Ṛgveda · Maṇḍala 10 · Sūkta 130
Ṛk 10.130.3
Saṃhitā
कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् ।
छंदः॒ किमा॑सी॒त्प्रउ॑गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जंत॒ विश्वे॑ ॥
कासीत् प्रमा प्रतिमा किं निदानम् आज्यं किम् आसीत् परिधिः क आसीत् |
छन्दः किम् आसीत् प्रौगं किम् उक्थं यद् देवा देवम् अयजन्त विश्वे ||
kā́sītpramā́ pratimā́ kím nidā́namā́jyam kímāsītparidhíḥ ká āsīt ǀ
chándaḥ kímāsītprá+ugam kímukthám yáddevā́ devámáyajanta víśve ǁ
kāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt |
chandaḥ kim āsīt praugaṃ kim ukthaṃ yad devā devam ayajanta viśve ||
Padapāṭha
का । आ॒सी॒त् । प्र॒ऽमा । प्र॒ति॒ऽमा । किम् । नि॒ऽदान॑म् । आज्य॑म् । किम् । आ॒सी॒त् । प॒रि॒ऽधिः । कः । आ॒सी॒त् ।
छन्दः॑ । किम् । आ॒सी॒त् । प्रउ॑गम् । किम् । उ॒क्थम् । यत् । दे॒वाः । दे॒वम् । अय॑जन्त । विश्वे॑ ॥
का । आसीत् । प्रऽमा । प्रतिऽमा । किम् । निऽदानम् । आज्यम् । किम् । आसीत् । परिऽधिः । कः । आसीत् ।
छन्दः । किम् । आसीत् । प्रउगम् । किम् । उक्थम् । यत् । देवाः । देवम् । अयजन्त । विश्वे ॥
kā́ ǀ āsīt ǀ pra-mā́ ǀ prati-mā́ ǀ kím ǀ ni-dā́nam ǀ ā́jyam ǀ kím ǀ āsīt ǀ pari-dhíḥ ǀ káḥ ǀ āsīt ǀ
chándaḥ ǀ kím ǀ āsīt ǀ prá_ugam ǀ kím ǀ ukthám ǀ yát ǀ devā́ḥ ǀ devám ǀ áyajanta ǀ víśve ǁ
kā ǀ āsīt ǀ pra-mā ǀ prati-mā ǀ kim ǀ ni-dānam ǀ ājyam ǀ kim ǀ āsīt ǀ pari-dhiḥ ǀ kaḥ ǀ āsīt ǀ
chandaḥ ǀ kim ǀ āsīt ǀ pra_ugam ǀ kim ǀ uktham ǀ yat ǀ devāḥ ǀ devam ǀ ayajanta ǀ viśve ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.130.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.18.03
- Maṇḍala · Anuvāka · Ṛk
- 10.11.010
- Devatā देवता
- Bhāvavṛttam
- Ṛṣi ऋषि
- Yajña Prājāpatya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.