Ṛgveda · Maṇḍala 10

Sūkta 86

Varuṇa · Indra · Indrāṇī · Vṛṣākapi · 1, 8, 11, 12, 14, 19-22: Indra; 2-6, 9, 10, 15-18: Indrāṇī; 7, 13, 23: Vṛṣākapi Aindra · 23 ṛks

Link
Devatā देवता
1, 7, 13: Varuṇa; 2-5, 14-16, 18, 19, 23: Indra; 6, 8-12, 17: Indrāṇī; 20-22: Vṛṣākapi
Ṛṣi ऋषि
1, 8, 11, 12, 14, 19-22: Indra; 2-6, 9, 10, 15-18: Indrāṇī; 7, 13, 23: Vṛṣākapi Aindra
Chandas छन्दस्
Paṅkti
Metres by ṛk

1st set of styles nicṛtpaṅkti (3, 6, 9, 10, 12, 15, 20-22); paṅktiḥ (1, 7, 11, 13, 14, 18, 23); virāṭpaṅkti (4, 8, 16, 17, 19); pādanicṛtpaṅkti (2, 5)

2nd set of styles paṅkti

  1. Ṛk 1

    वि हि सोतो॒रसृ॑क्षत॒ नेंद्रं॑ दे॒वम॑मंसत ।
    यत्राम॑दद्वृ॒षाक॑पिर॒र्यः पु॒ष्टेषु॒ मत्स॑खा॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    वि हि सोतोर् असृक्षत नेन्द्रं देवम् अमंसत |
    यत्रामदद् वृषाकपिर् अर्यः पुष्टेषु मत्सखा विश्वस्माद् इन्द्र उत्तरः ||

    ví hí sótorásṛkṣata néndram devámamaṃsata ǀ
    yátrā́madadvṛṣā́kapiraryáḥ puṣṭéṣu mátsakhā víśvasmādíndra úttaraḥ ǁ

    vi hi sotor asṛkṣata nendraṃ devam amaṃsata |
    yatrāmadad vṛṣākapir aryaḥ puṣṭeṣu matsakhā viśvasmād indra uttaraḥ ||

    वि । हि । सोतोः॑ । असृ॑क्षत । न । इन्द्र॑म् । दे॒वम् । अ॒मं॒स॒त॒ ।
    यत्र॑ । अम॑दत् । वृ॒षाक॑पिः । अ॒र्यः । पु॒ष्टेषु॑ । मत्ऽस॑खा । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    वि । हि । सोतोः । असृक्षत । न । इन्द्रम् । देवम् । अमंसत ।
    यत्र । अमदत् । वृषाकपिः । अर्यः । पुष्टेषु । मत्ऽसखा । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    ví ǀ hí ǀ sótoḥ ǀ ásṛkṣata ǀ ná ǀ índram ǀ devám ǀ amaṃsata ǀ
    yátra ǀ ámadat ǀ vṛṣā́kapiḥ ǀ aryáḥ ǀ puṣṭéṣu ǀ mát-sakhā ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    vi ǀ hi ǀ sotoḥ ǀ asṛkṣata ǀ na ǀ indram ǀ devam ǀ amaṃsata ǀ
    yatra ǀ amadat ǀ vṛṣākapiḥ ǀ aryaḥ ǀ puṣṭeṣu ǀ mat-sakhā ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.1 Aṣṭaka 8.4.1.1Anuvāka 10.7.48

  2. Ṛk 2

    परा॒ हीं॑द्र॒ धाव॑सि वृ॒षाक॑पे॒रति॒ व्यथिः॑ ।
    नो अह॒ प्र विं॑दस्य॒न्यत्र॒ सोम॑पीतये॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    परा हीन्द्र धावसि वृषाकपेर् अति व्यथिः |
    नो अह प्र विन्दस्य् अन्यत्र सोमपीतये विश्वस्माद् इन्द्र उत्तरः ||

    párā hī́ndra dhā́vasi vṛṣā́kaperáti vyáthiḥ ǀ
    nó áha prá vindasyanyátra sómapītaye víśvasmādíndra úttaraḥ ǁ

    parā hīndra dhāvasi vṛṣākaper ati vyathiḥ |
    no aha pra vindasy anyatra somapītaye viśvasmād indra uttaraḥ ||

    परा॑ । हि । इ॒न्द्र॒ । धाव॑सि । वृ॒षाक॑पेः । अति॑ । व्यथिः॑ ।
    नो इति॑ । अह॑ । प्र । वि॒न्द॒सि॒ । अ॒न्यत्र॑ । सोम॑ऽपीतये । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    परा । हि । इन्द्र । धावसि । वृषाकपेः । अति । व्यथिः ।
    नो इति । अह । प्र । विन्दसि । अन्यत्र । सोमऽपीतये । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    párā ǀ hí ǀ indra ǀ dhā́vasi ǀ vṛṣā́kapeḥ ǀ áti ǀ vyáthiḥ ǀ
    nó íti ǀ áha ǀ prá ǀ vindasi ǀ anyátra ǀ sóma-pītaye ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    parā ǀ hi ǀ indra ǀ dhāvasi ǀ vṛṣākapeḥ ǀ ati ǀ vyathiḥ ǀ
    no iti ǀ aha ǀ pra ǀ vindasi ǀ anyatra ǀ soma-pītaye ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.2 Aṣṭaka 8.4.1.2Anuvāka 10.7.49

  3. Ṛk 3

    किम॒यं त्वां वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः ।
    यस्मा॑ इर॒स्यसीदु॒ न्व१॒॑र्यो वा॑ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    किम् अयं त्वां वृषाकपिश् चकार हरितो मृगः |
    यस्मा इरस्यसीद् उ न्व् अर्यो वा पुष्टिमद् वसु विश्वस्माद् इन्द्र उत्तरः ||

    kímayám tvā́m vṛṣā́kapiścakā́ra hárito mṛgáḥ ǀ
    yásmā irasyásī́du nváryó vā puṣṭimádvásu víśvasmādíndra úttaraḥ ǁ

    kim ayaṃ tvāṃ vṛṣākapiś cakāra harito mṛgaḥ |
    yasmā irasyasīd u nv aryo vā puṣṭimad vasu viśvasmād indra uttaraḥ ||

    किम् । अ॒यम् । त्वाम् । वृ॒षाक॑पिः । च॒कार॑ । हरि॑तः । मृ॒गः ।
    यस्मै॑ । इ॒र॒स्यसि॑ । इत् । ऊं॒ इति॑ । नु । अ॒र्यः । वा॒ । पु॒ष्टि॒ऽमत् । वसु॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    किम् । अयम् । त्वाम् । वृषाकपिः । चकार । हरितः । मृगः ।
    यस्मै । इरस्यसि । इत् । ऊं इति । नु । अर्यः । वा । पुष्टिऽमत् । वसु । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    kím ǀ ayám ǀ tvā́m ǀ vṛṣā́kapiḥ ǀ cakā́ra ǀ háritaḥ ǀ mṛgáḥ ǀ
    yásmai ǀ irasyási ǀ ít ǀ ūṃ íti ǀ nú ǀ aryáḥ ǀ vā ǀ puṣṭi-mát ǀ vásu ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    kim ǀ ayam ǀ tvām ǀ vṛṣākapiḥ ǀ cakāra ǀ haritaḥ ǀ mṛgaḥ ǀ
    yasmai ǀ irasyasi ǀ it ǀ ūṃ iti ǀ nu ǀ aryaḥ ǀ vā ǀ puṣṭi-mat ǀ vasu ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.3 Aṣṭaka 8.4.1.3Anuvāka 10.7.50

  4. Ṛk 4

    यमि॒मं त्वं वृ॒षाक॑पिं प्रि॒यमिं॑द्राभि॒रक्ष॑सि ।
    श्वा न्व॑स्य जंभिष॒दपि॒ कर्णे॑ वराह॒युर्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    यम् इमं त्वं वृषाकपिम् प्रियम् इन्द्राभिरक्षसि |
    श्वा न्व् अस्य जम्भिषद् अपि कर्णे वराहयुर् विश्वस्माद् इन्द्र उत्तरः ||

    yámimám tvám vṛṣā́kapim priyámindrābhirákṣasi ǀ
    śvā́ nvásya jambhiṣadápi kárṇe varāhayúrvíśvasmādíndra úttaraḥ ǁ

    yam imaṃ tvaṃ vṛṣākapim priyam indrābhirakṣasi |
    śvā nv asya jambhiṣad api karṇe varāhayur viśvasmād indra uttaraḥ ||

    यम् । इ॒मम् । त्वम् । वृ॒षाक॑पिम् । प्रि॒यम् । इ॒न्द्र॒ । अ॒भि॒ऽरक्ष॑सि ।
    श्वा । नु । अ॒स्य॒ । ज॒म्भि॒ष॒त् । अपि॑ । कर्णे॑ । व॒रा॒ह॒ऽयुः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    यम् । इमम् । त्वम् । वृषाकपिम् । प्रियम् । इन्द्र । अभिऽरक्षसि ।
    श्वा । नु । अस्य । जम्भिषत् । अपि । कर्णे । वराहऽयुः । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    yám ǀ imám ǀ tvám ǀ vṛṣā́kapim ǀ priyám ǀ indra ǀ abhi-rákṣasi ǀ
    śvā́ ǀ nú ǀ asya ǀ jambhiṣat ǀ ápi ǀ kárṇe ǀ varāha-yúḥ ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    yam ǀ imam ǀ tvam ǀ vṛṣākapim ǀ priyam ǀ indra ǀ abhi-rakṣasi ǀ
    śvā ǀ nu ǀ asya ǀ jambhiṣat ǀ api ǀ karṇe ǀ varāha-yuḥ ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.4 Aṣṭaka 8.4.1.4Anuvāka 10.7.51

  5. Ṛk 5

    प्रि॒या त॒ष्टानि॑ मे क॒पिर्व्य॑क्ता॒ व्य॑दूदुषत् ।
    शिरो॒ न्व॑स्य राविषं॒ न सु॒गं दु॒ष्कृते॑ भुवं॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    प्रिया तष्टानि मे कपिर् व्यक्ता व्य् अदूदुषत् |
    शिरो न्व् अस्य राविषं न सुगं दुष्कृते भुवं विश्वस्माद् इन्द्र उत्तरः ||

    priyā́ taṣṭā́ni me kapírvyáktā vyádūduṣat ǀ
    śíro nvásya rāviṣam ná sugám duṣkṛ́te bhuvam víśvasmādíndra úttaraḥ ǁ

    priyā taṣṭāni me kapir vyaktā vy adūduṣat |
    śiro nv asya rāviṣaṃ na sugaṃ duṣkṛte bhuvaṃ viśvasmād indra uttaraḥ ||

    प्रि॒या । त॒ष्टानि॑ । मे॒ । क॒पिः । विऽअ॑क्ता । वि । अ॒दू॒दु॒ष॒त् ।
    शिरः॑ । नु । अ॒स्य॒ । रा॒वि॒ष॒म् । न । सु॒ऽगम् । दुः॒ऽकृते॑ । भु॒व॒म् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    प्रिया । तष्टानि । मे । कपिः । विऽअक्ता । वि । अदूदुषत् ।
    शिरः । नु । अस्य । राविषम् । न । सुऽगम् । दुःऽकृते । भुवम् । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    priyā́ ǀ taṣṭā́ni ǀ me ǀ kapíḥ ǀ ví-aktā ǀ ví ǀ adūduṣat ǀ
    śíraḥ ǀ nú ǀ asya ǀ rāviṣam ǀ ná ǀ su-gám ǀ duḥ-kṛ́te ǀ bhuvam ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    priyā ǀ taṣṭāni ǀ me ǀ kapiḥ ǀ vi-aktā ǀ vi ǀ adūduṣat ǀ
    śiraḥ ǀ nu ǀ asya ǀ rāviṣam ǀ na ǀ su-gam ǀ duḥ-kṛte ǀ bhuvam ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.5 Aṣṭaka 8.4.1.5Anuvāka 10.7.52

  6. Ṛk 6

    न मत्स्त्री सु॑भ॒सत्त॑रा॒ न सु॒याशु॑तरा भुवत् ।
    न मत्प्रति॑च्यवीयसी॒ न सक्थ्युद्य॑मीयसी॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    न मत् स्त्री सुभसत्तरा न सुयाशुतरा भुवत् |
    न मत् प्रतिच्यवीयसी न सक्थ्य् उद्यमीयसी विश्वस्माद् इन्द्र उत्तरः ||

    ná mátstrī́ subhasáttarā ná suyā́śutarā bhuvat ǀ
    ná mátpráticyavīyasī ná sákthyúdyamīyasī víśvasmādíndra úttaraḥ ǁ

    na mat strī subhasattarā na suyāśutarā bhuvat |
    na mat praticyavīyasī na sakthy udyamīyasī viśvasmād indra uttaraḥ ||

    न । मत् । स्त्री । सु॒भ॒सत्ऽत॑रा । न । सु॒याशु॑ऽतरा । भु॒व॒त् ।
    न । मत् । प्रति॑ऽच्यवीयसी । न । सक्थि॑ । उत्ऽय॑मीयसी । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    न । मत् । स्त्री । सुभसत्ऽतरा । न । सुयाशुऽतरा । भुवत् ।
    न । मत् । प्रतिऽच्यवीयसी । न । सक्थि । उत्ऽयमीयसी । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    ná ǀ mát ǀ strī́ ǀ subhasát-tarā ǀ ná ǀ suyā́śu-tarā ǀ bhuvat ǀ
    ná ǀ mát ǀ práti-cyavīyasī ǀ ná ǀ sákthi ǀ út-yamīyasī ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    na ǀ mat ǀ strī ǀ subhasat-tarā ǀ na ǀ suyāśu-tarā ǀ bhuvat ǀ
    na ǀ mat ǀ prati-cyavīyasī ǀ na ǀ sakthi ǀ ut-yamīyasī ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.6 Aṣṭaka 8.4.2.1Anuvāka 10.7.53

  7. Ṛk 7

    उ॒वे अं॑ब सुलाभिके॒ यथे॑वां॒ग भ॑वि॒ष्यति॑ ।
    भ॒सन्मे॑ अंब॒ सक्थि॑ मे॒ शिरो॑ मे॒ वी॑व हृष्यति॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    उवे अम्ब सुलाभिके यथेवाङ्ग भविष्यति |
    भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्माद् इन्द्र उत्तरः ||

    uvé amba sulābhike yáthevāṅgá bhaviṣyáti ǀ
    bhasánme amba sákthi me śíro me vī́va hṛṣyati víśvasmādíndra úttaraḥ ǁ

    uve amba sulābhike yathevāṅga bhaviṣyati |
    bhasan me amba sakthi me śiro me vīva hṛṣyati viśvasmād indra uttaraḥ ||

    उ॒वे । अ॒म्ब॒ । सु॒ला॒भि॒के॒ । यथा॑ऽइव । अ॒ङ्ग । भ॒वि॒ष्यति॑ ।
    भ॒सत् । मे॒ । अ॒म्ब॒ । सक्थि॑ । मे॒ । शिरः॑ । मे॒ । विऽइ॑व । हृ॒ष्य॒ति॒ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    उवे । अम्ब । सुलाभिके । यथाऽइव । अङ्ग । भविष्यति ।
    भसत् । मे । अम्ब । सक्थि । मे । शिरः । मे । विऽइव । हृष्यति । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    uvé ǀ amba ǀ sulābhike ǀ yáthā-iva ǀ aṅgá ǀ bhaviṣyáti ǀ
    bhasát ǀ me ǀ amba ǀ sákthi ǀ me ǀ śíraḥ ǀ me ǀ ví-iva ǀ hṛṣyati ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    uve ǀ amba ǀ sulābhike ǀ yathā-iva ǀ aṅga ǀ bhaviṣyati ǀ
    bhasat ǀ me ǀ amba ǀ sakthi ǀ me ǀ śiraḥ ǀ me ǀ vi-iva ǀ hṛṣyati ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.7 Aṣṭaka 8.4.2.2Anuvāka 10.7.54

  8. Ṛk 8

    किं सु॑बाहो स्वंगुरे॒ पृथु॑ष्टो॒ पृथु॑जाघने ।
    किं शू॑रपत्नि न॒स्त्वम॒भ्य॑मीषि वृ॒षाक॑पिं॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने |
    किं शूरपत्नि नस् त्वम् अभ्य् अमीषि वृषाकपिं विश्वस्माद् इन्द्र उत्तरः ||

    kím subāho svaṅgure pṛ́thuṣṭo pṛ́thujāghane ǀ
    kím śūrapatni nastvámabhyámīṣi vṛṣā́kapim víśvasmādíndra úttaraḥ ǁ

    kiṃ subāho svaṅgure pṛthuṣṭo pṛthujāghane |
    kiṃ śūrapatni nas tvam abhy amīṣi vṛṣākapiṃ viśvasmād indra uttaraḥ ||

    किम् । सु॒बा॒हो॒ इति॑ सुऽबाहो । सु॒ऽअ॒ङ्गु॒रे॒ । पृथु॑स्तो॒ इति॑ पृथु॑ऽस्तो । पृथु॑ऽजघने ।
    किम् । शू॒र॒ऽप॒त्नि॒ । नः॒ । त्वम् । अ॒भि । अ॒मी॒षि॒ । वृ॒षाक॑पिम् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    किम् । सुबाहो इति सुऽबाहो । सुऽअङ्गुरे । पृथुस्तो इति पृथुऽस्तो । पृथुऽजघने ।
    किम् । शूरऽपत्नि । नः । त्वम् । अभि । अमीषि । वृषाकपिम् । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    kím ǀ subāho íti su-bāho ǀ su-aṅgure ǀ pṛ́thusto íti pṛthu-sto ǀ pṛ́thu-jaghane ǀ
    kím ǀ śūra-patni ǀ naḥ ǀ tvám ǀ abhí ǀ amīṣi ǀ vṛṣā́kapim ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    kim ǀ subāho iti su-bāho ǀ su-aṅgure ǀ pṛthusto iti pṛthu-sto ǀ pṛthu-jaghane ǀ
    kim ǀ śūra-patni ǀ naḥ ǀ tvam ǀ abhi ǀ amīṣi ǀ vṛṣākapim ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.8 Aṣṭaka 8.4.2.3Anuvāka 10.7.55

  9. Ṛk 9

    अ॒वीरा॑मिव॒ माम॒यं श॒रारु॑र॒भि म॑न्यते ।
    उ॒ताहम॑स्मि वी॒रिणींद्र॑पत्नी म॒रुत्स॑खा॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    अवीराम् इव माम् अयं शरारुर् अभि मन्यते |
    उताहम् अस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्माद् इन्द्र उत्तरः ||

    avī́rāmiva mā́mayám śarā́rurabhí manyate ǀ
    utā́hámasmi vīríṇī́ndrapatnī marútsakhā víśvasmādíndra úttaraḥ ǁ

    avīrām iva mām ayaṃ śarārur abhi manyate |
    utāham asmi vīriṇīndrapatnī marutsakhā viśvasmād indra uttaraḥ ||

    अ॒वीरा॑म्ऽइव । माम् । अ॒यम् । श॒रारुः॑ । अ॒भि । म॒न्य॒ते॒ ।
    उ॒त । अ॒हम् । अ॒स्मि॒ । वी॒रिणी॑ । इन्द्र॑ऽपत्नी । म॒रुत्ऽस॑खा । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    अवीराम्ऽइव । माम् । अयम् । शरारुः । अभि । मन्यते ।
    उत । अहम् । अस्मि । वीरिणी । इन्द्रऽपत्नी । मरुत्ऽसखा । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    avī́rām-iva ǀ mā́m ǀ ayám ǀ śarā́ruḥ ǀ abhí ǀ manyate ǀ
    utá ǀ ahám ǀ asmi ǀ vīríṇī ǀ índra-patnī ǀ marút-sakhā ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    avīrām-iva ǀ mām ǀ ayam ǀ śarāruḥ ǀ abhi ǀ manyate ǀ
    uta ǀ aham ǀ asmi ǀ vīriṇī ǀ indra-patnī ǀ marut-sakhā ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.9 Aṣṭaka 8.4.2.4Anuvāka 10.7.56

  10. Ṛk 10

    सं॒हो॒त्रं स्म॑ पु॒रा नारी॒ सम॑नं॒ वाव॑ गच्छति ।
    वे॒धा ऋ॒तस्य॑ वी॒रिणींद्र॑पत्नी महीयते॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    संहोत्रं स्म पुरा नारी समनं वाव गच्छति |
    वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्माद् इन्द्र उत्तरः ||

    saṃhotrám sma purā́ nā́rī sámanam vā́va gacchati ǀ
    vedhā́ ṛtásya vīríṇī́ndrapatnī mahīyate víśvasmādíndra úttaraḥ ǁ

    saṃhotraṃ sma purā nārī samanaṃ vāva gacchati |
    vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmād indra uttaraḥ ||

    स॒म्ऽहो॒त्रम् । स्म॒ । पु॒रा । नारी॑ । सम॑नम् । वा॒ । अव॑ । ग॒च्छ॒ति॒ ।
    वे॒धाः । ऋ॒तस्य॑ । वी॒रिणी॑ । इन्द्र॑ऽपत्नी । म॒ही॒य॒ते॒ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    सम्ऽहोत्रम् । स्म । पुरा । नारी । समनम् । वा । अव । गच्छति ।
    वेधाः । ऋतस्य । वीरिणी । इन्द्रऽपत्नी । महीयते । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    sam-hotrám ǀ sma ǀ purā́ ǀ nā́rī ǀ sámanam ǀ vā ǀ áva ǀ gacchati ǀ
    vedhā́ḥ ǀ ṛtásya ǀ vīríṇī ǀ índra-patnī ǀ mahīyate ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    sam-hotram ǀ sma ǀ purā ǀ nārī ǀ samanam ǀ vā ǀ ava ǀ gacchati ǀ
    vedhāḥ ǀ ṛtasya ǀ vīriṇī ǀ indra-patnī ǀ mahīyate ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.10 Aṣṭaka 8.4.2.5Anuvāka 10.7.57

  11. Ṛk 11

    इं॒द्रा॒णीमा॒सु नारि॑षु सु॒भगा॑म॒हम॑श्रवं ।
    न॒ह्य॑स्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    इन्द्राणीम् आसु नारिषु सुभगाम् अहम् अश्रवम् |
    नह्य् अस्या अपरं चन जरसा मरते पतिर् विश्वस्माद् इन्द्र उत्तरः ||

    indrāṇī́māsú nā́riṣu subhágāmahámaśravam ǀ
    nahyásyā aparám caná jarásā márate pátirvíśvasmādíndra úttaraḥ ǁ

    indrāṇīm āsu nāriṣu subhagām aham aśravam |
    nahy asyā aparaṃ cana jarasā marate patir viśvasmād indra uttaraḥ ||

    इ॒न्द्रा॒णीम् । आ॒सु । नारि॑षु । सु॒ऽभगा॑म् । अ॒हम् । अ॒श्र॒व॒म् ।
    न॒हि । अ॒स्याः॒ । अ॒प॒रम् । च॒न । ज॒रसा॑ । मर॑ते । पतिः॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    इन्द्राणीम् । आसु । नारिषु । सुऽभगाम् । अहम् । अश्रवम् ।
    नहि । अस्याः । अपरम् । चन । जरसा । मरते । पतिः । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    indrāṇī́m ǀ āsú ǀ nā́riṣu ǀ su-bhágām ǀ ahám ǀ aśravam ǀ
    nahí ǀ asyāḥ ǀ aparám ǀ caná ǀ jarásā ǀ márate ǀ pátiḥ ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    indrāṇīm ǀ āsu ǀ nāriṣu ǀ su-bhagām ǀ aham ǀ aśravam ǀ
    nahi ǀ asyāḥ ǀ aparam ǀ cana ǀ jarasā ǀ marate ǀ patiḥ ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.11 Aṣṭaka 8.4.3.1Anuvāka 10.7.58

  12. Ṛk 12

    नाहमिं॑द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेर्ऋ॒ते ।
    यस्ये॒दमप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    नाहम् इन्द्राणि रारण सख्युर् वृषाकपेर् ऋते |
    यस्येदम् अप्यं हविः प्रियं देवेषु गच्छति विश्वस्माद् इन्द्र उत्तरः ||

    nā́hámindrāṇi rāraṇa sákhyurvṛṣā́kaperṛté ǀ
    yásyedámápyam havíḥ priyám devéṣu gácchati víśvasmādíndra úttaraḥ ǁ

    nāham indrāṇi rāraṇa sakhyur vṛṣākaper ṛte |
    yasyedam apyaṃ haviḥ priyaṃ deveṣu gacchati viśvasmād indra uttaraḥ ||

    न । अ॒हम् । इ॒न्द्रा॒णि॒ । र॒र॒ण॒ । सख्युः॑ । वृ॒षाक॑पेः । ऋ॒ते ।
    यस्य॑ । इ॒दम् । अप्य॑म् । ह॒विः । प्रि॒यम् । दे॒वेषु॑ । गच्छ॑ति । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    न । अहम् । इन्द्राणि । ररण । सख्युः । वृषाकपेः । ऋते ।
    यस्य । इदम् । अप्यम् । हविः । प्रियम् । देवेषु । गच्छति । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    ná ǀ ahám ǀ indrāṇi ǀ raraṇa ǀ sákhyuḥ ǀ vṛṣā́kapeḥ ǀ ṛté ǀ
    yásya ǀ idám ǀ ápyam ǀ havíḥ ǀ priyám ǀ devéṣu ǀ gácchati ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    na ǀ aham ǀ indrāṇi ǀ raraṇa ǀ sakhyuḥ ǀ vṛṣākapeḥ ǀ ṛte ǀ
    yasya ǀ idam ǀ apyam ǀ haviḥ ǀ priyam ǀ deveṣu ǀ gacchati ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.12 Aṣṭaka 8.4.3.2Anuvāka 10.7.59

  13. Ṛk 13

    वृषा॑कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे ।
    घस॑त्त॒ इंद्र॑ उ॒क्षणः॑ प्रि॒यं का॑चित्क॒रं ह॒विर्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    वृषाकपायि रेवति सुपुत्र आद् उ सुस्नुषे |
    घसत् त इन्द्र उक्षणः प्रियं काचित्करं हविर् विश्वस्माद् इन्द्र उत्तरः ||

    vṛ́ṣākapāyi révati súputra ā́du súsnuṣe ǀ
    ghásatta índra ukṣáṇaḥ priyám kācitkarám havírvíśvasmādíndra úttaraḥ ǁ

    vṛṣākapāyi revati suputra ād u susnuṣe |
    ghasat ta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havir viśvasmād indra uttaraḥ ||

    वृषा॑कपायि । रेव॑ति । सुऽपु॑त्रे । आत् । ऊं॒ इति॑ । सुऽस्नु॑षे ।
    घस॑त् । ते॒ । इन्द्रः॑ । उ॒क्षणः॑ । प्रि॒यम् । का॒चि॒त्ऽक॒रम् । ह॒विः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    वृषाकपायि । रेवति । सुऽपुत्रे । आत् । ऊं इति । सुऽस्नुषे ।
    घसत् । ते । इन्द्रः । उक्षणः । प्रियम् । काचित्ऽकरम् । हविः । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    vṛ́ṣākapāyi ǀ révati ǀ sú-putre ǀ ā́t ǀ ūṃ íti ǀ sú-snuṣe ǀ
    ghásat ǀ te ǀ índraḥ ǀ ukṣáṇaḥ ǀ priyám ǀ kācit-karám ǀ havíḥ ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    vṛṣākapāyi ǀ revati ǀ su-putre ǀ āt ǀ ūṃ iti ǀ su-snuṣe ǀ
    ghasat ǀ te ǀ indraḥ ǀ ukṣaṇaḥ ǀ priyam ǀ kācit-karam ǀ haviḥ ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.13 Aṣṭaka 8.4.3.3Anuvāka 10.7.60

  14. Ṛk 14

    उ॒क्ष्णो हि मे॒ पंच॑दश सा॒कं पचं॑ति विंश॒तिं ।
    उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णंति मे॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    उक्ष्णो हि मे पञ्चदश साकम् पचन्ति विंशतिम् |
    उताहम् अद्मि पीव इद् उभा कुक्षी पृणन्ति मे विश्वस्माद् इन्द्र उत्तरः ||

    ukṣṇó hí me páñcadaśa sākám pácanti viṃśatím ǀ
    utā́hámadmi pī́va ídubhā́ kukṣī́ pṛṇanti me víśvasmādíndra úttaraḥ ǁ

    ukṣṇo hi me pañcadaśa sākam pacanti viṃśatim |
    utāham admi pīva id ubhā kukṣī pṛṇanti me viśvasmād indra uttaraḥ ||

    उ॒क्ष्णः । हि । मे॒ । पञ्च॑ऽदश । सा॒कम् । पच॑न्ति । विं॒श॒तिम् ।
    उ॒त । अ॒हम् । अ॒द्मि॒ । पीवः॑ । इत् । उ॒भा । कु॒क्षी इति॑ । पृ॒ण॒न्ति॒ । मे॒ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    उक्ष्णः । हि । मे । पञ्चऽदश । साकम् । पचन्ति । विंशतिम् ।
    उत । अहम् । अद्मि । पीवः । इत् । उभा । कुक्षी इति । पृणन्ति । मे । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    ukṣṇáḥ ǀ hí ǀ me ǀ páñca-daśa ǀ sākám ǀ pácanti ǀ viṃśatím ǀ
    utá ǀ ahám ǀ admi ǀ pī́vaḥ ǀ ít ǀ ubhā́ ǀ kukṣī́ íti ǀ pṛṇanti ǀ me ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    ukṣṇaḥ ǀ hi ǀ me ǀ pañca-daśa ǀ sākam ǀ pacanti ǀ viṃśatim ǀ
    uta ǀ aham ǀ admi ǀ pīvaḥ ǀ it ǀ ubhā ǀ kukṣī iti ǀ pṛṇanti ǀ me ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.14 Aṣṭaka 8.4.3.4Anuvāka 10.7.61

  15. Ṛk 15

    वृ॒ष॒भो न ति॒ग्मशृं॑गो॒ऽंतर्यू॒थेषु॒ रोरु॑वत् ।
    मं॒थस्त॑ इंद्र॒ शं हृ॒दे यं ते॑ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    वृषभो न तिग्मशृङ्गो ऽन्तर् यूथेषु रोरुवत् |
    मन्थस् त इन्द्र शं हृदे यं ते सुनोति भावयुर् विश्वस्माद् इन्द्र उत्तरः ||

    vṛṣabhó ná tigmáśṛṅgo’ntáryūthéṣu róruvat ǀ
    manthásta indra śám hṛdé yám te sunóti bhāvayúrvíśvasmādíndra úttaraḥ ǁ

    vṛṣabho na tigmaśṛṅgo 'ntar yūtheṣu roruvat |
    manthas ta indra śaṃ hṛde yaṃ te sunoti bhāvayur viśvasmād indra uttaraḥ ||

    वृ॒ष॒भः । न । ति॒ग्मऽशृ॑ङ्गः । अ॒न्तः । यू॒थेषु॑ । रोरु॑वत् ।
    म॒न्थः । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे । यम् । ते॒ । सु॒नोति॑ । भा॒व॒युः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    वृषभः । न । तिग्मऽशृङ्गः । अन्तः । यूथेषु । रोरुवत् ।
    मन्थः । ते । इन्द्र । शम् । हृदे । यम् । ते । सुनोति । भावयुः । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    vṛṣabháḥ ǀ ná ǀ tigmá-śṛṅgaḥ ǀ antáḥ ǀ yūthéṣu ǀ róruvat ǀ
    mantháḥ ǀ te ǀ indra ǀ śám ǀ hṛdé ǀ yám ǀ te ǀ sunóti ǀ bhāvayúḥ ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    vṛṣabhaḥ ǀ na ǀ tigma-śṛṅgaḥ ǀ antaḥ ǀ yūtheṣu ǀ roruvat ǀ
    manthaḥ ǀ te ǀ indra ǀ śam ǀ hṛde ǀ yam ǀ te ǀ sunoti ǀ bhāvayuḥ ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.15 Aṣṭaka 8.4.3.5Anuvāka 10.7.62

  16. Ṛk 16

    न सेशे॒ यस्य॒ रंब॑तेऽंत॒रा स॒क्थ्या॒३॒॑ कपृ॑त् ।
    सेदी॑शे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृंभ॑ते॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    न सेशे यस्य रम्बते ऽन्तरा सक्थ्या कपृत् |
    सेद् ईशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्माद् इन्द्र उत्तरः ||

    ná séśe yásya rámbate’ntarā́ sakthyā́ kápṛt ǀ
    sédīśe yásya romaśám niṣedúṣo vijṛ́mbhate víśvasmādíndra úttaraḥ ǁ

    na seśe yasya rambate 'ntarā sakthyā kapṛt |
    sed īśe yasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmād indra uttaraḥ ||

    न । सः । ई॒शे॒ । यस्य॑ । रम्ब॑ते । अ॒न्त॒रा । स॒क्थ्या॑ । कपृ॑त् ।
    सः । इत् । ई॒शे॒ । यस्य॑ । रो॒म॒शम् । नि॒ऽसे॒दुषः॑ । वि॒ऽजृम्भ॑ते । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    न । सः । ईशे । यस्य । रम्बते । अन्तरा । सक्थ्या । कपृत् ।
    सः । इत् । ईशे । यस्य । रोमशम् । निऽसेदुषः । विऽजृम्भते । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    ná ǀ sáḥ ǀ īśe ǀ yásya ǀ rámbate ǀ antarā́ ǀ sakthyā́ ǀ kápṛt ǀ
    sáḥ ǀ ít ǀ īśe ǀ yásya ǀ romaśám ǀ ni-sedúṣaḥ ǀ vi-jṛ́mbhate ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    na ǀ saḥ ǀ īśe ǀ yasya ǀ rambate ǀ antarā ǀ sakthyā ǀ kapṛt ǀ
    saḥ ǀ it ǀ īśe ǀ yasya ǀ romaśam ǀ ni-seduṣaḥ ǀ vi-jṛmbhate ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.16 Aṣṭaka 8.4.4.1Anuvāka 10.7.63

  17. Ṛk 17

    न सेशे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृंभ॑ते ।
    सेदी॑शे॒ यस्य॒ रंब॑तेऽंत॒रा स॒क्थ्या॒३॒॑ कपृ॒द्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    न सेशे यस्य रोमशं निषेदुषो विजृम्भते |
    सेद् ईशे यस्य रम्बते ऽन्तरा सक्थ्या कपृद् विश्वस्माद् इन्द्र उत्तरः ||

    ná séśe yásya romaśám niṣedúṣo vijṛ́mbhate ǀ
    sédīśe yásya rámbate’ntarā́ sakthyā́ kápṛdvíśvasmādíndra úttaraḥ ǁ

    na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate |
    sed īśe yasya rambate 'ntarā sakthyā kapṛd viśvasmād indra uttaraḥ ||

    न । सः । ई॒शे॒ । यस्य॑ । रो॒म॒शम् । नि॒ऽसे॒दुषः॑ । वि॒ऽजृम्भ॑ते ।
    सः । इत् । ई॒शे॒ । यस्य॑ । रम्ब॑ते । अ॒न्त॒रा । स॒क्थ्या॑ । कपृ॑त् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    न । सः । ईशे । यस्य । रोमशम् । निऽसेदुषः । विऽजृम्भते ।
    सः । इत् । ईशे । यस्य । रम्बते । अन्तरा । सक्थ्या । कपृत् । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    ná ǀ sáḥ ǀ īśe ǀ yásya ǀ romaśám ǀ ni-sedúṣaḥ ǀ vi-jṛ́mbhate ǀ
    sáḥ ǀ ít ǀ īśe ǀ yásya ǀ rámbate ǀ antarā́ ǀ sakthyā́ ǀ kápṛt ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    na ǀ saḥ ǀ īśe ǀ yasya ǀ romaśam ǀ ni-seduṣaḥ ǀ vi-jṛmbhate ǀ
    saḥ ǀ it ǀ īśe ǀ yasya ǀ rambate ǀ antarā ǀ sakthyā ǀ kapṛt ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.17 Aṣṭaka 8.4.4.2Anuvāka 10.7.64

  18. Ṛk 18

    अ॒यमिं॑द्र वृ॒षाक॑पिः॒ पर॑स्वंतं ह॒तं वि॑दत् ।
    अ॒सिं सू॒नां नवं॑ च॒रुमादेध॒स्यान॒ आचि॑तं॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    अयम् इन्द्र वृषाकपिः परस्वन्तं हतं विदत् |
    असिं सूनां नवं चरुम् आद् एधस्यान आचितं विश्वस्माद् इन्द्र उत्तरः ||

    ayámindra vṛṣā́kapiḥ párasvantam hatám vidat ǀ
    asím sūnā́m návam carúmā́dédhasyā́na ā́citam víśvasmādíndra úttaraḥ ǁ

    ayam indra vṛṣākapiḥ parasvantaṃ hataṃ vidat |
    asiṃ sūnāṃ navaṃ carum ād edhasyāna ācitaṃ viśvasmād indra uttaraḥ ||

    अ॒यम् । इ॒न्द्र॒ । वृ॒षाक॑पिः । पर॑स्वन्तम् । ह॒तम् । वि॒द॒त् ।
    अ॒सिम् । सू॒नाम् । नव॑म् । च॒रुम् । आत् । एध॑स्य । अनः॑ । आऽचि॑तम् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    अयम् । इन्द्र । वृषाकपिः । परस्वन्तम् । हतम् । विदत् ।
    असिम् । सूनाम् । नवम् । चरुम् । आत् । एधस्य । अनः । आऽचितम् । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    ayám ǀ indra ǀ vṛṣā́kapiḥ ǀ párasvantam ǀ hatám ǀ vidat ǀ
    asím ǀ sūnā́m ǀ návam ǀ carúm ǀ ā́t ǀ édhasya ǀ ánaḥ ǀ ā́-citam ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    ayam ǀ indra ǀ vṛṣākapiḥ ǀ parasvantam ǀ hatam ǀ vidat ǀ
    asim ǀ sūnām ǀ navam ǀ carum ǀ āt ǀ edhasya ǀ anaḥ ǀ ā-citam ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.18 Aṣṭaka 8.4.4.3Anuvāka 10.7.65

  19. Ṛk 19

    अ॒यमे॑मि वि॒चाक॑शद्विचि॒न्वंदास॒मार्यं॑ ।
    पिबा॑मि पाक॒सुत्व॑नो॒ऽभि धीर॑मचाकशं॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    अयम् एमि विचाकशद् विचिन्वन् दासम् आर्यम् |
    पिबामि पाकसुत्वनो ऽभि धीरम् अचाकशं विश्वस्माद् इन्द्र उत्तरः ||

    ayámemi vicā́kaśadvicinvándā́samā́ryam ǀ
    píbāmi pākasútvano’bhí dhī́ramacākaśam víśvasmādíndra úttaraḥ ǁ

    ayam emi vicākaśad vicinvan dāsam āryam |
    pibāmi pākasutvano 'bhi dhīram acākaśaṃ viśvasmād indra uttaraḥ ||

    अ॒यम् । ए॒मि॒ । वि॒ऽचाक॑शत् । वि॒ऽचि॒न्वन् । दास॑म् । आर्य॑म् ।
    पिबा॑मि । पा॒क॒ऽसुत्व॑नः । अ॒भि । धीर॑म् । अ॒चा॒क॒श॒म् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    अयम् । एमि । विऽचाकशत् । विऽचिन्वन् । दासम् । आर्यम् ।
    पिबामि । पाकऽसुत्वनः । अभि । धीरम् । अचाकशम् । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    ayám ǀ emi ǀ vi-cā́kaśat ǀ vi-cinván ǀ dā́sam ǀ ā́ryam ǀ
    píbāmi ǀ pāka-sútvanaḥ ǀ abhí ǀ dhī́ram ǀ acākaśam ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    ayam ǀ emi ǀ vi-cākaśat ǀ vi-cinvan ǀ dāsam ǀ āryam ǀ
    pibāmi ǀ pāka-sutvanaḥ ǀ abhi ǀ dhīram ǀ acākaśam ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.19 Aṣṭaka 8.4.4.4Anuvāka 10.7.66

  20. Ṛk 20

    धन्व॑ च॒ यत्कृं॒तत्रं॑ च॒ कति॑ स्वि॒त्ता वि योज॑ना ।
    नेदी॑यसो वृषाक॒पेऽस्त॒मेहि॑ गृ॒हाँ उप॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    धन्व च यत् कृन्तत्रं च कति स्वित् ता वि योजना |
    नेदीयसो वृषाकपे ऽस्तम् एहि गृहां उप विश्वस्माद् इन्द्र उत्तरः ||

    dhánva ca yátkṛntátram ca káti svittā́ ví yójanā ǀ
    nédīyaso vṛṣākapé’staméhi gṛhā́m̐ úpa víśvasmādíndra úttaraḥ ǁ

    dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā |
    nedīyaso vṛṣākape 'stam ehi gṛhāṃ upa viśvasmād indra uttaraḥ ||

    धन्व॑ । च॒ । यत् । कृ॒न्तत्र॑म् । च॒ । कति॑ । स्वि॒त् । ता । वि । योज॑ना ।
    नेदी॑यसः । वृ॒षा॒क॒पे॒ । अस्त॑म् । आ । इ॒हि॒ । गृ॒हान् । उप॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    धन्व । च । यत् । कृन्तत्रम् । च । कति । स्वित् । ता । वि । योजना ।
    नेदीयसः । वृषाकपे । अस्तम् । आ । इहि । गृहान् । उप । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    dhánva ǀ ca ǀ yát ǀ kṛntátram ǀ ca ǀ káti ǀ svit ǀ tā́ ǀ ví ǀ yójanā ǀ
    nédīyasaḥ ǀ vṛṣākape ǀ ástam ǀ ā́ ǀ ihi ǀ gṛhā́n ǀ úpa ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    dhanva ǀ ca ǀ yat ǀ kṛntatram ǀ ca ǀ kati ǀ svit ǀ tā ǀ vi ǀ yojanā ǀ
    nedīyasaḥ ǀ vṛṣākape ǀ astam ǀ ā ǀ ihi ǀ gṛhān ǀ upa ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.20 Aṣṭaka 8.4.4.5Anuvāka 10.7.67

  21. Ṛk 21

    पुन॒रेहि॑ वृषाकपे सुवि॒ता क॑ल्पयावहै ।
    य ए॒ष स्व॑प्न॒नंश॒नोऽस्त॒मेषि॑ प॒था पुन॒र्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    पुनर् एहि वृषाकपे सुविता कल्पयावहै |
    य एष स्वप्ननंशनो ऽस्तम् एषि पथा पुनर् विश्वस्माद् इन्द्र उत्तरः ||

    púnaréhi vṛṣākape suvitā́ kalpayāvahai ǀ
    yá eṣá svapnanáṃśanó’staméṣi pathā́ púnarvíśvasmādíndra úttaraḥ ǁ

    punar ehi vṛṣākape suvitā kalpayāvahai |
    ya eṣa svapnanaṃśano 'stam eṣi pathā punar viśvasmād indra uttaraḥ ||

    पुनः॑ । आ । इ॒हि॒ । वृ॒षा॒क॒पे॒ । सु॒वि॒ता । क॒ल्प॒या॒व॒है॒ ।
    यः । ए॒षः । स्व॒प्न॒ऽनंश॑नः । अस्त॑म् । एषि॑ । प॒था । पुनः॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    पुनः । आ । इहि । वृषाकपे । सुविता । कल्पयावहै ।
    यः । एषः । स्वप्नऽनंशनः । अस्तम् । एषि । पथा । पुनः । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    púnaḥ ǀ ā́ ǀ ihi ǀ vṛṣākape ǀ suvitā́ ǀ kalpayāvahai ǀ
    yáḥ ǀ eṣáḥ ǀ svapna-náṃśanaḥ ǀ ástam ǀ éṣi ǀ pathā́ ǀ púnaḥ ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    punaḥ ǀ ā ǀ ihi ǀ vṛṣākape ǀ suvitā ǀ kalpayāvahai ǀ
    yaḥ ǀ eṣaḥ ǀ svapna-naṃśanaḥ ǀ astam ǀ eṣi ǀ pathā ǀ punaḥ ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.21 Aṣṭaka 8.4.4.6Anuvāka 10.7.68

  22. Ṛk 22

    यदुदं॑चो वृषाकपे गृ॒हमिं॒द्राज॑गंतन ।
    क्व१॒॑ स्य पु॑ल्व॒घो मृ॒गः कम॑गंजन॒योप॑नो॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    यद् उदञ्चो वृषाकपे गृहम् इन्द्राजगन्तन |
    क्व स्य पुल्वघो मृगः कम् अगञ् जनयोपनो विश्वस्माद् इन्द्र उत्तरः ||

    yádúdañco vṛṣākape gṛhámindrā́jagantana ǀ
    kvá syá pulvaghó mṛgáḥ kámagañjanayópano víśvasmādíndra úttaraḥ ǁ

    yad udañco vṛṣākape gṛham indrājagantana |
    kva sya pulvagho mṛgaḥ kam agañ janayopano viśvasmād indra uttaraḥ ||

    यत् । उद॑ञ्चः । वृ॒षा॒क॒पे॒ । गृ॒हम् । इ॒न्द्र॒ । अज॑गन्तन ।
    क्व॑ । स्यः । पु॒ल्व॒घः । मृ॒गः । कम् । अ॒ग॒न् । ज॒न॒ऽयोप॑नः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    यत् । उदञ्चः । वृषाकपे । गृहम् । इन्द्र । अजगन्तन ।
    क्व । स्यः । पुल्वघः । मृगः । कम् । अगन् । जनऽयोपनः । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    yát ǀ údañcaḥ ǀ vṛṣākape ǀ gṛhám ǀ indra ǀ ájagantana ǀ
    kvá ǀ syáḥ ǀ pulvagháḥ ǀ mṛgáḥ ǀ kám ǀ agan ǀ jana-yópanaḥ ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    yat ǀ udañcaḥ ǀ vṛṣākape ǀ gṛham ǀ indra ǀ ajagantana ǀ
    kva ǀ syaḥ ǀ pulvaghaḥ ǀ mṛgaḥ ǀ kam ǀ agan ǀ jana-yopanaḥ ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.22 Aṣṭaka 8.4.4.7Anuvāka 10.7.69

  23. Ṛk 23

    पर्शु॑र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिं ।
    भ॒द्रं भ॑ल॒ त्यस्या॑ अभू॒द्यस्या॑ उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

    पर्शुर् ह नाम मानवी साकं ससूव विंशतिम् |
    भद्रम् भल त्यस्या अभूद् यस्या उदरम् आमयद् विश्वस्माद् इन्द्र उत्तरः ||

    párśurha nā́ma mānavī́ sākám sasūva viṃśatím ǀ
    bhadrám bhala tyásyā abhūdyásyā udáramā́mayadvíśvasmādíndra úttaraḥ ǁ

    parśur ha nāma mānavī sākaṃ sasūva viṃśatim |
    bhadram bhala tyasyā abhūd yasyā udaram āmayad viśvasmād indra uttaraḥ ||

    पर्शुः॑ । ह॒ । नाम॑ । मा॒न॒वी । सा॒कम् । स॒सू॒व॒ । विं॒श॒तिम् ।
    भ॒द्रम् । भ॒ल॒ । त्यस्यै॑ । अ॒भू॒त् । यस्याः॑ । उ॒दर॑म् । आम॑यत् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

    पर्शुः । ह । नाम । मानवी । साकम् । ससूव । विंशतिम् ।
    भद्रम् । भल । त्यस्यै । अभूत् । यस्याः । उदरम् । आमयत् । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

    párśuḥ ǀ ha ǀ nā́ma ǀ mānavī́ ǀ sākám ǀ sasūva ǀ viṃśatím ǀ
    bhadrám ǀ bhala ǀ tyásyai ǀ abhūt ǀ yásyāḥ ǀ udáram ǀ ā́mayat ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

    parśuḥ ǀ ha ǀ nāma ǀ mānavī ǀ sākam ǀ sasūva ǀ viṃśatim ǀ
    bhadram ǀ bhala ǀ tyasyai ǀ abhūt ǀ yasyāḥ ǀ udaram ǀ āmayat ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

    10.86.23 Aṣṭaka 8.4.4.8Anuvāka 10.7.70

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.86 · Varuṇa · Indra · Indrāṇī · Vṛṣākapi

Interpretations

Ralph T. H. Griffith

Ṛk 1

MEN have abstained from pouring juice they count not Indra as a God. Where at the votary's store my friend Vrsakapi hath drunk his fill. Supreme is Indra over all.

Ṛk 2

Thou, Indra, heedless passest by the ill Vrsakapi hath wrought; Yet nowhere else thou findest place wherein to drink the Soma juice. Supreme is Indra over all.

Ṛk 3

What hath he done to injure thee, this tawny beast Vrsakapi, With whom thou art so angry now? What is the votary's foodful store? Supreme is Indra over all.

Ṛk 4

Soon may the hound who hunts the boar seize him and bite him in the car, O Indra, that Vrsakapi whom thou protectest as a friend, Supreme is Indra over all.

Ṛk 5

Kapi hath marred the beauteous things, all deftly wrought, that were my joy. In pieces will I rend his head; the sinner's portion sball be woo. Supreme is Indra over all.

Ṛk 6

No Dame hath ampler charms than 1, or greater wealth of love's delights. None with more ardour offers all her beauty to her lord's embrace. Supreme is Indra over all.

Ṛk 7

Mother whose love is quickly wibn, I say what verily will be. My,breast, O Mother, and my head and both my hips seem quivering. Supreme is Indra over all.

Ṛk 8

Dame with the lovely hands and arms, with broad hair-plaits add ample hips, Why, O thou Hero's wife, art thou angry with our Vrsakapi? Supreme is Indra over all.

Ṛk 9

This noxious creature looks on me as one bereft of hero's love, Yet Heroes for my sons have I, the Maruts’ Friend and Indra's Queen. Supreme is Indra over all.

Ṛk 10

From olden time the matron goes to feast and general sacrifice. Mother of Heroes, Indra's Queen, the rite's ordainer is extolled. Supreme is Indra over all.

Ṛk 11

So have I heard Indrāṇī called most fortunate among these Dames, For never shall her Consort die in future time through length of days. Supreme is Indra overall.

Ṛk 12

Never, Indralni, have I joyed without my friend Vrsakapi, Whose welcome offering here, made pure with water, goeth to the Gods. Supreme is Indra over all.

Ṛk 13

Wealthy Vrsakapayi, blest with sons and consorts of thy sons, Indra will eat thy bulls, thy dear oblation that effecteth much. Supreme is Indra over all.

Ṛk 14

Fifteen in number, then, for me a score of bullocks they prepare, And I devour the fat thereof: they fill my belly full with food. Supreme is Indra over all.

Ṛk 15

Like as a bull with pointed horn, loud bellowing amid the herds, Sweet to thine heart, O Indra, is the brew which she who tends thee pours. Supreme is Indra over all.

Ṛk 16

O Indra this Vrsakapi hath found a slain wild animal, Dresser, and new-made pan, and knife, and wagon with a load of wood. Supreme is Indra over all.

Ṛk 17

Distinguishing the Dāsa and the Ārya, viewing all, I go. I look upon the wise, and drink the simple votary's Soma juice. Supreme is Indra over all.

Ṛk 18

The desert plains and steep descents, how many leagues in length they spread! Go to the nearest houses, go unto thine home, Vrsakapi. Supreme is Indra over all.

Ṛk 19

Turn thee again Vrsakapi: we twain will bring thee happiness. Thou goest homeward on thy way along this path which leads to sleep. Supreme is Indra over all.

Ṛk 20

When, Indra and Vrsakapi, ye travelled upward to your home, Where was that noisome beast, to whom went it, the beast that troubles man? Supreme is Indra over all.