Ṛgveda · Maṇḍala 10 · Sūkta 162
Ṛk 10.162.3
Saṃhitā
यस्ते॒ हंति॑ प॒तयं॑तं निष॒त्स्नुं यः स॑रीसृ॒पं ।
जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥
यस् ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् |
जातं यस् ते जिघांसति तम् इतो नाशयामसि ||
yáste hánti patáyantam niṣatsnúm yáḥ sarīsṛpám ǀ
jātám yáste jíghāṃsati támitó nāśayāmasi ǁ
yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam |
jātaṃ yas te jighāṃsati tam ito nāśayāmasi ||
Padapāṭha
यः । ते॒ । हन्ति॑ । प॒तय॑न्तम् । नि॒ऽस॒त्स्नुम् । यः । स॒री॒सृ॒पम् ।
जा॒तम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥
यः । ते । हन्ति । पतयन्तम् । निऽसत्स्नुम् । यः । सरीसृपम् ।
जातम् । यः । ते । जिघांसति । तम् । इतः । नाशयामसि ॥
yáḥ ǀ te ǀ hánti ǀ patáyantam ǀ ni-satsnúm ǀ yáḥ ǀ sarīsṛpám ǀ
jātám ǀ yáḥ ǀ te ǀ jíghāṃsati ǀ tám ǀ itáḥ ǀ nāśayāmasi ǁ
yaḥ ǀ te ǀ hanti ǀ patayantam ǀ ni-satsnum ǀ yaḥ ǀ sarīsṛpam ǀ
jātam ǀ yaḥ ǀ te ǀ jighāṃsati ǀ tam ǀ itaḥ ǀ nāśayāmasi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.162.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.20.03
- Maṇḍala · Anuvāka · Ṛk
- 10.12.054
- Devatā देवता
- Garbhaṃsastrāve Prāyakṣcittam
- Ṛṣi ऋषि
- Rakṣohan Brāhma
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.