Ṛgveda · Maṇḍala 10

Sūkta 54

Indra · Bṛhaduktha Vāmadevya · 6 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Bṛhaduktha Vāmadevya
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles triṣṭup (1, 6); svarāḍārcītriṣṭup (3, 4); virāṭtrisṭup (2); pādanicṛttriṣṭup (5)

2nd set of styles triṣṭubh

  1. Ṛk 1

    तां सु ते॑ की॒र्तिं म॑घवन्महि॒त्वा यत्त्वा॑ भी॒ते रोद॑सी॒ अह्व॑येतां ।
    प्रावो॑ दे॒वाँ आति॑रो॒ दास॒मोजः॑ प्र॒जायै॑ त्वस्यै॒ यदशि॑क्ष इंद्र ॥

    तां सु ते कीर्तिम् मघवन् महित्वा यत् त्वा भीते रोदसी अह्वयेताम् |
    प्रावो देवां आतिरो दासम् ओजः प्रजायै त्वस्यै यद् अशिक्ष इन्द्र ||

    tā́m sú te kīrtím maghavanmahitvā́ yáttvā bhīté ródasī áhvayetām ǀ
    prā́vo devā́m̐ ā́tiro dā́samójaḥ prajā́yai tvasyai yádáśikṣa indra ǁ

    tāṃ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām |
    prāvo devāṃ ātiro dāsam ojaḥ prajāyai tvasyai yad aśikṣa indra ||

    ताम् । सु । ते॒ । की॒र्तिम् । म॒घ॒ऽव॒न् । म॒हि॒ऽत्वा । यत् । त्वा॒ । भी॒ते इति॑ । रोद॑सी॒ इति॑ । अह्व॑येताम् ।
    प्र । आ॒वः॒ । दे॒वान् । आ । अ॒ति॒रः॒ । दास॑म् । ओजः॑ । प्र॒ऽजायै॑ । त्व॒स्यै॒ । यत् । अशि॑क्षः । इ॒न्द्र॒ ॥

    ताम् । सु । ते । कीर्तिम् । मघऽवन् । महिऽत्वा । यत् । त्वा । भीते इति । रोदसी इति । अह्वयेताम् ।
    प्र । आवः । देवान् । आ । अतिरः । दासम् । ओजः । प्रऽजायै । त्वस्यै । यत् । अशिक्षः । इन्द्र ॥

    tā́m ǀ sú ǀ te ǀ kīrtím ǀ magha-van ǀ mahi-tvā́ ǀ yát ǀ tvā ǀ bhīté íti ǀ ródasī íti ǀ áhvayetām ǀ
    prá ǀ āvaḥ ǀ devā́n ǀ ā́ ǀ atiraḥ ǀ dā́sam ǀ ójaḥ ǀ pra-jā́yai ǀ tvasyai ǀ yát ǀ áśikṣaḥ ǀ indra ǁ

    tām ǀ su ǀ te ǀ kīrtim ǀ magha-van ǀ mahi-tvā ǀ yat ǀ tvā ǀ bhīte iti ǀ rodasī iti ǀ ahvayetām ǀ
    pra ǀ āvaḥ ǀ devān ǀ ā ǀ atiraḥ ǀ dāsam ǀ ojaḥ ǀ pra-jāyai ǀ tvasyai ǀ yat ǀ aśikṣaḥ ǀ indra ǁ

    10.54.1 Aṣṭaka 8.1.15.1Anuvāka 10.4.108

  2. Ṛk 2

    यदच॑रस्त॒न्वा॑ वावृधा॒नो बला॑नींद्र प्रब्रुवा॒णो जने॑षु ।
    मा॒येत्सा ते॒ यानि॑ यु॒द्धान्या॒हुर्नाद्य शत्रुं॑ न॒नु पु॒रा वि॑वित्से ॥

    यद् अचरस् तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु |
    मायेत् सा ते यानि युद्धान्य् आहुर् नाद्य शत्रुं ननु पुरा विवित्से ||

    yádácarastanvā́ vāvṛdhānó bálānīndra prabruvāṇó jáneṣu ǀ
    māyétsā́ te yā́ni yuddhā́nyāhúrnā́dyá śátrum nanú purā́ vivitse ǁ

    yad acaras tanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu |
    māyet sā te yāni yuddhāny āhur nādya śatruṃ nanu purā vivitse ||

    यत् । अच॑रः । त॒न्वा॑ । व॒वृ॒धा॒नः । बला॑नि । इ॒न्द्र॒ । प्र॒ऽब्रु॒वा॒णः । जने॑षु ।
    मा॒या । इत् । सा । ते॒ । यानि॑ । यु॒द्धानि॑ । आ॒हुः । न । अ॒द्य । शत्रु॑म् । न॒नु । पु॒रा । वि॒वि॒त्से॒ ॥

    यत् । अचरः । तन्वा । ववृधानः । बलानि । इन्द्र । प्रऽब्रुवाणः । जनेषु ।
    माया । इत् । सा । ते । यानि । युद्धानि । आहुः । न । अद्य । शत्रुम् । ननु । पुरा । विवित्से ॥

    yát ǀ ácaraḥ ǀ tanvā́ ǀ vavṛdhānáḥ ǀ bálāni ǀ indra ǀ pra-bruvāṇáḥ ǀ jáneṣu ǀ
    māyā́ ǀ ít ǀ sā́ ǀ te ǀ yā́ni ǀ yuddhā́ni ǀ āhúḥ ǀ ná ǀ adyá ǀ śátrum ǀ nanú ǀ purā́ ǀ vivitse ǁ

    yat ǀ acaraḥ ǀ tanvā ǀ vavṛdhānaḥ ǀ balāni ǀ indra ǀ pra-bruvāṇaḥ ǀ janeṣu ǀ
    māyā ǀ it ǀ sā ǀ te ǀ yāni ǀ yuddhāni ǀ āhuḥ ǀ na ǀ adya ǀ śatrum ǀ nanu ǀ purā ǀ vivitse ǁ

    10.54.2 Aṣṭaka 8.1.15.2Anuvāka 10.4.109

  3. Ṛk 3

    क उ॒ नु ते॑ महि॒मनः॑ समस्या॒स्मत्पूर्व॒ ऋष॒योऽंत॑मापुः ।
    यन्मा॒तरं॑ च पि॒तरं॑ च सा॒कमज॑नयथास्त॒न्वः१॒॑ स्वायाः॑ ॥

    क उ नु ते महिमनः समस्यास्मत् पूर्व ऋषयो ऽन्तम् आपुः |
    यन् मातरं च पितरं च साकम् अजनयथास् तन्वः स्वायाः ||

    ká u nú te mahimánaḥ samasyāsmátpū́rva ṛ́ṣayó’ntamāpuḥ ǀ
    yánmātáram ca pitáram ca sākámájanayathāstanváḥ svā́yāḥ ǁ

    ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo 'ntam āpuḥ |
    yan mātaraṃ ca pitaraṃ ca sākam ajanayathās tanvaḥ svāyāḥ ||

    के । ऊं॒ इति॑ । नु । ते॒ । म॒हि॒मनः॑ । स॒म॒स्य॒ । अ॒स्मत् । पूर्वे॑ । ऋष॑यः । अन्त॑म् । आ॒पुः॒ ।
    यत् । मा॒तर॑म् । च॒ । पि॒तर॑म् । च॒ । सा॒कम् । अज॑नयथाः । त॒न्वः॑ । स्वायाः॑ ॥

    के । ऊं इति । नु । ते । महिमनः । समस्य । अस्मत् । पूर्वे । ऋषयः । अन्तम् । आपुः ।
    यत् । मातरम् । च । पितरम् । च । साकम् । अजनयथाः । तन्वः । स्वायाः ॥

    ké ǀ ūṃ íti ǀ nú ǀ te ǀ mahimánaḥ ǀ samasya ǀ asmát ǀ pū́rve ǀ ṛ́ṣayaḥ ǀ ántam ǀ āpuḥ ǀ
    yát ǀ mātáram ǀ ca ǀ pitáram ǀ ca ǀ sākám ǀ ájanayathāḥ ǀ tanváḥ ǀ svā́yāḥ ǁ

    ke ǀ ūṃ iti ǀ nu ǀ te ǀ mahimanaḥ ǀ samasya ǀ asmat ǀ pūrve ǀ ṛṣayaḥ ǀ antam ǀ āpuḥ ǀ
    yat ǀ mātaram ǀ ca ǀ pitaram ǀ ca ǀ sākam ǀ ajanayathāḥ ǀ tanvaḥ ǀ svāyāḥ ǁ

    10.54.3 Aṣṭaka 8.1.15.3Anuvāka 10.4.110

  4. Ṛk 4

    च॒त्वारि॑ ते असु॒र्या॑णि॒ नामादा॑भ्यानि महि॒षस्य॑ संति ।
    त्वमं॒ग तानि॒ विश्वा॑नि वित्से॒ येभिः॒ कर्मा॑णि मघवंच॒कर्थ॑ ॥

    चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति |
    त्वम् अङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ् चकर्थ ||

    catvā́ri te asuryā́ṇi nā́mā́dābhyāni mahiṣásya santi ǀ
    tvámaṅgá tā́ni víśvāni vitse yébhiḥ kármāṇi maghavañcakártha ǁ

    catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi |
    tvam aṅga tāni viśvāni vitse yebhiḥ karmāṇi maghavañ cakartha ||

    च॒त्वारि॑ । ते॒ । अ॒सु॒र्या॑णि । नाम॑ । अदा॑भ्यानि । म॒हि॒षस्य॑ । स॒न्ति॒ ।
    त्वम् । अ॒ङ्ग । तानि॑ । विश्वा॑नि । वि॒त्से॒ । येभिः॑ । कर्मा॑णि । म॒घ॒ऽव॒न् । च॒कर्थ॑ ॥

    चत्वारि । ते । असुर्याणि । नाम । अदाभ्यानि । महिषस्य । सन्ति ।
    त्वम् । अङ्ग । तानि । विश्वानि । वित्से । येभिः । कर्माणि । मघऽवन् । चकर्थ ॥

    catvā́ri ǀ te ǀ asuryā́ṇi ǀ nā́ma ǀ ádābhyāni ǀ mahiṣásya ǀ santi ǀ
    tvám ǀ aṅgá ǀ tā́ni ǀ víśvāni ǀ vitse ǀ yébhiḥ ǀ kármāṇi ǀ magha-van ǀ cakártha ǁ

    catvāri ǀ te ǀ asuryāṇi ǀ nāma ǀ adābhyāni ǀ mahiṣasya ǀ santi ǀ
    tvam ǀ aṅga ǀ tāni ǀ viśvāni ǀ vitse ǀ yebhiḥ ǀ karmāṇi ǀ magha-van ǀ cakartha ǁ

    10.54.4 Aṣṭaka 8.1.15.4Anuvāka 10.4.111

  5. Ṛk 5

    त्वं विश्वा॑ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू॑नि ।
    काम॒मिन्मे॑ मघव॒न्मा वि ता॑री॒स्त्वमा॑ज्ञा॒ता त्वमिं॑द्रासि दा॒ता ॥

    त्वं विश्वा दधिषे केवलानि यान्य् आविर् या च गुहा वसूनि |
    कामम् इन् मे मघवन् मा वि तारीस् त्वम् आज्ञाता त्वम् इन्द्रासि दाता ||

    tvám víśvā dadhiṣe kévalāni yā́nyāvíryā́ ca gúhā vásūni ǀ
    kā́mamínme maghavanmā́ ví tārīstvámājñātā́ tvámindrāsi dātā́ ǁ

    tvaṃ viśvā dadhiṣe kevalāni yāny āvir yā ca guhā vasūni |
    kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā ||

    त्वम् । विश्वा॑ । द॒धि॒षे॒ । केव॑लानि । यानि॑ । आ॒विः । या । च॒ । गुहा॑ । वसू॑नि ।
    काम॑म् । इत् । मे॒ । म॒घ॒ऽव॒न् । मा । वि । ता॒रीः॒ । त्वम् । आ॒ऽज्ञा॒ता । त्वम् । इ॒न्द्र॒ । अ॒सि॒ । दा॒ता ॥

    त्वम् । विश्वा । दधिषे । केवलानि । यानि । आविः । या । च । गुहा । वसूनि ।
    कामम् । इत् । मे । मघऽवन् । मा । वि । तारीः । त्वम् । आऽज्ञाता । त्वम् । इन्द्र । असि । दाता ॥

    tvám ǀ víśvā ǀ dadhiṣe ǀ kévalāni ǀ yā́ni ǀ āvíḥ ǀ yā́ ǀ ca ǀ gúhā ǀ vásūni ǀ
    kā́mam ǀ ít ǀ me ǀ magha-van ǀ mā́ ǀ ví ǀ tārīḥ ǀ tvám ǀ ā-jñātā́ ǀ tvám ǀ indra ǀ asi ǀ dātā́ ǁ

    tvam ǀ viśvā ǀ dadhiṣe ǀ kevalāni ǀ yāni ǀ āviḥ ǀ yā ǀ ca ǀ guhā ǀ vasūni ǀ
    kāmam ǀ it ǀ me ǀ magha-van ǀ mā ǀ vi ǀ tārīḥ ǀ tvam ǀ ā-jñātā ǀ tvam ǀ indra ǀ asi ǀ dātā ǁ

    10.54.5 Aṣṭaka 8.1.15.5Anuvāka 10.4.112

  6. Ṛk 6

    यो अद॑धा॒ज्ज्योति॑षि॒ ज्योति॑रं॒तर्यो असृ॑ज॒न्मधु॑ना॒ सं मधू॑नि ।
    अध॑ प्रि॒यं शू॒षमिंद्रा॑य॒ मन्म॑ ब्रह्म॒कृतो॑ बृ॒हदु॑क्थादवाचि ॥

    यो अदधाज् ज्योतिषि ज्योतिर् अन्तर् यो असृजन् मधुना सम् मधूनि |
    अध प्रियं शूषम् इन्द्राय मन्म ब्रह्मकृतो बृहदुक्थाद् अवाचि ||

    yó ádadhājjyótiṣi jyótirantáryó ásṛjanmádhunā sám mádhūni ǀ
    ádha priyám śūṣámíndrāya mánma brahmakṛ́to bṛhádukthādavāci ǁ

    yo adadhāj jyotiṣi jyotir antar yo asṛjan madhunā sam madhūni |
    adha priyaṃ śūṣam indrāya manma brahmakṛto bṛhadukthād avāci ||

    यः । अद॑धात् । ज्योति॑षि । ज्योतिः॑ । अ॒न्तः । यः । असृ॑जत् । मधु॑ना । सम् । मधू॑नि ।
    अध॑ । प्रि॒यम् । शू॒षम् । इन्द्रा॑य । मन्म॑ । ब्र॒ह्म॒ऽकृतः॑ । बृ॒हत्ऽउ॑क्थात् । अ॒वा॒चि॒ ॥

    यः । अदधात् । ज्योतिषि । ज्योतिः । अन्तः । यः । असृजत् । मधुना । सम् । मधूनि ।
    अध । प्रियम् । शूषम् । इन्द्राय । मन्म । ब्रह्मऽकृतः । बृहत्ऽउक्थात् । अवाचि ॥

    yáḥ ǀ ádadhāt ǀ jyótiṣi ǀ jyótiḥ ǀ antáḥ ǀ yáḥ ǀ ásṛjat ǀ mádhunā ǀ sám ǀ mádhūni ǀ
    ádha ǀ priyám ǀ śūṣám ǀ índrāya ǀ mánma ǀ brahma-kṛ́taḥ ǀ bṛhát-ukthāt ǀ avāci ǁ

    yaḥ ǀ adadhāt ǀ jyotiṣi ǀ jyotiḥ ǀ antaḥ ǀ yaḥ ǀ asṛjat ǀ madhunā ǀ sam ǀ madhūni ǀ
    adha ǀ priyam ǀ śūṣam ǀ indrāya ǀ manma ǀ brahma-kṛtaḥ ǀ bṛhat-ukthāt ǀ avāci ǁ

    10.54.6 Aṣṭaka 8.1.15.6Anuvāka 10.4.113

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.54 · Indra

Interpretations

Sri Aurobindo

Ṛk 1

When thou hadst given wholly the fullness of the ideal to thy fame, O Maghavan of the fullness, when both the firmaments cried to thee in their terror, thou didst protect the gods, thou didst transfix the Enemy, by teaching strength of the Spirit, O Indra, even for this creation.

Ṛk 2

When thou didst range abroad increasing in thy force of substance and prophesying strength to the peoples, that force was sufficient for thy battles of which they tell, but for thee thou knowest today no enemy nor before thou knewest.

Ṛk 3

Who were the sages before us that came to the end of thy greatness equal-souled? didst thou not give being to thy father and thy mother together out of thine own body?

Ṛk 4

Four, verily, are thy untameable mightinesses when thou dwellest in the Vastness; all of them thou knowest and by them thou hast done thy works, O Maghavan.

Ṛk 5

Thou holdest all these that are absolute existences, thou makest known the objects that are hidden in the Secret Places of Being; smite not asunder my desire, O Maghavan, thou art he that commands it and thou art he that giveth.

Ṛk 6

He who placed light in the heart of other light and joined sweetnesses to sweetness, to that Indra this love, this force, this thought was spoken from Brihaduktha when he fulfilled in himself the Brahman.