Sūkta 126
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kulmalabarhiṣa Śailūṣi Or Aṃhomuc Vāmadevya
- Chandas छन्दस्
- Upariṣṭādbṛhatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛdbṛhatī (1, 5, 6); virāḍbṛhatī (2-4); bṛhatī (7); ārcīsvarāṭtriṣṭup (8)
2nd set of styles upariṣṭādbṛhatī (1-7); triṣṭubh (8)
-
Ṛk 1
न तमंहो॒ न दु॑रि॒तं देवा॑सो अष्ट॒ मर्त्यं॑ ।
स॒जोष॑सो॒ यम॑र्य॒मा मि॒त्रो नयं॑ति॒ वरु॑णो॒ अति॒ द्विषः॑ ॥न तम् अंहो न दुरितं देवासो अष्ट मर्त्यम् |
सजोषसो यम् अर्यमा मित्रो नयन्ति वरुणो अति द्विषः ||ná támáṃho ná duritám dévāso aṣṭa mártyam ǀ
sajóṣaso yámaryamā́ mitró náyanti váruṇo áti dvíṣaḥ ǁna tam aṃho na duritaṃ devāso aṣṭa martyam |
sajoṣaso yam aryamā mitro nayanti varuṇo ati dviṣaḥ ||न । तम् । अंहः॑ । न । दुः॒ऽइ॒तम् । देवा॑सः । अ॒ष्ट॒ । मर्त्य॑म् ।
स॒ऽजोष॑सः । यम् । अ॒र्य॒मा । मि॒त्रः । नय॑न्ति । वरु॑णः । अति॑ । द्विषः॑ ॥न । तम् । अंहः । न । दुःऽइतम् । देवासः । अष्ट । मर्त्यम् ।
सऽजोषसः । यम् । अर्यमा । मित्रः । नयन्ति । वरुणः । अति । द्विषः ॥ná ǀ tám ǀ áṃhaḥ ǀ ná ǀ duḥ-itám ǀ dévāsaḥ ǀ aṣṭa ǀ mártyam ǀ
sa-jóṣasaḥ ǀ yám ǀ aryamā́ ǀ mitráḥ ǀ náyanti ǀ váruṇaḥ ǀ áti ǀ dvíṣaḥ ǁna ǀ tam ǀ aṃhaḥ ǀ na ǀ duḥ-itam ǀ devāsaḥ ǀ aṣṭa ǀ martyam ǀ
sa-joṣasaḥ ǀ yam ǀ aryamā ǀ mitraḥ ǀ nayanti ǀ varuṇaḥ ǀ ati ǀ dviṣaḥ ǁ10.126.1 Aṣṭaka 8.7.13.1Anuvāka 10.10.122
-
Ṛk 2
तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् ।
येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः॑ ॥तद् धि वयं वृणीमहे वरुण मित्रार्यमन् |
येना निर् अंहसो यूयम् पाथ नेथा च मर्त्यम् अति द्विषः ||táddhí vayám vṛṇīmáhe váruṇa mítrā́ryaman ǀ
yénā níráṃhaso yūyám pāthá nethā́ ca mártyamáti dvíṣaḥ ǁtad dhi vayaṃ vṛṇīmahe varuṇa mitrāryaman |
yenā nir aṃhaso yūyam pātha nethā ca martyam ati dviṣaḥ ||तत् । हि । व॒यम् । वृ॒णी॒महे॑ । वरु॑ण । मित्र॑ । अर्य॑मन् ।
येन॑ । निः । अंह॑सः । यू॒यम् । पा॒थ । ने॒थ । च॒ । मर्त्य॑म् । अति॑ । द्विषः॑ ॥तत् । हि । वयम् । वृणीमहे । वरुण । मित्र । अर्यमन् ।
येन । निः । अंहसः । यूयम् । पाथ । नेथ । च । मर्त्यम् । अति । द्विषः ॥tát ǀ hí ǀ vayám ǀ vṛṇīmáhe ǀ váruṇa ǀ mítra ǀ áryaman ǀ
yéna ǀ níḥ ǀ áṃhasaḥ ǀ yūyám ǀ pāthá ǀ nethá ǀ ca ǀ mártyam ǀ áti ǀ dvíṣaḥ ǁtat ǀ hi ǀ vayam ǀ vṛṇīmahe ǀ varuṇa ǀ mitra ǀ aryaman ǀ
yena ǀ niḥ ǀ aṃhasaḥ ǀ yūyam ǀ pātha ǀ netha ǀ ca ǀ martyam ǀ ati ǀ dviṣaḥ ǁ10.126.2 Aṣṭaka 8.7.13.2Anuvāka 10.10.123
-
Ṛk 3
ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
नयि॑ष्ठा उ नो ने॒षणि॒ पर्षि॑ष्ठा उ नः प॒र्षण्यति॒ द्विषः॑ ॥ते नूनं नो ऽयम् ऊतये वरुणो मित्रो अर्यमा |
नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्य् अति द्विषः ||té nūnám no’yámūtáye váruṇo mitró aryamā́ ǀ
náyiṣṭhā u no neṣáṇi párṣiṣṭhā u naḥ parṣáṇyáti dvíṣaḥ ǁte nūnaṃ no 'yam ūtaye varuṇo mitro aryamā |
nayiṣṭhā u no neṣaṇi parṣiṣṭhā u naḥ parṣaṇy ati dviṣaḥ ||ते । नू॒नम् । नः॒ । अ॒यम् । ऊ॒तये॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
नयि॑ष्ठाः । ऊं॒ इति॑ । नः॒ । ने॒षणि॑ । पर्षि॑ष्ठाः । ऊं॒ इति॑ । नः॒ । प॒र्षणि॑ । अति॑ । द्विषः॑ ॥ते । नूनम् । नः । अयम् । ऊतये । वरुणः । मित्रः । अर्यमा ।
नयिष्ठाः । ऊं इति । नः । नेषणि । पर्षिष्ठाः । ऊं इति । नः । पर्षणि । अति । द्विषः ॥té ǀ nūnám ǀ naḥ ǀ ayám ǀ ūtáye ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ
náyiṣṭhāḥ ǀ ūṃ íti ǀ naḥ ǀ neṣáṇi ǀ párṣiṣṭhāḥ ǀ ūṃ íti ǀ naḥ ǀ parṣáṇi ǀ áti ǀ dvíṣaḥ ǁte ǀ nūnam ǀ naḥ ǀ ayam ǀ ūtaye ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ
nayiṣṭhāḥ ǀ ūṃ iti ǀ naḥ ǀ neṣaṇi ǀ parṣiṣṭhāḥ ǀ ūṃ iti ǀ naḥ ǀ parṣaṇi ǀ ati ǀ dviṣaḥ ǁ10.126.3 Aṣṭaka 8.7.13.3Anuvāka 10.10.124
-
Ṛk 4
यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विषः॑ ॥यूयं विश्वम् परि पाथ वरुणो मित्रो अर्यमा |
युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयो ऽति द्विषः ||yūyám víśvam pári pātha váruṇo mitró aryamā́ ǀ
yuṣmā́kam śármaṇi priyé syā́ma supraṇītayó’ti dvíṣaḥ ǁyūyaṃ viśvam pari pātha varuṇo mitro aryamā |
yuṣmākaṃ śarmaṇi priye syāma supraṇītayo 'ti dviṣaḥ ||यू॒यम् । विश्व॑म् । परि॑ । पा॒थ॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
यु॒ष्माक॑म् । शर्म॑णि । प्रि॒ये । स्याम॑ । सु॒ऽप्र॒नी॒त॒यः॒ । अति॑ । द्विषः॑ ॥यूयम् । विश्वम् । परि । पाथ । वरुणः । मित्रः । अर्यमा ।
युष्माकम् । शर्मणि । प्रिये । स्याम । सुऽप्रनीतयः । अति । द्विषः ॥yūyám ǀ víśvam ǀ pári ǀ pātha ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ
yuṣmā́kam ǀ śármaṇi ǀ priyé ǀ syā́ma ǀ su-pranītayaḥ ǀ áti ǀ dvíṣaḥ ǁyūyam ǀ viśvam ǀ pari ǀ pātha ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ
yuṣmākam ǀ śarmaṇi ǀ priye ǀ syāma ǀ su-pranītayaḥ ǀ ati ǀ dviṣaḥ ǁ10.126.4 Aṣṭaka 8.7.13.4Anuvāka 10.10.125
-
Ṛk 5
आ॒दि॒त्यासो॒ अति॒ स्रिधो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
उ॒ग्रं म॒रुद्भी॑ रु॒द्रं हु॑वे॒मेंद्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विषः॑ ॥आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा |
उग्रम् मरुद्भी रुद्रं हुवेमेन्द्रम् अग्निं स्वस्तये ऽति द्विषः ||ādityā́so áti srídho váruṇo mitró aryamā́ ǀ
ugrám marúdbhī rudrám huveméndramagním svastáyé’ti dvíṣaḥ ǁādityāso ati sridho varuṇo mitro aryamā |
ugram marudbhī rudraṃ huvemendram agniṃ svastaye 'ti dviṣaḥ ||आ॒दि॒त्यासः॑ । अति॑ । स्रिधः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
उ॒ग्रम् । म॒रुत्ऽभिः॑ । रु॒द्रम् । हु॒वे॒म॒ । इन्द्र॑म् । अ॒ग्निम् । स्व॒स्तये॑ । अति॑ । द्विषः॑ ॥आदित्यासः । अति । स्रिधः । वरुणः । मित्रः । अर्यमा ।
उग्रम् । मरुत्ऽभिः । रुद्रम् । हुवेम । इन्द्रम् । अग्निम् । स्वस्तये । अति । द्विषः ॥ādityā́saḥ ǀ áti ǀ srídhaḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ
ugrám ǀ marút-bhiḥ ǀ rudrám ǀ huvema ǀ índram ǀ agním ǀ svastáye ǀ áti ǀ dvíṣaḥ ǁādityāsaḥ ǀ ati ǀ sridhaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ
ugram ǀ marut-bhiḥ ǀ rudram ǀ huvema ǀ indram ǀ agnim ǀ svastaye ǀ ati ǀ dviṣaḥ ǁ10.126.5 Aṣṭaka 8.7.13.5Anuvāka 10.10.126
-
Ṛk 6
नेता॑र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो अ॑र्य॒मा ।
अति॒ विश्वा॑नि दुरि॒ता राजा॑नश्चर्षणी॒नामति॒ द्विषः॑ ॥नेतार ऊ षु णस् तिरो वरुणो मित्रो अर्यमा |
अति विश्वानि दुरिता राजानश् चर्षणीनाम् अति द्विषः ||nétāra ū ṣú ṇastiró váruṇo mitró aryamā́ ǀ
áti víśvāni duritā́ rā́jānaścarṣaṇīnā́máti dvíṣaḥ ǁnetāra ū ṣu ṇas tiro varuṇo mitro aryamā |
ati viśvāni duritā rājānaś carṣaṇīnām ati dviṣaḥ ||नेता॑रः । ऊं॒ इति॑ । सु । नः॒ । ति॒रः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । राजा॑नः । च॒र्ष॒णी॒नाम् । अति॑ । द्विषः॑ ॥नेतारः । ऊं इति । सु । नः । तिरः । वरुणः । मित्रः । अर्यमा ।
अति । विश्वानि । दुःऽइता । राजानः । चर्षणीनाम् । अति । द्विषः ॥nétāraḥ ǀ ūṃ íti ǀ sú ǀ naḥ ǀ tiráḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ
áti ǀ víśvāni ǀ duḥ-itā́ ǀ rā́jānaḥ ǀ carṣaṇīnā́m ǀ áti ǀ dvíṣaḥ ǁnetāraḥ ǀ ūṃ iti ǀ su ǀ naḥ ǀ tiraḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ
ati ǀ viśvāni ǀ duḥ-itā ǀ rājānaḥ ǀ carṣaṇīnām ǀ ati ǀ dviṣaḥ ǁ10.126.6 Aṣṭaka 8.7.13.6Anuvāka 10.10.127
-
Ṛk 7
शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
शर्म॑ यच्छंतु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒ अति॒ द्विषः॑ ॥शुनम् अस्मभ्यम् ऊतये वरुणो मित्रो अर्यमा |
शर्म यच्छन्तु सप्रथ आदित्यासो यद् ईमहे अति द्विषः ||śunámasmábhyamūtáye váruṇo mitró aryamā́ ǀ
śárma yacchantu saprátha ādityā́so yádī́mahe áti dvíṣaḥ ǁśunam asmabhyam ūtaye varuṇo mitro aryamā |
śarma yacchantu sapratha ādityāso yad īmahe ati dviṣaḥ ||शु॒नम् । अ॒स्मभ्य॑म् । ऊ॒तये॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
शर्म॑ । य॒च्छ॒न्तु॒ । स॒ऽप्रथः॑ । आ॒दि॒त्यासः॑ । यत् । ईम॑हे । अति॑ । द्विषः॑ ॥शुनम् । अस्मभ्यम् । ऊतये । वरुणः । मित्रः । अर्यमा ।
शर्म । यच्छन्तु । सऽप्रथः । आदित्यासः । यत् । ईमहे । अति । द्विषः ॥śunám ǀ asmábhyam ǀ ūtáye ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ
śárma ǀ yacchantu ǀ sa-práthaḥ ǀ ādityā́saḥ ǀ yát ǀ ī́mahe ǀ áti ǀ dvíṣaḥ ǁśunam ǀ asmabhyam ǀ ūtaye ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ
śarma ǀ yacchantu ǀ sa-prathaḥ ǀ ādityāsaḥ ǀ yat ǀ īmahe ǀ ati ǀ dviṣaḥ ǁ10.126.7 Aṣṭaka 8.7.13.7Anuvāka 10.10.128
-
Ṛk 8
यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममुं॑चता यजत्राः ।
ए॒वो ष्व१॒॑स्मन्मुं॑चता॒ व्यंहः॒ प्र ता॑र्यग्ने प्रत॒रं न॒ आयुः॑ ॥यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः |
एवो ष्व् अस्मन् मुञ्चता व्य् अंहः प्र तार्य् अग्ने प्रतरं न आयुः ||yáthā ha tyádvasavo gauryám citpadí ṣitā́mámuñcatā yajatrāḥ ǀ
evó ṣvásmánmuñcatā vyáṃhaḥ prá tāryagne pratarám na ā́yuḥ ǁyathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ |
evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ ||यथा॑ । ह॒ । त्यत् । व॒स॒वः॒ । गौ॒र्य॑म् । चि॒त् । प॒दि । सि॒ताम् । अमु॑ञ्चत । य॒ज॒त्राः॒ ।
ए॒वो इति॑ । सु । अ॒स्मत् । मु॒ञ्च॒त॒ । वि । अंहः॑ । प्र । ता॒रि॒ । अ॒ग्ने॒ । प्र॒ऽत॒रम् । नः॒ । आयुः॑ ॥यथा । ह । त्यत् । वसवः । गौर्यम् । चित् । पदि । सिताम् । अमुञ्चत । यजत्राः ।
एवो इति । सु । अस्मत् । मुञ्चत । वि । अंहः । प्र । तारि । अग्ने । प्रऽतरम् । नः । आयुः ॥yáthā ǀ ha ǀ tyát ǀ vasavaḥ ǀ gauryám ǀ cit ǀ padí ǀ sitā́m ǀ ámuñcata ǀ yajatrāḥ ǀ
evó íti ǀ sú ǀ asmát ǀ muñcata ǀ ví ǀ áṃhaḥ ǀ prá ǀ tāri ǀ agne ǀ pra-tarám ǀ naḥ ǀ ā́yuḥ ǁyathā ǀ ha ǀ tyat ǀ vasavaḥ ǀ gauryam ǀ cit ǀ padi ǀ sitām ǀ amuñcata ǀ yajatrāḥ ǀ
evo iti ǀ su ǀ asmat ǀ muñcata ǀ vi ǀ aṃhaḥ ǀ pra ǀ tāri ǀ agne ǀ pra-taram ǀ naḥ ǀ āyuḥ ǁ10.126.8 Aṣṭaka 8.7.13.8Anuvāka 10.10.129
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.