Ṛgveda · Maṇḍala 10 · Sūkta 86

Ṛk 10.86.21

Varuṇa · Indra · Indrāṇī · Vṛṣākapi · 1, 8, 11, 12, 14, 19-22: Indra; 2-6, 9, 10, 15-18: Indrāṇī; 7, 13, 23: Vṛṣākapi Aindra

The whole sūkta Link

Saṃhitā

पुन॒रेहि॑ वृषाकपे सुवि॒ता क॑ल्पयावहै ।
य ए॒ष स्व॑प्न॒नंश॒नोऽस्त॒मेषि॑ प॒था पुन॒र्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

पुनर् एहि वृषाकपे सुविता कल्पयावहै |
य एष स्वप्ननंशनो ऽस्तम् एषि पथा पुनर् विश्वस्माद् इन्द्र उत्तरः ||

púnaréhi vṛṣākape suvitā́ kalpayāvahai ǀ
yá eṣá svapnanáṃśanó’staméṣi pathā́ púnarvíśvasmādíndra úttaraḥ ǁ

punar ehi vṛṣākape suvitā kalpayāvahai |
ya eṣa svapnanaṃśano 'stam eṣi pathā punar viśvasmād indra uttaraḥ ||

Padapāṭha

पुनः॑ । आ । इ॒हि॒ । वृ॒षा॒क॒पे॒ । सु॒वि॒ता । क॒ल्प॒या॒व॒है॒ ।
यः । ए॒षः । स्व॒प्न॒ऽनंश॑नः । अस्त॑म् । एषि॑ । प॒था । पुनः॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

पुनः । आ । इहि । वृषाकपे । सुविता । कल्पयावहै ।
यः । एषः । स्वप्नऽनंशनः । अस्तम् । एषि । पथा । पुनः । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

púnaḥ ǀ ā́ ǀ ihi ǀ vṛṣākape ǀ suvitā́ ǀ kalpayāvahai ǀ
yáḥ ǀ eṣáḥ ǀ svapna-náṃśanaḥ ǀ ástam ǀ éṣi ǀ pathā́ ǀ púnaḥ ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

punaḥ ǀ ā ǀ ihi ǀ vṛṣākape ǀ suvitā ǀ kalpayāvahai ǀ
yaḥ ǀ eṣaḥ ǀ svapna-naṃśanaḥ ǀ astam ǀ eṣi ǀ pathā ǀ punaḥ ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.086.21
Aṣṭaka · Adhyāya · Varga · Ṛk
8.4.04.06
Maṇḍala · Anuvāka · Ṛk
10.07.068
Devatā देवता
1, 7, 13: Varuṇa; 2-5, 14-16, 18, 19, 23: Indra; 6, 8-12, 17: Indrāṇī; 20-22: Vṛṣākapi
Ṛṣi ऋषि
1, 8, 11, 12, 14, 19-22: Indra; 2-6, 9, 10, 15-18: Indrāṇī; 7, 13, 23: Vṛṣākapi Aindra
Chandas छन्दस्
Paṅkti
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.86.21

Interpretations

Sāyaṇa

आगत्य प्रतिगतं वृषाकपिमिन्द्रो ब्रविति। हे वृषाकपे त्वम् पुनरेहि। अस्मान्प्रत्यागच्छ। आगते च त्वयि सुविता सुवितानि कल्याणानि त्वच्चित्तप्रीतिकराणि कर्माणि कल्पयावहै। इन्द्राण्यहं चावामुभौ पर्यालोच्य कुर्याव। किञ्च यः स्वप्ननंशन उदयेन सर्वस्य प्राणिनह् स्वप्नानाम् नाशयितादित्यः स एष त्वं पथा मारेगेणास्तमात्मीयमावासं पुनरेषि। गच्छसि। यतोऽहमिन्द्रो विश्वस्मादुत्तरः। तथा यास्कः। सुप्रसूतानि वः कर्माणि कल्पयावहै य एष स्वप्नसंशनः। स्वप्नान्ना तयस्यादित्य उदयेन सोऽस्तमेषि पथा पुनः। नि. १२-२८। इति॥२१॥