Ṛgveda · Maṇḍala 10 · Sūkta 126
Ṛk 10.126.2
Saṃhitā
तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् ।
येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः॑ ॥
तद् धि वयं वृणीमहे वरुण मित्रार्यमन् |
येना निर् अंहसो यूयम् पाथ नेथा च मर्त्यम् अति द्विषः ||
táddhí vayám vṛṇīmáhe váruṇa mítrā́ryaman ǀ
yénā níráṃhaso yūyám pāthá nethā́ ca mártyamáti dvíṣaḥ ǁ
tad dhi vayaṃ vṛṇīmahe varuṇa mitrāryaman |
yenā nir aṃhaso yūyam pātha nethā ca martyam ati dviṣaḥ ||
Padapāṭha
तत् । हि । व॒यम् । वृ॒णी॒महे॑ । वरु॑ण । मित्र॑ । अर्य॑मन् ।
येन॑ । निः । अंह॑सः । यू॒यम् । पा॒थ । ने॒थ । च॒ । मर्त्य॑म् । अति॑ । द्विषः॑ ॥
तत् । हि । वयम् । वृणीमहे । वरुण । मित्र । अर्यमन् ।
येन । निः । अंहसः । यूयम् । पाथ । नेथ । च । मर्त्यम् । अति । द्विषः ॥
tát ǀ hí ǀ vayám ǀ vṛṇīmáhe ǀ váruṇa ǀ mítra ǀ áryaman ǀ
yéna ǀ níḥ ǀ áṃhasaḥ ǀ yūyám ǀ pāthá ǀ nethá ǀ ca ǀ mártyam ǀ áti ǀ dvíṣaḥ ǁ
tat ǀ hi ǀ vayam ǀ vṛṇīmahe ǀ varuṇa ǀ mitra ǀ aryaman ǀ
yena ǀ niḥ ǀ aṃhasaḥ ǀ yūyam ǀ pātha ǀ netha ǀ ca ǀ martyam ǀ ati ǀ dviṣaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.126.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.13.02
- Maṇḍala · Anuvāka · Ṛk
- 10.10.123
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kulmalabarhiṣa Śailūṣi Or Aṃhomuc Vāmadevya
- Chandas छन्दस्
- Upariṣṭādbṛhatī, Triṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.