Sūkta 130
- Devatā देवता
- Bhāvavṛttam
- Ṛṣi ऋषि
- Yajña Prājāpatya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
Metres by ṛk
1st set of styles triṣṭup (3, 6, 7); virāḍjagatī (1); bhuriktriṣṭup (2); virāṭtrisṭup (4); nicṛttriṣṭup (5)
2nd set of styles triṣṭubh (2-7); jagatī (1)
-
Ṛk 1
यो य॒ज्ञो वि॒श्वत॒स्तंतु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः ।
इ॒मे व॑यंति पि॒तरो॒ य आ॑य॒युः प्र व॒याप॑ व॒येत्या॑सते त॒ते ॥यो यज्ञो विश्वतस् तन्तुभिस् तत एकशतं देवकर्मेभिर् आयतः |
इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्य् आसते तते ||yó yajñó viśvátastántubhistatá ékaśatam devakarmébhirā́yataḥ ǀ
imé vayanti pitáro yá āyayúḥ prá vayā́pa vayétyāsate taté ǁyo yajño viśvatas tantubhis tata ekaśataṃ devakarmebhir āyataḥ |
ime vayanti pitaro ya āyayuḥ pra vayāpa vayety āsate tate ||यः । य॒ज्ञः । वि॒श्वतः॑ । तन्तु॑ऽभिः । त॒तः । एक॑ऽशतम् । दे॒व॒ऽक॒र्मेभिः॑ । आऽय॑तः ।
इ॒मे । व॒य॒न्ति॒ । पि॒तरः॑ । ये । आ॒ऽय॒युः । प्र । व॒य॒ । अप॑ । व॒य॒ । इति॑ । आ॒स॒ते॒ । त॒ते ॥यः । यज्ञः । विश्वतः । तन्तुऽभिः । ततः । एकऽशतम् । देवऽकर्मेभिः । आऽयतः ।
इमे । वयन्ति । पितरः । ये । आऽययुः । प्र । वय । अप । वय । इति । आसते । तते ॥yáḥ ǀ yajñáḥ ǀ viśvátaḥ ǀ tántu-bhiḥ ǀ tatáḥ ǀ éka-śatam ǀ deva-karmébhiḥ ǀ ā́-yataḥ ǀ
imé ǀ vayanti ǀ pitáraḥ ǀ yé ǀ ā-yayúḥ ǀ prá ǀ vaya ǀ ápa ǀ vaya ǀ íti ǀ āsate ǀ taté ǁyaḥ ǀ yajñaḥ ǀ viśvataḥ ǀ tantu-bhiḥ ǀ tataḥ ǀ eka-śatam ǀ deva-karmebhiḥ ǀ ā-yataḥ ǀ
ime ǀ vayanti ǀ pitaraḥ ǀ ye ǀ ā-yayuḥ ǀ pra ǀ vaya ǀ apa ǀ vaya ǀ iti ǀ āsate ǀ tate ǁ10.130.1 Aṣṭaka 8.7.18.1Anuvāka 10.11.8
-
Ṛk 2
पुमाँ॑ एनं तनुत॒ उत्कृ॑णत्ति॒ पुमा॒न्वि त॑त्ने॒ अधि॒ नाके॑ अ॒स्मिन् ।
इ॒मे म॒यूखा॒ उप॑ सेदुरू॒ सदः॒ सामा॑नि चक्रु॒स्तस॑रा॒ण्योत॑वे ॥पुमां एनं तनुत उत् कृणत्ति पुमान् वि तत्ने अधि नाके अस्मिन् |
इमे मयूखा उप सेदुर् ऊ सदः सामानि चक्रुस् तसराण्य् ओतवे ||púmām̐ enam tanuta útkṛṇatti púmānví tatne ádhi nā́ke asmín ǀ
imé mayū́khā úpa sedurū sádaḥ sā́māni cakrustásarāṇyótave ǁpumāṃ enaṃ tanuta ut kṛṇatti pumān vi tatne adhi nāke asmin |
ime mayūkhā upa sedur ū sadaḥ sāmāni cakrus tasarāṇy otave ||पुमा॑न् । ए॒न॒म् । त॒नु॒ते॒ । उत् । कृ॒ण॒त्ति॒ । पुमा॑न् । वि । त॒त्ने॒ । अधि॑ । नाके॑ । अ॒स्मिन् ।
इ॒मे । म॒यूखाः॑ । उप॑ । से॒दुः॒ । ऊं॒ इति॑ । सदः॑ । सामा॑नि । च॒क्रुः॒ । तस॑राणि । ओत॑वे ॥पुमान् । एनम् । तनुते । उत् । कृणत्ति । पुमान् । वि । तत्ने । अधि । नाके । अस्मिन् ।
इमे । मयूखाः । उप । सेदुः । ऊं इति । सदः । सामानि । चक्रुः । तसराणि । ओतवे ॥púmān ǀ enam ǀ tanute ǀ út ǀ kṛṇatti ǀ púmān ǀ ví ǀ tatne ǀ ádhi ǀ nā́ke ǀ asmín ǀ
imé ǀ mayū́khāḥ ǀ úpa ǀ seduḥ ǀ ūṃ íti ǀ sádaḥ ǀ sā́māni ǀ cakruḥ ǀ tásarāṇi ǀ ótave ǁpumān ǀ enam ǀ tanute ǀ ut ǀ kṛṇatti ǀ pumān ǀ vi ǀ tatne ǀ adhi ǀ nāke ǀ asmin ǀ
ime ǀ mayūkhāḥ ǀ upa ǀ seduḥ ǀ ūṃ iti ǀ sadaḥ ǀ sāmāni ǀ cakruḥ ǀ tasarāṇi ǀ otave ǁ10.130.2 Aṣṭaka 8.7.18.2Anuvāka 10.11.9
-
Ṛk 3
कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् ।
छंदः॒ किमा॑सी॒त्प्रउ॑गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जंत॒ विश्वे॑ ॥कासीत् प्रमा प्रतिमा किं निदानम् आज्यं किम् आसीत् परिधिः क आसीत् |
छन्दः किम् आसीत् प्रौगं किम् उक्थं यद् देवा देवम् अयजन्त विश्वे ||kā́sītpramā́ pratimā́ kím nidā́namā́jyam kímāsītparidhíḥ ká āsīt ǀ
chándaḥ kímāsītprá+ugam kímukthám yáddevā́ devámáyajanta víśve ǁkāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt |
chandaḥ kim āsīt praugaṃ kim ukthaṃ yad devā devam ayajanta viśve ||का । आ॒सी॒त् । प्र॒ऽमा । प्र॒ति॒ऽमा । किम् । नि॒ऽदान॑म् । आज्य॑म् । किम् । आ॒सी॒त् । प॒रि॒ऽधिः । कः । आ॒सी॒त् ।
छन्दः॑ । किम् । आ॒सी॒त् । प्रउ॑गम् । किम् । उ॒क्थम् । यत् । दे॒वाः । दे॒वम् । अय॑जन्त । विश्वे॑ ॥का । आसीत् । प्रऽमा । प्रतिऽमा । किम् । निऽदानम् । आज्यम् । किम् । आसीत् । परिऽधिः । कः । आसीत् ।
छन्दः । किम् । आसीत् । प्रउगम् । किम् । उक्थम् । यत् । देवाः । देवम् । अयजन्त । विश्वे ॥kā́ ǀ āsīt ǀ pra-mā́ ǀ prati-mā́ ǀ kím ǀ ni-dā́nam ǀ ā́jyam ǀ kím ǀ āsīt ǀ pari-dhíḥ ǀ káḥ ǀ āsīt ǀ
chándaḥ ǀ kím ǀ āsīt ǀ prá_ugam ǀ kím ǀ ukthám ǀ yát ǀ devā́ḥ ǀ devám ǀ áyajanta ǀ víśve ǁkā ǀ āsīt ǀ pra-mā ǀ prati-mā ǀ kim ǀ ni-dānam ǀ ājyam ǀ kim ǀ āsīt ǀ pari-dhiḥ ǀ kaḥ ǀ āsīt ǀ
chandaḥ ǀ kim ǀ āsīt ǀ pra_ugam ǀ kim ǀ uktham ǀ yat ǀ devāḥ ǀ devam ǀ ayajanta ǀ viśve ǁ10.130.3 Aṣṭaka 8.7.18.3Anuvāka 10.11.10
-
Ṛk 4
अ॒ग्नेर्गा॑य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव ।
अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्बृह॒स्पते॑र्बृह॒ती वाच॑मावत् ॥अग्नेर् गायत्र्य् अभवत् सयुग्वोष्णिहया सविता सम् बभूव |
अनुष्टुभा सोम उक्थैर् महस्वान् बृहस्पतेर् बृहती वाचम् आवत् ||agnérgāyatryábhavatsayúgvoṣṇíhayā savitā́ sám babhūva ǀ
anuṣṭúbhā sóma uktháirmáhasvānbṛ́haspáterbṛhatī́ vā́camāvat ǁagner gāyatry abhavat sayugvoṣṇihayā savitā sam babhūva |
anuṣṭubhā soma ukthair mahasvān bṛhaspater bṛhatī vācam āvat ||अ॒ग्नेः । गा॒य॒त्री । अ॒भ॒व॒त् । स॒ऽयुग्वा॑ । उ॒ष्णिह॑या । स॒वि॒ता । सम् । ब॒भू॒व॒ ।
अ॒नु॒ऽस्तुभा॑ । सोमः॑ । उ॒क्थैः । मह॑स्वान् । बृह॒स्पतेः॑ । बृ॒ह॒ती । वाच॑म् । आ॒व॒त् ॥अग्नेः । गायत्री । अभवत् । सऽयुग्वा । उष्णिहया । सविता । सम् । बभूव ।
अनुऽस्तुभा । सोमः । उक्थैः । महस्वान् । बृहस्पतेः । बृहती । वाचम् । आवत् ॥agnéḥ ǀ gāyatrī́ ǀ abhavat ǀ sa-yúgvā ǀ uṣṇíhayā ǀ savitā́ ǀ sám ǀ babhūva ǀ
anu-stúbhā ǀ sómaḥ ǀ uktháiḥ ǀ máhasvān ǀ bṛ́haspáteḥ ǀ bṛhatī́ ǀ vā́cam ǀ āvat ǁagneḥ ǀ gāyatrī ǀ abhavat ǀ sa-yugvā ǀ uṣṇihayā ǀ savitā ǀ sam ǀ babhūva ǀ
anu-stubhā ǀ somaḥ ǀ ukthaiḥ ǀ mahasvān ǀ bṛhaspateḥ ǀ bṛhatī ǀ vācam ǀ āvat ǁ10.130.4 Aṣṭaka 8.7.18.4Anuvāka 10.11.11
-
Ṛk 5
वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिंद्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो अह्नः॑ ।
विश्वां॑दे॒वांजग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्याः॑ ॥विराण् मित्रावरुणयोर् अभिश्रीर् इन्द्रस्य त्रिष्टुब् इह भागो अह्नः |
विश्वान् देवाञ् जगत्य् आ विवेश तेन चाकॢप्र ऋषयो मनुष्याः ||virā́ṇmitrā́váruṇayorabhiśrī́ríndrasya triṣṭúbihá bhāgó áhnaḥ ǀ
víśvāndevā́ñjágatyā́ viveśa téna cākḽpra ṛ́ṣayo manuṣyā́ḥ ǁvirāṇ mitrāvaruṇayor abhiśrīr indrasya triṣṭub iha bhāgo ahnaḥ |
viśvān devāñ jagaty ā viveśa tena cākḷpra ṛṣayo manuṣyāḥ ||वि॒राट् । मि॒त्रावरु॑णयोः । अ॒भि॒ऽश्रीः । इन्द्र॑स्य । त्रि॒ऽस्तुप् । इ॒ह । भा॒गः । अह्नः॑ ।
विश्वा॑न् । दे॒वान् । जग॒ती । आ । वि॒वे॒श॒ । तेन॑ । चा॒कॢ॒प्रे॒ । ऋष॑यः । म॒नु॒ष्याः॑ ॥विराट् । मित्रावरुणयोः । अभिऽश्रीः । इन्द्रस्य । त्रिऽस्तुप् । इह । भागः । अह्नः ।
विश्वान् । देवान् । जगती । आ । विवेश । तेन । चाकॢप्रे । ऋषयः । मनुष्याः ॥virā́ṭ ǀ mitrā́váruṇayoḥ ǀ abhi-śrī́ḥ ǀ índrasya ǀ tri-stúp ǀ ihá ǀ bhāgáḥ ǀ áhnaḥ ǀ
víśvān ǀ devā́n ǀ jágatī́ ǀ ā́ ǀ viveśa ǀ téna ǀ cākḽpre ǀ ṛ́ṣayaḥ ǀ manuṣyā́ḥ ǁvirāṭ ǀ mitrāvaruṇayoḥ ǀ abhi-śrīḥ ǀ indrasya ǀ tri-stup ǀ iha ǀ bhāgaḥ ǀ ahnaḥ ǀ
viśvān ǀ devān ǀ jagatī ǀ ā ǀ viveśa ǀ tena ǀ cākḽpre ǀ ṛṣayaḥ ǀ manuṣyāḥ ǁ10.130.5 Aṣṭaka 8.7.18.5Anuvāka 10.11.12
-
Ṛk 6
चा॒कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या॑ य॒ज्ञे जा॒ते पि॒तरो॑ नः पुरा॒णे ।
पश्य॑न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्य इ॒मं य॒ज्ञमय॑जंत॒ पूर्वे॑ ॥चाकॢप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नः पुराणे |
पश्यन् मन्ये मनसा चक्षसा तान् य इमं यज्ञम् अयजन्त पूर्वे ||cākḽpré téna ṛ́ṣayo manuṣyā́ yajñé jāté pitáro naḥ purāṇé ǀ
páśyanmanye mánasā cákṣasā tā́nyá imám yajñámáyajanta pū́rve ǁcākḷpre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥ purāṇe |
paśyan manye manasā cakṣasā tān ya imaṃ yajñam ayajanta pūrve ||चा॒कॢ॒प्रे । तेन॑ । ऋष॑यः । म॒नु॒ष्याः॑ । य॒ज्ञे । जा॒ते । पि॒तरः॑ । नः॒ । पु॒रा॒णे ।
पश्य॑न् । म॒न्ये॒ । मन॑सा । चक्ष॑सा । तान् । ये । इ॒मम् । य॒ज्ञम् । अय॑जन्त । पूर्वे॑ ॥चाकॢप्रे । तेन । ऋषयः । मनुष्याः । यज्ञे । जाते । पितरः । नः । पुराणे ।
पश्यन् । मन्ये । मनसा । चक्षसा । तान् । ये । इमम् । यज्ञम् । अयजन्त । पूर्वे ॥cākḽpré ǀ téna ǀ ṛ́ṣayaḥ ǀ manuṣyā́ḥ ǀ yajñé ǀ jāté ǀ pitáraḥ ǀ naḥ ǀ purāṇé ǀ
páśyan ǀ manye ǀ mánasā ǀ cákṣasā ǀ tā́n ǀ yé ǀ imám ǀ yajñám ǀ áyajanta ǀ pū́rve ǁcākḽpre ǀ tena ǀ ṛṣayaḥ ǀ manuṣyāḥ ǀ yajñe ǀ jāte ǀ pitaraḥ ǀ naḥ ǀ purāṇe ǀ
paśyan ǀ manye ǀ manasā ǀ cakṣasā ǀ tān ǀ ye ǀ imam ǀ yajñam ǀ ayajanta ǀ pūrve ǁ10.130.6 Aṣṭaka 8.7.18.6Anuvāka 10.11.13
-
Ṛk 7
स॒हस्तो॑माः स॒हच्छं॑दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्याः॑ ।
पूर्वे॑षां॒ पंथा॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒३॒॑ न र॒श्मीन् ॥सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्त दैव्याः |
पूर्वेषाम् पन्थाम् अनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन् ||sahástomāḥ sahácchandasa āvṛ́taḥ sahápramā ṛ́ṣayaḥ saptá dáivyāḥ ǀ
pū́rveṣām pánthāmanudṛ́śya dhī́rā anvā́lebhire rathyó ná raśmī́n ǁsahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ sapta daivyāḥ |
pūrveṣām panthām anudṛśya dhīrā anvālebhire rathyo na raśmīn ||स॒हऽस्तो॑माः । स॒हऽछ॑न्दसः । आ॒ऽवृतः॑ । स॒हऽप्र॑माः । ऋष॑यः । स॒प्त । दैव्याः॑ ।
पूर्वे॑षाम् । पन्था॑म् । अ॒नु॒ऽदृश्य॑ । धीराः॑ । अ॒नु॒ऽआले॑भिरे । र॒थ्यः॑ । न । र॒श्मीन् ॥सहऽस्तोमाः । सहऽछन्दसः । आऽवृतः । सहऽप्रमाः । ऋषयः । सप्त । दैव्याः ।
पूर्वेषाम् । पन्थाम् । अनुऽदृश्य । धीराः । अनुऽआलेभिरे । रथ्यः । न । रश्मीन् ॥sahá-stomāḥ ǀ sahá-chandasaḥ ǀ ā-vṛ́taḥ ǀ sahá-pramāḥ ǀ ṛ́ṣayaḥ ǀ saptá ǀ dáivyāḥ ǀ
pū́rveṣām ǀ pánthām ǀ anu-dṛ́śya ǀ dhī́rāḥ ǀ anu-ā́lebhire ǀ rathyáḥ ǀ ná ǀ raśmī́n ǁsaha-stomāḥ ǀ saha-chandasaḥ ǀ ā-vṛtaḥ ǀ saha-pramāḥ ǀ ṛṣayaḥ ǀ sapta ǀ daivyāḥ ǀ
pūrveṣām ǀ panthām ǀ anu-dṛśya ǀ dhīrāḥ ǀ anu-ālebhire ǀ rathyaḥ ǀ na ǀ raśmīn ǁ10.130.7 Aṣṭaka 8.7.18.7Anuvāka 10.11.14
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.