Sūkta 12
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Havirdhāna Āṅgi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 4, 5, 7); virāṭtrisṭup (1, 3); svarāḍārcītriṣṭup (6); pādanicṛttriṣṭup (8); triṣṭup (9)
2nd set of styles triṣṭubh
-
Ṛk 1
द्यावा॑ ह॒ क्षामा॑ प्रथ॒मे ऋ॒तेना॑भिश्रा॒वे भ॑वतः सत्य॒वाचा॑ ।
दे॒वो यन्मर्ता॑न्य॒जथा॑य कृ॒ण्वन् सीद॒द्धोता॑ प्र॒त्यङ्स्वमसुं॒ यन् ॥द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा |
देवो यन् मर्तान् यजथाय कृण्वन् सीदद् धोता प्रत्यङ् स्वम् असुं यन् ||dyā́vā ha kṣā́mā prathamé ṛténābhiśrāvé bhavataḥ satyavā́cā ǀ
devó yánmártānyajáthāya kṛṇván sī́daddhótā pratyáṅsvámásum yán ǁdyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā |
devo yan martān yajathāya kṛṇvan sīdad dhotā pratyaṅ svam asuṃ yan ||द्यावा॑ । ह॒ । क्षामा॑ । प्र॒थ॒मे इति॑ । ऋ॒तेन॑ । अ॒भि॒ऽश्रा॒वे । भ॒व॒तः॒ । स॒त्य॒ऽवाचा॑ ।
दे॒वः । यत् । मर्ता॑न् । य॒जथा॑य । कृ॒ण्वन् । सीद॑त् । होता॑ । प्र॒त्यङ् । स्वम् । असु॑म् । यन् ॥द्यावा । ह । क्षामा । प्रथमे इति । ऋतेन । अभिऽश्रावे । भवतः । सत्यऽवाचा ।
देवः । यत् । मर्तान् । यजथाय । कृण्वन् । सीदत् । होता । प्रत्यङ् । स्वम् । असुम् । यन् ॥dyā́vā ǀ ha ǀ kṣā́mā ǀ prathamé íti ǀ ṛténa ǀ abhi-śrāvé ǀ bhavataḥ ǀ satya-vā́cā ǀ
deváḥ ǀ yát ǀ mártān ǀ yajáthāya ǀ kṛṇván ǀ sī́dat ǀ hótā ǀ pratyáṅ ǀ svám ǀ ásum ǀ yán ǁdyāvā ǀ ha ǀ kṣāmā ǀ prathame iti ǀ ṛtena ǀ abhi-śrāve ǀ bhavataḥ ǀ satya-vācā ǀ
devaḥ ǀ yat ǀ martān ǀ yajathāya ǀ kṛṇvan ǀ sīdat ǀ hotā ǀ pratyaṅ ǀ svam ǀ asum ǀ yan ǁ10.12.1 Aṣṭaka 7.6.11.1Anuvāka 10.1.91
-
Ṛk 2
दे॒वो दे॒वान्प॑रि॒भूर्ऋ॒तेन॒ वहा॑ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान् ।
धू॒मके॑तुः स॒मिधा॒ भाऋ॑जीको मं॒द्रो होता॒ नित्यो॑ वा॒चा यजी॑यान् ॥देवो देवान् परिभूर् ऋतेन वहा नो हव्यम् प्रथमश् चिकित्वान् |
धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ||devó devā́nparibhū́rṛténa váhā no havyám prathamáścikitvā́n ǀ
dhūmáketuḥ samídhā bhā́ṛjīko mandró hótā nítyo vācā́ yájīyān ǁdevo devān paribhūr ṛtena vahā no havyam prathamaś cikitvān |
dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān ||दे॒वः । दे॒वान् । प॒रि॒ऽभूः । ऋ॒तेन॑ । वह॑ । नः॒ । ह॒व्यम् । प्र॒थ॒मः । चि॒कि॒त्वान् ।
धू॒मऽके॑तुः । स॒म्ऽइधा॑ । भाःऽऋ॑जीकः । म॒न्द्रः । होता॑ । नित्यः॑ । वा॒चा । यजी॑यान् ॥देवः । देवान् । परिऽभूः । ऋतेन । वह । नः । हव्यम् । प्रथमः । चिकित्वान् ।
धूमऽकेतुः । सम्ऽइधा । भाःऽऋजीकः । मन्द्रः । होता । नित्यः । वाचा । यजीयान् ॥deváḥ ǀ devā́n ǀ pari-bhū́ḥ ǀ ṛténa ǀ váha ǀ naḥ ǀ havyám ǀ prathamáḥ ǀ cikitvā́n ǀ
dhūmá-ketuḥ ǀ sam-ídhā ǀ bhā́ḥ-ṛjīkaḥ ǀ mandráḥ ǀ hótā ǀ nítyaḥ ǀ vācā́ ǀ yájīyān ǁdevaḥ ǀ devān ǀ pari-bhūḥ ǀ ṛtena ǀ vaha ǀ naḥ ǀ havyam ǀ prathamaḥ ǀ cikitvān ǀ
dhūma-ketuḥ ǀ sam-idhā ǀ bhāḥ-ṛjīkaḥ ǀ mandraḥ ǀ hotā ǀ nityaḥ ǀ vācā ǀ yajīyān ǁ10.12.2 Aṣṭaka 7.6.11.2Anuvāka 10.1.92
-
Ṛk 3
स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो॑ जा॒तासो॑ धारयंत उ॒र्वी ।
विश्वे॑ दे॒वा अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी॑ दि॒व्यं घृ॒तं वाः ॥स्वावृग् देवस्यामृतं यदी गोर् अतो जातासो धारयन्त उर्वी |
विश्वे देवा अनु तत् ते यजुर् गुर् दुहे यद् एनी दिव्यं घृतं वाः ||svā́vṛgdevásyāmṛ́tam yádī góráto jātā́so dhārayanta urvī́ ǀ
víśve devā́ ánu tátte yájurgurduhé yádénī divyám ghṛtám vā́ḥ ǁsvāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī |
viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtaṃ vāḥ ||स्वावृ॑क् । दे॒वस्य॑ । अ॒मृत॑म् । यदि॑ । गोः । अतः॑ । जा॒तासः॑ । धा॒र॒य॒न्ते॒ । उ॒र्वी इति॑ ।
विश्वे॑ । दे॒वाः । अनु॑ । तत् । ते॒ । यजुः॑ । गुः॒ । दु॒हे । यत् । एनी॑ । दि॒व्यम् । घृ॒तम् । वारिति॒ वाः ॥स्वावृक् । देवस्य । अमृतम् । यदि । गोः । अतः । जातासः । धारयन्ते । उर्वी इति ।
विश्वे । देवाः । अनु । तत् । ते । यजुः । गुः । दुहे । यत् । एनी । दिव्यम् । घृतम् । वारिति वाः ॥svā́vṛk ǀ devásya ǀ amṛ́tam ǀ yádi ǀ góḥ ǀ átaḥ ǀ jātā́saḥ ǀ dhārayante ǀ urvī́ íti ǀ
víśve ǀ devā́ḥ ǀ ánu ǀ tát ǀ te ǀ yájuḥ ǀ guḥ ǀ duhé ǀ yát ǀ énī ǀ divyám ǀ ghṛtám ǀ vā́ríti vā́ḥ ǁsvāvṛk ǀ devasya ǀ amṛtam ǀ yadi ǀ goḥ ǀ ataḥ ǀ jātāsaḥ ǀ dhārayante ǀ urvī iti ǀ
viśve ǀ devāḥ ǀ anu ǀ tat ǀ te ǀ yajuḥ ǀ guḥ ǀ duhe ǀ yat ǀ enī ǀ divyam ǀ ghṛtam ǀ vāriti vāḥ ǁ10.12.3 Aṣṭaka 7.6.11.3Anuvāka 10.1.93
-
Ṛk 4
अर्चा॑मि वां॒ वर्धा॒यापो॑ घृतस्नू॒ द्यावा॑भूमी शृणु॒तं रो॑दसी मे ।
अहा॒ यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा॑ नो॒ अत्र॑ पि॒तरा॑ शिशीतां ॥अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे |
अहा यद् द्यावो ऽसुनीतिम् अयन् मध्वा नो अत्र पितरा शिशीताम् ||árcāmi vām várdhāyā́po ghṛtasnū dyā́vābhūmī śṛṇutám rodasī me ǀ
áhā yáddyā́vó’sunītimáyanmádhvā no átra pitárā śiśītām ǁarcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me |
ahā yad dyāvo 'sunītim ayan madhvā no atra pitarā śiśītām ||अर्चा॑मि । वा॒म् । वर्धा॑य । अपः॑ । घृ॒त॒स्नू॒ इति॑ घृतऽस्नू । द्यावा॑भूमी॒ इति॑ । शृ॒णु॒तम् । रो॒द॒सी॒ इति॑ । मे॒ ।
अहा॑ । यत् । द्यावः॑ । असु॑ऽनीतिम् । अय॑न् । मध्वा॑ । नः॒ । अत्र॑ । पि॒तरा॑ । शि॒शी॒ता॒म् ॥अर्चामि । वाम् । वर्धाय । अपः । घृतस्नू इति घृतऽस्नू । द्यावाभूमी इति । शृणुतम् । रोदसी इति । मे ।
अहा । यत् । द्यावः । असुऽनीतिम् । अयन् । मध्वा । नः । अत्र । पितरा । शिशीताम् ॥árcāmi ǀ vām ǀ várdhāya ǀ ápaḥ ǀ ghṛtasnū íti ghṛta-snū ǀ dyā́vābhūmī íti ǀ śṛṇutám ǀ rodasī íti ǀ me ǀ
áhā ǀ yát ǀ dyā́vaḥ ǀ ásu-nītim ǀ áyan ǀ mádhvā ǀ naḥ ǀ átra ǀ pitárā ǀ śiśītām ǁarcāmi ǀ vām ǀ vardhāya ǀ apaḥ ǀ ghṛtasnū iti ghṛta-snū ǀ dyāvābhūmī iti ǀ śṛṇutam ǀ rodasī iti ǀ me ǀ
ahā ǀ yat ǀ dyāvaḥ ǀ asu-nītim ǀ ayan ǀ madhvā ǀ naḥ ǀ atra ǀ pitarā ǀ śiśītām ǁ10.12.4 Aṣṭaka 7.6.11.4Anuvāka 10.1.94
-
Ṛk 5
किं स्वि॑न्नो॒ राजा॑ जगृहे॒ कद॒स्याति॑ व्र॒तं च॑कृमा॒ को वि वे॑द ।
मि॒त्रश्चि॒द्धि ष्मा॑ जुहुरा॒णो दे॒वांछ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ॥किं स्विन् नो राजा जगृहे कद् अस्याति व्रतं चकृमा को वि वेद |
मित्रश् चिद् धि ष्मा जुहुराणो देवाञ् छ्लोको न याताम् अपि वाजो अस्ति ||kím svinno rā́jā jagṛhe kádasyā́ti vratám cakṛmā kó ví veda ǀ
mitráściddhí ṣmā juhurāṇó devā́ñchlóko ná yātā́mápi vā́jo ásti ǁkiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda |
mitraś cid dhi ṣmā juhurāṇo devāñ chloko na yātām api vājo asti ||किम् । स्वि॒त् । नः॒ । राजा॑ । ज॒गृ॒हे॒ । कत् । अ॒स्य॒ । अति॑ । व्र॒तम् । च॒कृ॒म॒ । कः । वि । वे॒द॒ ।
मि॒त्रः । चि॒त् । हि । स्म॒ । जु॒हु॒रा॒णः । दे॒वान् । श्लोकः॑ । न । या॒ताम् । अपि॑ । वाजः॑ । अस्ति॑ ॥किम् । स्वित् । नः । राजा । जगृहे । कत् । अस्य । अति । व्रतम् । चकृम । कः । वि । वेद ।
मित्रः । चित् । हि । स्म । जुहुराणः । देवान् । श्लोकः । न । याताम् । अपि । वाजः । अस्ति ॥kím ǀ svit ǀ naḥ ǀ rā́jā ǀ jagṛhe ǀ kát ǀ asya ǀ áti ǀ vratám ǀ cakṛma ǀ káḥ ǀ ví ǀ veda ǀ
mitráḥ ǀ cit ǀ hí ǀ sma ǀ juhurāṇáḥ ǀ devā́n ǀ ślókaḥ ǀ ná ǀ yātā́m ǀ ápi ǀ vā́jaḥ ǀ ásti ǁkim ǀ svit ǀ naḥ ǀ rājā ǀ jagṛhe ǀ kat ǀ asya ǀ ati ǀ vratam ǀ cakṛma ǀ kaḥ ǀ vi ǀ veda ǀ
mitraḥ ǀ cit ǀ hi ǀ sma ǀ juhurāṇaḥ ǀ devān ǀ ślokaḥ ǀ na ǀ yātām ǀ api ǀ vājaḥ ǀ asti ǁ10.12.5 Aṣṭaka 7.6.11.5Anuvāka 10.1.95
-
Ṛk 6
दु॒र्मंत्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति ।
य॒मस्य॒ यो म॒नव॑ते सु॒मंत्वग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युच्छन् ॥दुर्मन्त्व् अत्रामृतस्य नाम सलक्ष्मा यद् विषुरूपा भवाति |
यमस्य यो मनवते सुमन्त्व् अग्ने तम् ऋष्व पाह्य् अप्रयुच्छन् ||durmántvátrāmṛ́tasya nā́ma sálakṣmā yádvíṣurūpā bhávāti ǀ
yamásya yó manávate sumántvágne támṛṣva pāhyáprayucchan ǁdurmantv atrāmṛtasya nāma salakṣmā yad viṣurūpā bhavāti |
yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan ||दुः॒ऽमन्तु॑ । अत्र॑ । अ॒मृत॑स्य । नाम॑ । सऽल॑क्ष्मा । यत् । विषु॑ऽरूपा । भवा॑ति ।
य॒मस्य॑ । यः । म॒नव॑ते । सु॒ऽमन्तु॑ । अग्ने॑ । तम् । ऋ॒ष्व॒ । पा॒हि॒ । अप्र॑ऽयुच्छन् ॥दुःऽमन्तु । अत्र । अमृतस्य । नाम । सऽलक्ष्मा । यत् । विषुऽरूपा । भवाति ।
यमस्य । यः । मनवते । सुऽमन्तु । अग्ने । तम् । ऋष्व । पाहि । अप्रऽयुच्छन् ॥duḥ-mántu ǀ átra ǀ amṛ́tasya ǀ nā́ma ǀ sá-lakṣmā ǀ yát ǀ víṣu-rūpā ǀ bhávāti ǀ
yamásya ǀ yáḥ ǀ manávate ǀ su-mántu ǀ ágne ǀ tám ǀ ṛṣva ǀ pāhi ǀ ápra-yucchan ǁduḥ-mantu ǀ atra ǀ amṛtasya ǀ nāma ǀ sa-lakṣmā ǀ yat ǀ viṣu-rūpā ǀ bhavāti ǀ
yamasya ǀ yaḥ ǀ manavate ǀ su-mantu ǀ agne ǀ tam ǀ ṛṣva ǀ pāhi ǀ apra-yucchan ǁ10.12.6 Aṣṭaka 7.6.12.1Anuvāka 10.1.96
-
Ṛk 7
यस्मिं॑दे॒वा वि॒दथे॑ मा॒दयं॑ते वि॒वस्व॑तः॒ सद॑ने धा॒रयं॑ते ।
सूर्ये॒ ज्योति॒रद॑धुर्मा॒स्य१॒॑क्तून्परि॑ द्योत॒निं च॑रतो॒ अज॑स्रा ॥यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते |
सूर्ये ज्योतिर् अदधुर् मास्य् अक्तून् परि द्योतनिं चरतो अजस्रा ||yásmindevā́ vidáthe mādáyante vivásvataḥ sádane dhāráyante ǀ
sū́rye jyótirádadhurmāsyáktū́npári dyotaním carato ájasrā ǁyasmin devā vidathe mādayante vivasvataḥ sadane dhārayante |
sūrye jyotir adadhur māsy aktūn pari dyotaniṃ carato ajasrā ||यस्मि॑न् । दे॒वाः । वि॒दथे॑ । मा॒दय॑न्ते । वि॒वस्व॑तः । सद॑ने । धा॒रय॑न्ते ।
सूर्ये॑ । ज्योतिः॑ । अद॑धुः । मा॒सि । अ॒क्तून् । परि॑ । द्यो॒त॒निम् । च॒र॒तः॒ । अज॑स्रा ॥यस्मिन् । देवाः । विदथे । मादयन्ते । विवस्वतः । सदने । धारयन्ते ।
सूर्ये । ज्योतिः । अदधुः । मासि । अक्तून् । परि । द्योतनिम् । चरतः । अजस्रा ॥yásmin ǀ devā́ḥ ǀ vidáthe ǀ mādáyante ǀ vivásvataḥ ǀ sádane ǀ dhāráyante ǀ
sū́rye ǀ jyótiḥ ǀ ádadhuḥ ǀ māsí ǀ aktū́n ǀ pári ǀ dyotaním ǀ carataḥ ǀ ájasrā ǁyasmin ǀ devāḥ ǀ vidathe ǀ mādayante ǀ vivasvataḥ ǀ sadane ǀ dhārayante ǀ
sūrye ǀ jyotiḥ ǀ adadhuḥ ǀ māsi ǀ aktūn ǀ pari ǀ dyotanim ǀ carataḥ ǀ ajasrā ǁ10.12.7 Aṣṭaka 7.6.12.2Anuvāka 10.1.97
-
Ṛk 8
यस्मिं॑दे॒वा मन्म॑नि सं॒चरं॑त्यपी॒च्ये॒३॒॑ न व॒यम॑स्य विद्म ।
मि॒त्रो नो॒ अत्रादि॑ति॒रना॑गान्त्सवि॒ता दे॒वो वरु॑णाय वोचत् ॥यस्मिन् देवा मन्मनि संचरन्त्य् अपीच्ये न वयम् अस्य विद्म |
मित्रो नो अत्रादितिर् अनागान् सविता देवो वरुणाय वोचत् ||yásmindevā́ mánmani saṃcárantyapīcyé ná vayámasya vidma ǀ
mitró no átrā́ditiránāgāntsavitā́ devó váruṇāya vocat ǁyasmin devā manmani saṃcaranty apīcye na vayam asya vidma |
mitro no atrāditir anāgān savitā devo varuṇāya vocat ||यस्मि॑न् । दे॒वाः । मन्म॑नि । स॒म्ऽचर॑न्ति । अ॒पी॒च्ये॑ । न । व॒यम् । अ॒स्य॒ । वि॒द्म॒ ।
मि॒त्रः । नः॒ । अत्र॑ । अदि॑तिः । अना॑गान् । स॒वि॒ता । दे॒वः । वरु॑णाय । वो॒च॒त् ॥यस्मिन् । देवाः । मन्मनि । सम्ऽचरन्ति । अपीच्ये । न । वयम् । अस्य । विद्म ।
मित्रः । नः । अत्र । अदितिः । अनागान् । सविता । देवः । वरुणाय । वोचत् ॥yásmin ǀ devā́ḥ ǀ mánmani ǀ sam-cáranti ǀ apīcyé ǀ ná ǀ vayám ǀ asya ǀ vidma ǀ
mitráḥ ǀ naḥ ǀ átra ǀ áditiḥ ǀ ánāgān ǀ savitā́ ǀ deváḥ ǀ váruṇāya ǀ vocat ǁyasmin ǀ devāḥ ǀ manmani ǀ sam-caranti ǀ apīcye ǀ na ǀ vayam ǀ asya ǀ vidma ǀ
mitraḥ ǀ naḥ ǀ atra ǀ aditiḥ ǀ anāgān ǀ savitā ǀ devaḥ ǀ varuṇāya ǀ vocat ǁ10.12.8 Aṣṭaka 7.6.12.3Anuvāka 10.1.98
-
Ṛk 9
श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुं ।
आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य द्रवित्नुम् |
आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह स्याः ||śrudhī́ no agne sádane sadhásthe yukṣvā́ ráthamamṛ́tasya dravitnúm ǀ
ā́ no vaha ródasī deváputre mā́kirdevā́nāmápa bhūrihá syāḥ ǁśrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum |
ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ ||श्रु॒धि । नः॒ । अ॒ग्ने॒ । सद॑ने । स॒धऽस्थे॑ । यु॒क्ष्व । रथ॑म् । अ॒मृत॑स्य । द्र॒वि॒त्नुम् ।
आ । नः॒ । व॒ह॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । माकिः॑ । दे॒वाना॑म् । अप॑ । भूः॒ । इ॒ह । स्याः॒ ॥श्रुधि । नः । अग्ने । सदने । सधऽस्थे । युक्ष्व । रथम् । अमृतस्य । द्रवित्नुम् ।
आ । नः । वह । रोदसी इति । देवपुत्रे इति देवऽपुत्रे । माकिः । देवानाम् । अप । भूः । इह । स्याः ॥śrudhí ǀ naḥ ǀ agne ǀ sádane ǀ sadhá-sthe ǀ yukṣvá ǀ rátham ǀ amṛ́tasya ǀ dravitnúm ǀ
ā́ ǀ naḥ ǀ vaha ǀ ródasī íti ǀ deváputre íti devá-putre ǀ mā́kiḥ ǀ devā́nām ǀ ápa ǀ bhūḥ ǀ ihá ǀ syāḥ ǁśrudhi ǀ naḥ ǀ agne ǀ sadane ǀ sadha-sthe ǀ yukṣva ǀ ratham ǀ amṛtasya ǀ dravitnum ǀ
ā ǀ naḥ ǀ vaha ǀ rodasī iti ǀ devaputre iti deva-putre ǀ mākiḥ ǀ devānām ǀ apa ǀ bhūḥ ǀ iha ǀ syāḥ ǁ10.12.9 Aṣṭaka 7.6.12.4Anuvāka 10.1.99
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.