Sūkta 44
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kṛṣṇa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles pādanicṛjjgatī (5-7, 9); virāṭtrisṭup (2, 10); triṣṭup (3, 11); pādanicṛttriṣṭup (1); virāḍjagatī (4); nicṛjjagatī (8)
2nd set of styles jagatī (4-9); triṣṭubh (1-3, 10, 11)
-
Ṛk 1
आ या॒त्विंद्रः॒ स्वप॑ति॒र्मदा॑य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान् ।
प्र॒त्व॒क्षा॒णो अति॒ विश्वा॒ सहां॑स्यपा॒रेण॑ मह॒ता वृष्ण्ये॑न ॥आ यात्व् इन्द्रः स्वपतिर् मदाय यो धर्मणा तूतुजानस् तुविष्मान् |
प्रत्वक्षाणो अति विश्वा सहांस्य् अपारेण महता वृष्ण्येन ||ā́ yātvíndraḥ svápatirmádāya yó dhármaṇā tūtujānástúviṣmān ǀ
pratvakṣāṇó áti víśvā sáhāṃsyapāréṇa mahatā́ vṛ́ṣṇyena ǁā yātv indraḥ svapatir madāya yo dharmaṇā tūtujānas tuviṣmān |
pratvakṣāṇo ati viśvā sahāṃsy apāreṇa mahatā vṛṣṇyena ||आ । या॒तु॒ । इन्द्रः॑ । स्वऽप॑तिः । मदा॑य । यः । धर्म॑णा । तू॒तु॒जा॒नः । तुवि॑ष्मान् ।
प्र॒ऽत्व॒क्षा॒णः । अति॑ । विश्वा॑ । सहां॑सि । अ॒पा॒रेण॑ । म॒ह॒ता । वृष्ण्ये॑न ॥आ । यातु । इन्द्रः । स्वऽपतिः । मदाय । यः । धर्मणा । तूतुजानः । तुविष्मान् ।
प्रऽत्वक्षाणः । अति । विश्वा । सहांसि । अपारेण । महता । वृष्ण्येन ॥ā́ ǀ yātu ǀ índraḥ ǀ svá-patiḥ ǀ mádāya ǀ yáḥ ǀ dhármaṇā ǀ tūtujānáḥ ǀ túviṣmān ǀ
pra-tvakṣāṇáḥ ǀ áti ǀ víśvā ǀ sáhāṃsi ǀ apāréṇa ǀ mahatā́ ǀ vṛ́ṣṇyena ǁā ǀ yātu ǀ indraḥ ǀ sva-patiḥ ǀ madāya ǀ yaḥ ǀ dharmaṇā ǀ tūtujānaḥ ǀ tuviṣmān ǀ
pra-tvakṣāṇaḥ ǀ ati ǀ viśvā ǀ sahāṃsi ǀ apāreṇa ǀ mahatā ǀ vṛṣṇyena ǁ10.44.1 Aṣṭaka 7.8.26.1Anuvāka 10.4.12
-
Ṛk 2
सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी॑ ते मि॒म्यक्ष॒ वज्रो॑ नृपते॒ गभ॑स्तौ ।
शीभं॑ राजन्त्सु॒पथा या॑ह्य॒र्वाङ्वर्धा॑म ते प॒पुषो॒ वृष्ण्या॑नि ॥सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ |
शीभं राजन् सुपथा याह्य् अर्वाङ् वर्धाम ते पपुषो वृष्ण्यानि ||suṣṭhā́mā ráthaḥ suyámā hárī te mimyákṣa vájro nṛpate gábhastau ǀ
śī́bham rājantsupáthā́ yāhyarvā́ṅvárdhāma te papúṣo vṛ́ṣṇyāni ǁsuṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau |
śībhaṃ rājan supathā yāhy arvāṅ vardhāma te papuṣo vṛṣṇyāni ||सु॒ऽस्थामा॑ । रथः॑ । सु॒ऽयमा॑ । हरी॒ इति॑ । ते॒ । मि॒म्यक्ष॑ । वज्रः॑ । नृ॒ऽप॒ते॒ । गभ॑स्तौ ।
शीभ॑म् । रा॒ज॒न् । सु॒ऽपथा॑ । आ । या॒हि॒ । अ॒र्वाङ् । वर्धा॑म । ते॒ । प॒पुषः॑ । वृष्ण्या॑नि ॥सुऽस्थामा । रथः । सुऽयमा । हरी इति । ते । मिम्यक्ष । वज्रः । नृऽपते । गभस्तौ ।
शीभम् । राजन् । सुऽपथा । आ । याहि । अर्वाङ् । वर्धाम । ते । पपुषः । वृष्ण्यानि ॥su-sthā́mā ǀ ráthaḥ ǀ su-yámā ǀ hárī íti ǀ te ǀ mimyákṣa ǀ vájraḥ ǀ nṛ-pate ǀ gábhastau ǀ
śī́bham ǀ rājan ǀ su-páthā ǀ ā́ ǀ yāhi ǀ arvā́ṅ ǀ várdhāma ǀ te ǀ papúṣaḥ ǀ vṛ́ṣṇyāni ǁsu-sthāmā ǀ rathaḥ ǀ su-yamā ǀ harī iti ǀ te ǀ mimyakṣa ǀ vajraḥ ǀ nṛ-pate ǀ gabhastau ǀ
śībham ǀ rājan ǀ su-pathā ǀ ā ǀ yāhi ǀ arvāṅ ǀ vardhāma ǀ te ǀ papuṣaḥ ǀ vṛṣṇyāni ǁ10.44.2 Aṣṭaka 7.8.26.2Anuvāka 10.4.13
-
Ṛk 3
एंद्र॒वाहो॑ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनं ।
प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहंतु ॥एन्द्रवाहो नृपतिं वज्रबाहुम् उग्रम् उग्रासस् तविषास एनम् |
प्रत्वक्षसं वृषभं सत्यशुष्मम् एम् अस्मत्रा सधमादो वहन्तु ||éndravā́ho nṛpátim vájrabāhumugrámugrā́sastaviṣā́sa enam ǀ
prátvakṣasam vṛṣabhám satyáśuṣmamémasmatrā́ sadhamā́do vahantu ǁendravāho nṛpatiṃ vajrabāhum ugram ugrāsas taviṣāsa enam |
pratvakṣasaṃ vṛṣabhaṃ satyaśuṣmam em asmatrā sadhamādo vahantu ||आ । इ॒न्द्र॒ऽवाहः॑ । नृ॒ऽपति॑म् । वज्र॑ऽबाहुम् । उ॒ग्रम् । उ॒ग्रासः॑ । त॒वि॒षासः॑ । ए॒न॒म् ।
प्रऽत्व॑क्षसम् । वृ॒ष॒भम् । स॒त्यऽशु॑ष्मम् । आ । ई॒म् । अ॒स्म॒ऽत्रा । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ ॥आ । इन्द्रऽवाहः । नृऽपतिम् । वज्रऽबाहुम् । उग्रम् । उग्रासः । तविषासः । एनम् ।
प्रऽत्वक्षसम् । वृषभम् । सत्यऽशुष्मम् । आ । ईम् । अस्मऽत्रा । सधऽमादः । वहन्तु ॥ā́ ǀ indra-vā́haḥ ǀ nṛ-pátim ǀ vájra-bāhum ǀ ugrám ǀ ugrā́saḥ ǀ taviṣā́saḥ ǀ enam ǀ
prá-tvakṣasam ǀ vṛṣabhám ǀ satyá-śuṣmam ǀ ā́ ǀ īm ǀ asma-trā́ ǀ sadha-mā́daḥ ǀ vahantu ǁā ǀ indra-vāhaḥ ǀ nṛ-patim ǀ vajra-bāhum ǀ ugram ǀ ugrāsaḥ ǀ taviṣāsaḥ ǀ enam ǀ
pra-tvakṣasam ǀ vṛṣabham ǀ satya-śuṣmam ǀ ā ǀ īm ǀ asma-trā ǀ sadha-mādaḥ ǀ vahantu ǁ10.44.3 Aṣṭaka 7.8.26.3Anuvāka 10.4.14
-
Ṛk 4
ए॒वा पतिं॑ द्रोण॒साचं॒ सचे॑तसमू॒र्जः स्कं॒भं ध॒रुण॒ आ वृ॑षायसे ।
ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वृ॒धे ॥एवा पतिं द्रोणसाचं सचेतसम् ऊर्ज स्कम्भं धरुण आ वृषायसे |
ओजः कृष्व सं गृभाय त्वे अप्य् असो यथा केनिपानाम् इनो वृधे ||evā́ pátim droṇasā́cam sácetasamūrjáḥ skambhám dharúṇa ā́ vṛṣāyase ǀ
ójaḥ kṛṣva sám gṛbhāya tvé ápyáso yáthā kenipā́nāminó vṛdhé ǁevā patiṃ droṇasācaṃ sacetasam ūrja skambhaṃ dharuṇa ā vṛṣāyase |
ojaḥ kṛṣva saṃ gṛbhāya tve apy aso yathā kenipānām ino vṛdhe ||ए॒व । पति॑म् । द्रो॒ण॒ऽसाच॑म् । सऽचे॑तसम् । ऊ॒र्जः । स्क॒म्भम् । ध॒रुणे॑ । आ । वृ॒ष॒ऽय॒से॒ ।
ओजः॑ । कृ॒ष्व॒ । सम् । गृ॒भा॒य॒ । त्वे इति॑ । अपि॑ । असः॑ । यथा॑ । के॒ऽनि॒पाना॑म् । इ॒नः । वृ॒धे ॥एव । पतिम् । द्रोणऽसाचम् । सऽचेतसम् । ऊर्जः । स्कम्भम् । धरुणे । आ । वृषऽयसे ।
ओजः । कृष्व । सम् । गृभाय । त्वे इति । अपि । असः । यथा । केऽनिपानाम् । इनः । वृधे ॥evá ǀ pátim ǀ droṇa-sā́cam ǀ sá-cetasam ǀ ūrjáḥ ǀ skambhám ǀ dharúṇe ǀ ā́ ǀ vṛṣa-yase ǀ
ójaḥ ǀ kṛṣva ǀ sám ǀ gṛbhāya ǀ tvé íti ǀ ápi ǀ ásaḥ ǀ yáthā ǀ ke-nipā́nām ǀ ináḥ ǀ vṛdhé ǁeva ǀ patim ǀ droṇa-sācam ǀ sa-cetasam ǀ ūrjaḥ ǀ skambham ǀ dharuṇe ǀ ā ǀ vṛṣa-yase ǀ
ojaḥ ǀ kṛṣva ǀ sam ǀ gṛbhāya ǀ tve iti ǀ api ǀ asaḥ ǀ yathā ǀ ke-nipānām ǀ inaḥ ǀ vṛdhe ǁ10.44.4 Aṣṭaka 7.8.26.4Anuvāka 10.4.15
-
Ṛk 5
गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑ ।
त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥गमन्न् अस्मे वसून्य् आ हि शंसिषं स्वाशिषम् भरम् आ याहि सोमिनः |
त्वम् ईशिषे सास्मिन्न् आ सत्सि बर्हिष्य् अनाधृष्या तव पात्राणि धर्मणा ||gámannasmé vásūnyā́ hí śáṃsiṣam svāśíṣam bháramā́ yāhi somínaḥ ǀ
tvámīśiṣe sā́smínnā́ satsi barhíṣyanādhṛṣyā́ táva pā́trāṇi dhármaṇā ǁgamann asme vasūny ā hi śaṃsiṣaṃ svāśiṣam bharam ā yāhi sominaḥ |
tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā ||गम॑न् । अ॒स्मे इति॑ । वसू॑नि । आ । हि । शंसि॑षम् । सु॒ऽआ॒शिष॑म् । भर॑म् । आ । या॒हि॒ । सो॒मिनः॑ ।
त्वम् । ई॒शि॒षे॒ । सः । अ॒स्मिन् । आ । स॒त्सि॒ । ब॒र्हिषि॑ । अ॒ना॒धृ॒ष्या । तव॑ । पात्रा॑णि । धर्म॑णा ॥गमन् । अस्मे इति । वसूनि । आ । हि । शंसिषम् । सुऽआशिषम् । भरम् । आ । याहि । सोमिनः ।
त्वम् । ईशिषे । सः । अस्मिन् । आ । सत्सि । बर्हिषि । अनाधृष्या । तव । पात्राणि । धर्मणा ॥gáman ǀ asmé íti ǀ vásūni ǀ ā́ ǀ hí ǀ śáṃsiṣam ǀ su-āśíṣam ǀ bháram ǀ ā́ ǀ yāhi ǀ somínaḥ ǀ
tvám ǀ īśiṣe ǀ sáḥ ǀ asmín ǀ ā́ ǀ satsi ǀ barhíṣi ǀ anādhṛṣyā́ ǀ táva ǀ pā́trāṇi ǀ dhármaṇā ǁgaman ǀ asme iti ǀ vasūni ǀ ā ǀ hi ǀ śaṃsiṣam ǀ su-āśiṣam ǀ bharam ǀ ā ǀ yāhi ǀ sominaḥ ǀ
tvam ǀ īśiṣe ǀ saḥ ǀ asmin ǀ ā ǀ satsi ǀ barhiṣi ǀ anādhṛṣyā ǀ tava ǀ pātrāṇi ǀ dharmaṇā ǁ10.44.5 Aṣṭaka 7.8.26.5Anuvāka 10.4.16
-
Ṛk 6
पृथ॒क्प्राय॑न्प्रथ॒मा दे॒वहू॑त॒योऽकृ॑ण्वत श्रव॒स्या॑नि दु॒ष्टरा॑ ।
न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशंत॒ केप॑यः ॥पृथक् प्रायन् प्रथमा देवहूतयो ऽकृण्वत श्रवस्यानि दुष्टरा |
न ये शेकुर् यज्ञियां नावम् आरुहम् ईर्मैव ते न्य् अविशन्त केपयः ||pṛ́thakprā́yanprathamā́ deváhūtayó’kṛṇvata śravasyā́ni duṣṭárā ǀ
ná yé śekúryajñíyām nā́vamārúhamīrmáivá té nyáviśanta képayaḥ ǁpṛthak prāyan prathamā devahūtayo 'kṛṇvata śravasyāni duṣṭarā |
na ye śekur yajñiyāṃ nāvam āruham īrmaiva te ny aviśanta kepayaḥ ||पृथ॑क् । प्र । आ॒य॒न् । प्र॒थ॒माः । दे॒वऽहू॑तयः । अकृ॑ण्वत । श्र॒व॒स्या॑नि । दु॒स्तरा॑ ।
न । ये । शे॒कुः । य॒ज्ञिया॑म् । नाव॑म् । आ॒ऽरुह॑म् । ई॒र्मा । ए॒व । ते । नि । अ॒वि॒श॒न्त॒ । केप॑यः ॥पृथक् । प्र । आयन् । प्रथमाः । देवऽहूतयः । अकृण्वत । श्रवस्यानि । दुस्तरा ।
न । ये । शेकुः । यज्ञियाम् । नावम् । आऽरुहम् । ईर्मा । एव । ते । नि । अविशन्त । केपयः ॥pṛ́thak ǀ prá ǀ āyan ǀ prathamā́ḥ ǀ devá-hūtayaḥ ǀ ákṛṇvata ǀ śravasyā́ni ǀ dustárā ǀ
ná ǀ yé ǀ śekúḥ ǀ yajñíyām ǀ nā́vam ǀ ā-rúham ǀ īrmā́ ǀ evá ǀ té ǀ ní ǀ aviśanta ǀ képayaḥ ǁpṛthak ǀ pra ǀ āyan ǀ prathamāḥ ǀ deva-hūtayaḥ ǀ akṛṇvata ǀ śravasyāni ǀ dustarā ǀ
na ǀ ye ǀ śekuḥ ǀ yajñiyām ǀ nāvam ǀ ā-ruham ǀ īrmā ǀ eva ǀ te ǀ ni ǀ aviśanta ǀ kepayaḥ ǁ10.44.6 Aṣṭaka 7.8.27.1Anuvāka 10.4.17
-
Ṛk 7
ए॒वैवापा॒गप॑रे संतु दू॒ढ्योऽश्वा॒ येषां॑ दु॒र्युज॑ आयुयु॒ज्रे ।
इ॒त्था ये प्रागुप॑रे॒ संति॑ दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ॥एवैवापाग् अपरे सन्तु दूढ्यो ऽश्वा येषां दुर्युज आयुयुज्रे |
इत्था ये प्राग् उपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ||eváivā́pāgápare santu dūḍhyó’śvā yéṣām duryúja āyuyujré ǀ
itthā́ yé prā́gúpare sánti dāváne purū́ṇi yátra vayúnāni bhójanā ǁevaivāpāg apare santu dūḍhyo 'śvā yeṣāṃ duryuja āyuyujre |
itthā ye prāg upare santi dāvane purūṇi yatra vayunāni bhojanā ||ए॒व । ए॒व । अपा॑क् । अप॑रे । स॒न्तु॒ । दुः॒ऽध्यः॑ । अश्वाः॑ । येषा॑म् । दुः॒ऽयुजः॑ । आ॒ऽयु॒यु॒ज्रे ।
इ॒त्था । ये । प्राक् । उप॑रे । सन्ति॑ । दा॒वने॑ । पु॒रूणि॑ । यत्र॑ । व॒युना॑नि । भोज॑ना ॥एव । एव । अपाक् । अपरे । सन्तु । दुःऽध्यः । अश्वाः । येषाम् । दुःऽयुजः । आऽयुयुज्रे ।
इत्था । ये । प्राक् । उपरे । सन्ति । दावने । पुरूणि । यत्र । वयुनानि । भोजना ॥evá ǀ evá ǀ ápāk ǀ ápare ǀ santu ǀ duḥ-dhyáḥ ǀ áśvāḥ ǀ yéṣām ǀ duḥ-yújaḥ ǀ ā-yuyujré ǀ
itthā́ ǀ yé ǀ prā́k ǀ úpare ǀ sánti ǀ dāváne ǀ purū́ṇi ǀ yátra ǀ vayúnāni ǀ bhójanā ǁeva ǀ eva ǀ apāk ǀ apare ǀ santu ǀ duḥ-dhyaḥ ǀ aśvāḥ ǀ yeṣām ǀ duḥ-yujaḥ ǀ ā-yuyujre ǀ
itthā ǀ ye ǀ prāk ǀ upare ǀ santi ǀ dāvane ǀ purūṇi ǀ yatra ǀ vayunāni ǀ bhojanā ǁ10.44.7 Aṣṭaka 7.8.27.2Anuvāka 10.4.18
-
Ṛk 8
गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्रं॑ददं॒तरि॑क्षाणि कोपयत् ।
स॒मी॒ची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ॥गिरींर् अज्रान् रेजमानां अधारयद् द्यौः क्रन्दद् अन्तरिक्षाणि कोपयत् |
समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ||girī́m̐rájrānréjamānām̐ adhārayaddyáuḥ krandadantárikṣāṇi kopayat ǀ
samīcīné dhiṣáṇe ví ṣkabhāyati vṛ́ṣṇaḥ pītvā́ máda ukthā́ni śaṃsati ǁgirīṃr ajrān rejamānāṃ adhārayad dyauḥ krandad antarikṣāṇi kopayat |
samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṃsati ||गि॒रीन् । अज्रा॑न् । रेज॑मानान् । अ॒धा॒र॒य॒त् । द्यौः । क्र॒न्द॒त् । अ॒न्तरि॑क्षाणि । को॒प॒य॒त् ।
स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । धि॒षणे॒ इति॑ । वि । स्क॒भा॒य॒ति॒ । वृष्णः॑ । पी॒त्वा । मदे॑ । उ॒क्थानि॑ । शं॒स॒ति॒ ॥गिरीन् । अज्रान् । रेजमानान् । अधारयत् । द्यौः । क्रन्दत् । अन्तरिक्षाणि । कोपयत् ।
समीचीने इति सम्ऽईचीने । धिषणे इति । वि । स्कभायति । वृष्णः । पीत्वा । मदे । उक्थानि । शंसति ॥girī́n ǀ ájrān ǀ réjamānān ǀ adhārayat ǀ dyáuḥ ǀ krandat ǀ antárikṣāṇi ǀ kopayat ǀ
samīcīné íti sam-īcīné ǀ dhiṣáṇe íti ǀ ví ǀ skabhāyati ǀ vṛ́ṣṇaḥ ǀ pītvā́ ǀ máde ǀ ukthā́ni ǀ śaṃsati ǁgirīn ǀ ajrān ǀ rejamānān ǀ adhārayat ǀ dyauḥ ǀ krandat ǀ antarikṣāṇi ǀ kopayat ǀ
samīcīne iti sam-īcīne ǀ dhiṣaṇe iti ǀ vi ǀ skabhāyati ǀ vṛṣṇaḥ ǀ pītvā ǀ made ǀ ukthāni ǀ śaṃsati ǁ10.44.8 Aṣṭaka 7.8.27.3Anuvāka 10.4.19
-
Ṛk 9
इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अंकु॒शं येना॑रु॒जासि॑ मघवंछफा॒रुजः॑ ।
अ॒स्मिन्त्सु ते॒ सव॑ने अस्त्वो॒क्यं॑ सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ॥इमम् बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवञ् छफारुजः |
अस्मिन् सु ते सवने अस्त्व् ओक्यं सुत इष्टौ मघवन् बोध्य् आभगः ||imám bibharmi súkṛtam te aṅkuśám yénārujā́si maghavañchaphārújaḥ ǀ
asmíntsú te sávane astvokyám sutá iṣṭáu maghavanbodhyā́bhagaḥ ǁimam bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañ chaphārujaḥ |
asmin su te savane astv okyaṃ suta iṣṭau maghavan bodhy ābhagaḥ ||इ॒मम् । बि॒भ॒र्मि॒ । सुऽकृ॑तम् । ते॒ । अ॒ङ्कु॒शम् । येन॑ । आ॒ऽरु॒जासि॑ । म॒घ॒ऽव॒न् । श॒फ॒ऽआ॒रुजः॑ ।
अ॒स्मिन् । सु । ते॒ । सव॑ने । अ॒स्तु॒ । ओ॒क्य॑म् । सु॒ते । इ॒ष्टौ । म॒घ॒ऽव॒न् । बो॒धि॒ । आऽभ॑गः ॥इमम् । बिभर्मि । सुऽकृतम् । ते । अङ्कुशम् । येन । आऽरुजासि । मघऽवन् । शफऽआरुजः ।
अस्मिन् । सु । ते । सवने । अस्तु । ओक्यम् । सुते । इष्टौ । मघऽवन् । बोधि । आऽभगः ॥imám ǀ bibharmi ǀ sú-kṛtam ǀ te ǀ aṅkuśám ǀ yéna ǀ ā-rujā́si ǀ magha-van ǀ śapha-ārújaḥ ǀ
asmín ǀ sú ǀ te ǀ sávane ǀ astu ǀ okyám ǀ suté ǀ iṣṭáu ǀ magha-van ǀ bodhi ǀ ā́-bhagaḥ ǁimam ǀ bibharmi ǀ su-kṛtam ǀ te ǀ aṅkuśam ǀ yena ǀ ā-rujāsi ǀ magha-van ǀ śapha-ārujaḥ ǀ
asmin ǀ su ǀ te ǀ savane ǀ astu ǀ okyam ǀ sute ǀ iṣṭau ǀ magha-van ǀ bodhi ǀ ā-bhagaḥ ǁ10.44.9 Aṣṭaka 7.8.27.4Anuvāka 10.4.20
-
Ṛk 10
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वां॑ ।
व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् |
वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ||góbhiṣṭaremā́matim durévām yávena kṣúdham puruhūta víśvām ǀ
vayám rā́jabhiḥ prathamā́ dhánānyasmā́kena vṛjánenā jayema ǁgobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām |
vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema ||गोभिः॑ । त॒रे॒म॒ । अम॑तिम् । दुः॒ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वा॑म् ।
व॒यम् । राज॑ऽभिः । प्र॒थ॒माः । धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥गोभिः । तरेम । अमतिम् । दुःऽएवाम् । यवेन । क्षुधम् । पुरुऽहूत । विश्वाम् ।
वयम् । राजऽभिः । प्रथमाः । धनानि । अस्माकेन । वृजनेन । जयेम ॥góbhiḥ ǀ tarema ǀ ámatim ǀ duḥ-évām ǀ yávena ǀ kṣúdham ǀ puru-hūta ǀ víśvām ǀ
vayám ǀ rā́ja-bhiḥ ǀ prathamā́ḥ ǀ dhánāni ǀ asmā́kena ǀ vṛjánena ǀ jayema ǁgobhiḥ ǀ tarema ǀ amatim ǀ duḥ-evām ǀ yavena ǀ kṣudham ǀ puru-hūta ǀ viśvām ǀ
vayam ǀ rāja-bhiḥ ǀ prathamāḥ ǀ dhanāni ǀ asmākena ǀ vṛjanena ǀ jayema ǁ10.44.10 Aṣṭaka 7.8.27.5Anuvāka 10.4.21
-
Ṛk 11
बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।
इंद्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः |
इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ||bṛ́haspátirnaḥ pári pātu paścā́dutóttarasmādádharādaghāyóḥ ǀ
índraḥ purástādutá madhyató naḥ sákhā sákhibhyo várivaḥ kṛṇotu ǁbṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ |
indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ||बृह॒स्पतिः॑ । नः॒ । परि॑ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्ऽत॑रस्मात् । अध॑रात् । अ॒घ॒ऽयोः ।
इन्द्रः॑ । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । नः॒ । सखा॑ । सखि॑ऽभ्यः । वरि॑वः । कृ॒णो॒तु॒ ॥बृहस्पतिः । नः । परि । पातु । पश्चात् । उत । उत्ऽतरस्मात् । अधरात् । अघऽयोः ।
इन्द्रः । पुरस्तात् । उत । मध्यतः । नः । सखा । सखिऽभ्यः । वरिवः । कृणोतु ॥bṛ́haspátiḥ ǀ naḥ ǀ pári ǀ pātu ǀ paścā́t ǀ utá ǀ út-tarasmāt ǀ ádharāt ǀ agha-yóḥ ǀ
índraḥ ǀ purástāt ǀ utá ǀ madhyatáḥ ǀ naḥ ǀ sákhā ǀ sákhi-bhyaḥ ǀ várivaḥ ǀ kṛṇotu ǁbṛhaspatiḥ ǀ naḥ ǀ pari ǀ pātu ǀ paścāt ǀ uta ǀ ut-tarasmāt ǀ adharāt ǀ agha-yoḥ ǀ
indraḥ ǀ purastāt ǀ uta ǀ madhyataḥ ǀ naḥ ǀ sakhā ǀ sakhi-bhyaḥ ǀ varivaḥ ǀ kṛṇotu ǁ10.44.11 Aṣṭaka 7.8.27.6Anuvāka 10.4.22
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.