam ǀ su-sutam ǀ bharantīḥ ǁ10.30.13 Aṣṭaka 7.7.26.3Anuvāka 10.3.13
-
Ṛk 14
एमा अ॑ग्मन्रे॒वती॑र्जी॒वध॑न्या॒ अध्व॑र्यवः सा॒दय॑ता सखायः ।
नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा॑ संविदा॒नास॑ एनाः ॥एमा अग्मन् रेवतीर् जीवधन्या अध्वर्यवः सादयता सखायः |
नि बर्हिषि धत्तन सोम्यासो ऽपां नप्त्रा संविदानास एनाः ||émā́ agmanrevátīrjīvádhanyā ádhvaryavaḥ sādáyatā sakhāyaḥ ǀ
ní barhíṣi dhattana somyāso’pā́m náptrā saṃvidānā́sa enāḥ ǁemā agman revatīr jīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ |
ni barhiṣi dhattana somyāso 'pāṃ naptrā saṃvidānāsa enāḥ ||आ । इ॒माः । अ॒ग्म॒न् । रे॒वतीः॑ । जी॒वऽध॑न्याः । अध्व॑र्यवः । सा॒दय॑त । स॒खा॒यः॒ ।
नि । ब॒र्हिषि॑ । ध॒त्त॒न॒ । सो॒म्या॒सः॒ । अ॒पाम् । नप्त्रा॑ । स॒म्ऽवि॒दा॒नासः॑ । ए॒नाः॒ ॥आ । इमाः । अग्मन् । रेवतीः । जीवऽधन्याः । अध्वर्यवः । सादयत । सखायः ।
नि । बर्हिषि । धत्तन । सोम्यासः । अपाम् । नप्त्रा । सम्ऽविदानासः । एनाः ॥ā́ ǀ imā́ḥ ǀ agman ǀ revátīḥ ǀ jīvá-dhanyāḥ ǀ ádhvaryavaḥ ǀ sādáyata ǀ sakhāyaḥ ǀ
ní ǀ barhíṣi ǀ dhattana ǀ somyāsaḥ ǀ apā́m ǀ náptrā ǀ sam-vidānā́saḥ ǀ enāḥ ǁā ǀ imāḥ ǀ agman ǀ revatīḥ ǀ jīva-dhanyāḥ ǀ adhvaryavaḥ ǀ sādayata ǀ sakhāyaḥ ǀ
ni ǀ barhiṣi ǀ dhattana ǀ somyāsaḥ ǀ apām ǀ naptrā ǀ sam-vidānāsaḥ ǀ enāḥ ǁ10.30.14 Aṣṭaka 7.7.26.4Anuvāka 10.3.14
-
Ṛk 15
आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे अ॑सदंदेव॒यंतीः॑ ।
अध्व॑र्यवः सुनु॒तेंद्रा॑य॒ सोम॒मभू॑दु वः सु॒शका॑ देवय॒ज्या ॥आग्मन्न् आप उशतीर् बर्हिर् एदं न्य् अध्वरे असदन् देवयन्तीः |
अध्वर्यवः सुनुतेन्द्राय सोमम् अभूद् उ वः सुशका देवयज्या ||ā́gmannā́pa uśatī́rbarhírédám nyádhvaré asadandevayántīḥ ǀ
ádhvaryavaḥ sunuténdrāya sómamábhūdu vaḥ suśákā devayajyā́ ǁāgmann āpa uśatīr barhir edaṃ ny adhvare asadan devayantīḥ |
adhvaryavaḥ sunutendrāya somam abhūd u vaḥ suśakā devayajyā ||आ । अ॒ग्म॒न् । आपः॑ । उ॒श॒तीः । ब॒र्हिः । आ । इ॒दम् । नि । अ॒ध्व॒रे । अ॒स॒द॒न् । दे॒व॒ऽयन्तीः॑ ।
अध्व॑र्यवः । सु॒नु॒त । इन्द्रा॑य । सोम॑म् । अभू॑त् । ऊं॒ इति॑ । वः॒ । सु॒ऽशका॑ । दे॒व॒ऽय॒ज्या ॥आ । अग्मन् । आपः । उशतीः । बर्हिः । आ । इदम् । नि । अध्वरे । असदन् । देवऽयन्तीः ।
अध्वर्यवः । सुनुत । इन्द्राय । सोमम् । अभूत् । ऊं इति । वः । सुऽशका । देवऽयज्या ॥ā́ ǀ agman ǀ ā́paḥ ǀ uśatī́ḥ ǀ barhíḥ ǀ ā́ ǀ idám ǀ ní ǀ adhvaré ǀ asadan ǀ deva-yántīḥ ǀ
ádhvaryavaḥ ǀ sunutá ǀ índrāya ǀ sómam ǀ ábhūt ǀ ūṃ íti ǀ vaḥ ǀ su-śákā ǀ deva-yajyā́ ǁā ǀ agman ǀ āpaḥ ǀ uśatīḥ ǀ barhiḥ ǀ ā ǀ idam ǀ ni ǀ adhvare ǀ asadan ǀ deva-yantīḥ ǀ
adhvaryavaḥ ǀ sunuta ǀ indrāya ǀ somam ǀ abhūt ǀ ūṃ iti ǀ vaḥ ǀ su-śakā ǀ deva-yajyā ǁ10.30.15 Aṣṭaka 7.7.26.5Anuvāka 10.3.15
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.