Sūkta 162
- Devatā देवता
- Garbhaṃsastrāve Prāyakṣcittam
- Ṛṣi ऋषि
- Rakṣohan Brāhma
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdanuṣṭup (1, 2, 4); anuṣṭup (3, 5, 6)
2nd set of styles anuṣṭubh
-
Ṛk 1
ब्रह्म॑णा॒ग्निः सं॑विदा॒नो र॑क्षो॒हा बा॑धतामि॒तः ।
अमी॑वा॒ यस्ते॒ गर्भं॑ दु॒र्णामा॒ योनि॑मा॒शये॑ ॥ब्रह्मणाग्निः संविदानो रक्षोहा बाधताम् इतः |
अमीवा यस् ते गर्भं दुर्णामा योनिम् आशये ||bráhmaṇāgníḥ saṃvidānó rakṣohā́ bādhatāmitáḥ ǀ
ámīvā yáste gárbham durṇā́mā yónimāśáye ǁbrahmaṇāgniḥ saṃvidāno rakṣohā bādhatām itaḥ |
amīvā yas te garbhaṃ durṇāmā yonim āśaye ||ब्रह्म॑णा । अ॒ग्निः । स॒म्ऽवि॒दा॒नः । र॒क्षः॒ऽहा । बा॒ध॒ता॒म् । इ॒तः ।
अमी॑वा । यः । ते॒ । गर्भ॑म् । दुः॒ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ॥ब्रह्मणा । अग्निः । सम्ऽविदानः । रक्षःऽहा । बाधताम् । इतः ।
अमीवा । यः । ते । गर्भम् । दुःऽनामा । योनिम् । आऽशये ॥bráhmaṇā ǀ agníḥ ǀ sam-vidānáḥ ǀ rakṣaḥ-hā́ ǀ bādhatām ǀ itáḥ ǀ
ámīvā ǀ yáḥ ǀ te ǀ gárbham ǀ duḥ-nā́mā ǀ yónim ǀ ā-śáye ǁbrahmaṇā ǀ agniḥ ǀ sam-vidānaḥ ǀ rakṣaḥ-hā ǀ bādhatām ǀ itaḥ ǀ
amīvā ǀ yaḥ ǀ te ǀ garbham ǀ duḥ-nāmā ǀ yonim ǀ ā-śaye ǁ10.162.1 Aṣṭaka 8.8.20.1Anuvāka 10.12.52
-
Ṛk 2
यस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑ ।
अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ॥यस् ते गर्भम् अमीवा दुर्णामा योनिम् आशये |
अग्निष् टम् ब्रह्मणा सह निष् क्रव्यादम् अनीनशत् ||yáste gárbhamámīvā durṇā́mā yónimāśáye ǀ
agníṣṭám bráhmaṇā sahá níṣkravyā́damanīnaśat ǁyas te garbham amīvā durṇāmā yonim āśaye |
agniṣ ṭam brahmaṇā saha niṣ kravyādam anīnaśat ||यः । ते॒ । गर्भ॑म् । अमी॑वा । दुः॒ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ।
अ॒ग्निः । तम् । ब्रह्म॑णा । स॒ह । निः । क्र॒व्य॒ऽअद॑म् । अ॒नी॒न॒श॒त् ॥यः । ते । गर्भम् । अमीवा । दुःऽनामा । योनिम् । आऽशये ।
अग्निः । तम् । ब्रह्मणा । सह । निः । क्रव्यऽअदम् । अनीनशत् ॥yáḥ ǀ te ǀ gárbham ǀ ámīvā ǀ duḥ-nā́mā ǀ yónim ǀ ā-śáye ǀ
agníḥ ǀ tám ǀ bráhmaṇā ǀ sahá ǀ níḥ ǀ kravya-ádam ǀ anīnaśat ǁyaḥ ǀ te ǀ garbham ǀ amīvā ǀ duḥ-nāmā ǀ yonim ǀ ā-śaye ǀ
agniḥ ǀ tam ǀ brahmaṇā ǀ saha ǀ niḥ ǀ kravya-adam ǀ anīnaśat ǁ10.162.2 Aṣṭaka 8.8.20.2Anuvāka 10.12.53
-
Ṛk 3
यस्ते॒ हंति॑ प॒तयं॑तं निष॒त्स्नुं यः स॑रीसृ॒पं ।
जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥यस् ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् |
जातं यस् ते जिघांसति तम् इतो नाशयामसि ||yáste hánti patáyantam niṣatsnúm yáḥ sarīsṛpám ǀ
jātám yáste jíghāṃsati támitó nāśayāmasi ǁyas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam |
jātaṃ yas te jighāṃsati tam ito nāśayāmasi ||यः । ते॒ । हन्ति॑ । प॒तय॑न्तम् । नि॒ऽस॒त्स्नुम् । यः । स॒री॒सृ॒पम् ।
जा॒तम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥यः । ते । हन्ति । पतयन्तम् । निऽसत्स्नुम् । यः । सरीसृपम् ।
जातम् । यः । ते । जिघांसति । तम् । इतः । नाशयामसि ॥yáḥ ǀ te ǀ hánti ǀ patáyantam ǀ ni-satsnúm ǀ yáḥ ǀ sarīsṛpám ǀ
jātám ǀ yáḥ ǀ te ǀ jíghāṃsati ǀ tám ǀ itáḥ ǀ nāśayāmasi ǁyaḥ ǀ te ǀ hanti ǀ patayantam ǀ ni-satsnum ǀ yaḥ ǀ sarīsṛpam ǀ
jātam ǀ yaḥ ǀ te ǀ jighāṃsati ǀ tam ǀ itaḥ ǀ nāśayāmasi ǁ10.162.3 Aṣṭaka 8.8.20.3Anuvāka 10.12.54
-
Ṛk 4
यस्त॑ ऊ॒रू वि॒हर॑त्यंत॒रा दंप॑ती॒ शये॑ ।
योनिं॒ यो अं॒तरा॒रेळ्हि॒ तमि॒तो ना॑शयामसि ॥यस् त ऊरू विहरत्य् अन्तरा दम्पती शये |
योनिं यो अन्तर् आरेऌहि तम् इतो नाशयामसि ||yásta ūrū́ viháratyantarā́ dámpatī śáye ǀ
yónim yó antárāréḷhi támitó nāśayāmasi ǁyas ta ūrū viharaty antarā dampatī śaye |
yoniṃ yo antar āreḷhi tam ito nāśayāmasi ||यः । ते॒ । ऊ॒रू इति॑ । वि॒ऽहर॑ति । अ॒न्त॒रा । दम्प॑ती॒ इति॒ दम्ऽप॑ती । शये॑ ।
योनि॑म् । यः । अ॒न्तः । आ॒ऽरेळ्हि॑ । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥यः । ते । ऊरू इति । विऽहरति । अन्तरा । दम्पती इति दम्ऽपती । शये ।
योनिम् । यः । अन्तः । आऽरेळ्हि । तम् । इतः । नाशयामसि ॥yáḥ ǀ te ǀ ūrū́ íti ǀ vi-hárati ǀ antarā́ ǀ dámpatī íti dám-patī ǀ śáye ǀ
yónim ǀ yáḥ ǀ antáḥ ǀ ā-réḷhi ǀ tám ǀ itáḥ ǀ nāśayāmasi ǁyaḥ ǀ te ǀ ūrū iti ǀ vi-harati ǀ antarā ǀ dampatī iti dam-patī ǀ śaye ǀ
yonim ǀ yaḥ ǀ antaḥ ǀ ā-reḷhi ǀ tam ǀ itaḥ ǀ nāśayāmasi ǁ10.162.4 Aṣṭaka 8.8.20.4Anuvāka 10.12.55
-
Ṛk 5
यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते ।
प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥यस् त्वा भ्राता पतिर् भूत्वा जारो भूत्वा निपद्यते |
प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ||yástvā bhrā́tā pátirbhūtvā́ jāró bhūtvā́ nipádyate ǀ
prajā́m yáste jíghāṃsati támitó nāśayāmasi ǁyas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate |
prajāṃ yas te jighāṃsati tam ito nāśayāmasi ||यः । त्वा॒ । भ्राता॑ । पतिः॑ । भू॒त्वा । जा॒रः । भू॒त्वा । नि॒ऽपद्य॑ते ।
प्र॒ऽजाम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥यः । त्वा । भ्राता । पतिः । भूत्वा । जारः । भूत्वा । निऽपद्यते ।
प्रऽजाम् । यः । ते । जिघांसति । तम् । इतः । नाशयामसि ॥yáḥ ǀ tvā ǀ bhrā́tā ǀ pátiḥ ǀ bhūtvā́ ǀ jāráḥ ǀ bhūtvā́ ǀ ni-pádyate ǀ
pra-jā́m ǀ yáḥ ǀ te ǀ jíghāṃsati ǀ tám ǀ itáḥ ǀ nāśayāmasi ǁyaḥ ǀ tvā ǀ bhrātā ǀ patiḥ ǀ bhūtvā ǀ jāraḥ ǀ bhūtvā ǀ ni-padyate ǀ
pra-jām ǀ yaḥ ǀ te ǀ jighāṃsati ǀ tam ǀ itaḥ ǀ nāśayāmasi ǁ10.162.5 Aṣṭaka 8.8.20.5Anuvāka 10.12.56
-
Ṛk 6
यस्त्वा॒ स्वप्ने॑न॒ तम॑सा मोहयि॒त्वा नि॒पद्य॑ते ।
प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥यस् त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते |
प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ||yástvā svápnena támasā mohayitvā́ nipádyate ǀ
prajā́m yáste jíghāṃsati támitó nāśayāmasi ǁyas tvā svapnena tamasā mohayitvā nipadyate |
prajāṃ yas te jighāṃsati tam ito nāśayāmasi ||यः । त्वा॒ । स्वप्ने॑न । तम॑सा । मो॒ह॒यि॒त्वा । नि॒ऽपद्य॑ते ।
प्र॒ऽजाम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥यः । त्वा । स्वप्नेन । तमसा । मोहयित्वा । निऽपद्यते ।
प्रऽजाम् । यः । ते । जिघांसति । तम् । इतः । नाशयामसि ॥yáḥ ǀ tvā ǀ svápnena ǀ támasā ǀ mohayitvā́ ǀ ni-pádyate ǀ
pra-jā́m ǀ yáḥ ǀ te ǀ jíghāṃsati ǀ tám ǀ itáḥ ǀ nāśayāmasi ǁyaḥ ǀ tvā ǀ svapnena ǀ tamasā ǀ mohayitvā ǀ ni-padyate ǀ
pra-jām ǀ yaḥ ǀ te ǀ jighāṃsati ǀ tam ǀ itaḥ ǀ nāśayāmasi ǁ10.162.6 Aṣṭaka 8.8.20.6Anuvāka 10.12.57
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.