Sūkta 176
- Devatā देवता
- 1: Ṛbhus; 2-4: Agni
- Ṛṣi ऋषि
- Sūnu Ārbhava
- Chandas छन्दस्
- Anuṣṭubh, Gāyatrī
Metres by ṛk
1st set of styles virāḍanuṣṭup (1, 4); nicṛdgāyatrī (2); anuṣṭup (3)
2nd set of styles anuṣṭubh (1, 3, 4); gāyatrī (2)
-
Ṛk 1
प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वंत वृ॒जना॑ ।
क्षामा॒ ये वि॒श्वधा॑य॒सोऽश्नं॑धे॒नुं न मा॒तरं॑ ॥प्र सूनव ऋभूणाम् बृहन् नवन्त वृजना |
क्षामा ये विश्वधायसो ऽश्नन् धेनुं न मातरम् ||prá sūnáva ṛbhūṇā́m bṛhánnavanta vṛjánā ǀ
kṣā́mā yé viśvádhāyasó’śnandhenúm ná mātáram ǁpra sūnava ṛbhūṇām bṛhan navanta vṛjanā |
kṣāmā ye viśvadhāyaso 'śnan dhenuṃ na mātaram ||प्र । सू॒नवः॑ । ऋ॒भू॒णाम् । बृ॒हत् । न॒व॒न्त॒ । वृ॒जना॑ ।
क्षाम॑ । ये । वि॒श्वऽधा॑यसः । अश्न॑न् । धे॒नुम् । न । मा॒तर॑म् ॥प्र । सूनवः । ऋभूणाम् । बृहत् । नवन्त । वृजना ।
क्षाम । ये । विश्वऽधायसः । अश्नन् । धेनुम् । न । मातरम् ॥prá ǀ sūnávaḥ ǀ ṛbhūṇā́m ǀ bṛhát ǀ navanta ǀ vṛjánā ǀ
kṣā́ma ǀ yé ǀ viśvá-dhāyasaḥ ǀ áśnan ǀ dhenúm ǀ ná ǀ mātáram ǁpra ǀ sūnavaḥ ǀ ṛbhūṇām ǀ bṛhat ǀ navanta ǀ vṛjanā ǀ
kṣāma ǀ ye ǀ viśva-dhāyasaḥ ǀ aśnan ǀ dhenum ǀ na ǀ mātaram ǁ10.176.1 Aṣṭaka 8.8.34.1Anuvāka 10.12.118
-
Ṛk 2
प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसं ।
ह॒व्या नो॑ वक्षदानु॒षक् ॥प्र देवं देव्या धिया भरता जातवेदसम् |
हव्या नो वक्षद् आनुषक् ||prá devám devyā́ dhiyā́ bháratā jātávedasam ǀ
havyā́ no vakṣadānuṣák ǁpra devaṃ devyā dhiyā bharatā jātavedasam |
havyā no vakṣad ānuṣak ||प्र । दे॒वम् । दे॒व्या । धि॒या । भर॑त । जा॒तऽवे॑दसम् ।
ह॒व्या । नः॒ । व॒क्ष॒त् । आ॒नु॒षक् ॥प्र । देवम् । देव्या । धिया । भरत । जातऽवेदसम् ।
हव्या । नः । वक्षत् । आनुषक् ॥prá ǀ devám ǀ devyā́ ǀ dhiyā́ ǀ bhárata ǀ jātá-vedasam ǀ
havyā́ ǀ naḥ ǀ vakṣat ǀ ānuṣák ǁpra ǀ devam ǀ devyā ǀ dhiyā ǀ bharata ǀ jāta-vedasam ǀ
havyā ǀ naḥ ǀ vakṣat ǀ ānuṣak ǁ10.176.2 Aṣṭaka 8.8.34.2Anuvāka 10.12.119
-
Ṛk 3
अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते ।
रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वांचेतति॒ त्मना॑ ॥अयम् उ ष्य प्र देवयुर् होता यज्ञाय नीयते |
रथो न योर् अभीवृतो घृणीवाञ् चेतति त्मना ||ayámu ṣyá prá devayúrhótā yajñā́ya nīyate ǀ
rátho ná yórabhī́vṛto ghṛ́ṇīvāñcetati tmánā ǁayam u ṣya pra devayur hotā yajñāya nīyate |
ratho na yor abhīvṛto ghṛṇīvāñ cetati tmanā ||अ॒यम् । ऊं॒ इति॑ । स्यः । प्र । दे॒व॒ऽयुः । होता॑ । य॒ज्ञाय॑ । नी॒य॒ते॒ ।
रथः॑ । न । योः । अ॒भिऽवृ॑तः । घृणि॑ऽवान् । चे॒त॒ति॒ । त्मना॑ ॥अयम् । ऊं इति । स्यः । प्र । देवऽयुः । होता । यज्ञाय । नीयते ।
रथः । न । योः । अभिऽवृतः । घृणिऽवान् । चेतति । त्मना ॥ayám ǀ ūṃ íti ǀ syáḥ ǀ prá ǀ deva-yúḥ ǀ hótā ǀ yajñā́ya ǀ nīyate ǀ
ráthaḥ ǀ ná ǀ yóḥ ǀ abhí-vṛtaḥ ǀ ghṛ́ṇi-vān ǀ cetati ǀ tmánā ǁayam ǀ ūṃ iti ǀ syaḥ ǀ pra ǀ deva-yuḥ ǀ hotā ǀ yajñāya ǀ nīyate ǀ
rathaḥ ǀ na ǀ yoḥ ǀ abhi-vṛtaḥ ǀ ghṛṇi-vān ǀ cetati ǀ tmanā ǁ10.176.3 Aṣṭaka 8.8.34.3Anuvāka 10.12.120
-
Ṛk 4
अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः ।
सह॑सश्चि॒त्सही॑यांदे॒वो जी॒वात॑वे कृ॒तः ॥अयम् अग्निर् उरुष्यत्य् अमृताद् इव जन्मनः |
सहसश् चित् सहीयान् देवो जीवातवे कृतः ||ayámagníruruṣyatyamṛ́tādiva jánmanaḥ ǀ
sáhasaścitsáhīyāndevó jīvā́tave kṛtáḥ ǁayam agnir uruṣyaty amṛtād iva janmanaḥ |
sahasaś cit sahīyān devo jīvātave kṛtaḥ ||अ॒यम् । अ॒ग्निः । उ॒रु॒ष्य॒ति॒ । अ॒मृता॑त्ऽइव । जन्म॑नः ।
सह॑सः । चि॒त् । सही॑यान् । दे॒वः । जी॒वात॑वे । कृ॒तः ॥अयम् । अग्निः । उरुष्यति । अमृतात्ऽइव । जन्मनः ।
सहसः । चित् । सहीयान् । देवः । जीवातवे । कृतः ॥ayám ǀ agníḥ ǀ uruṣyati ǀ amṛ́tāt-iva ǀ jánmanaḥ ǀ
sáhasaḥ ǀ cit ǀ sáhīyān ǀ deváḥ ǀ jīvā́tave ǀ kṛtáḥ ǁayam ǀ agniḥ ǀ uruṣyati ǀ amṛtāt-iva ǀ janmanaḥ ǀ
sahasaḥ ǀ cit ǀ sahīyān ǀ devaḥ ǀ jīvātave ǀ kṛtaḥ ǁ10.176.4 Aṣṭaka 8.8.34.4Anuvāka 10.12.121
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.