Ṛgveda · Maṇḍala 10 · Sūkta 44
Ṛk 10.44.5
Saṃhitā
गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑ ।
त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥
गमन्न् अस्मे वसून्य् आ हि शंसिषं स्वाशिषम् भरम् आ याहि सोमिनः |
त्वम् ईशिषे सास्मिन्न् आ सत्सि बर्हिष्य् अनाधृष्या तव पात्राणि धर्मणा ||
gámannasmé vásūnyā́ hí śáṃsiṣam svāśíṣam bháramā́ yāhi somínaḥ ǀ
tvámīśiṣe sā́smínnā́ satsi barhíṣyanādhṛṣyā́ táva pā́trāṇi dhármaṇā ǁ
gamann asme vasūny ā hi śaṃsiṣaṃ svāśiṣam bharam ā yāhi sominaḥ |
tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā ||
Padapāṭha
गम॑न् । अ॒स्मे इति॑ । वसू॑नि । आ । हि । शंसि॑षम् । सु॒ऽआ॒शिष॑म् । भर॑म् । आ । या॒हि॒ । सो॒मिनः॑ ।
त्वम् । ई॒शि॒षे॒ । सः । अ॒स्मिन् । आ । स॒त्सि॒ । ब॒र्हिषि॑ । अ॒ना॒धृ॒ष्या । तव॑ । पात्रा॑णि । धर्म॑णा ॥
गमन् । अस्मे इति । वसूनि । आ । हि । शंसिषम् । सुऽआशिषम् । भरम् । आ । याहि । सोमिनः ।
त्वम् । ईशिषे । सः । अस्मिन् । आ । सत्सि । बर्हिषि । अनाधृष्या । तव । पात्राणि । धर्मणा ॥
gáman ǀ asmé íti ǀ vásūni ǀ ā́ ǀ hí ǀ śáṃsiṣam ǀ su-āśíṣam ǀ bháram ǀ ā́ ǀ yāhi ǀ somínaḥ ǀ
tvám ǀ īśiṣe ǀ sáḥ ǀ asmín ǀ ā́ ǀ satsi ǀ barhíṣi ǀ anādhṛṣyā́ ǀ táva ǀ pā́trāṇi ǀ dhármaṇā ǁ
gaman ǀ asme iti ǀ vasūni ǀ ā ǀ hi ǀ śaṃsiṣam ǀ su-āśiṣam ǀ bharam ǀ ā ǀ yāhi ǀ sominaḥ ǀ
tvam ǀ īśiṣe ǀ saḥ ǀ asmin ǀ ā ǀ satsi ǀ barhiṣi ǀ anādhṛṣyā ǀ tava ǀ pātrāṇi ǀ dharmaṇā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.044.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.26.05
- Maṇḍala · Anuvāka · Ṛk
- 10.04.016
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kṛṣṇa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.