Sūkta 8
- Devatā देवता
- 1-6: Agni; 7-9: Indra
- Ṛṣi ऋषि
- Triśiras Tvāṣṭra
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 5-7, 9); pādanicṛttriṣṭup (3, 4, 8); virāṭtrisṭup (2)
2nd set of styles triṣṭubh
-
Ṛk 1
प्र के॒तुना॑ बृह॒ता या॑त्य॒ग्निरा रोद॑सी वृष॒भो रो॑रवीति ।
दि॒वश्चि॒दंताँ॑ उप॒माँ उदा॑नळ॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ॥प्र केतुना बृहता यात्य् अग्निर् आ रोदसी वृषभो रोरवीति |
दिवश् चिद् अन्तां उपमां उद् आनऌ अपाम् उपस्थे महिषो ववर्ध ||prá ketúnā bṛhatā́ yātyagnírā́ ródasī vṛṣabhó roravīti ǀ
diváścidántām̐ upamā́m̐ údānaḷapā́mupásthe mahiṣó vavardha ǁpra ketunā bṛhatā yāty agnir ā rodasī vṛṣabho roravīti |
divaś cid antāṃ upamāṃ ud ānaḷ apām upasthe mahiṣo vavardha ||प्र । के॒तुना॑ । बृ॒ह॒ता । या॒ति॒ । अ॒ग्निः । आ । रोद॑सी॒ इति॑ । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ।
दि॒वः । चि॒त् । अन्ता॑न् । उ॒प॒ऽमान् । उत् । आ॒न॒ट् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षः । व॒व॒र्ध॒ ॥प्र । केतुना । बृहता । याति । अग्निः । आ । रोदसी इति । वृषभः । रोरवीति ।
दिवः । चित् । अन्तान् । उपऽमान् । उत् । आनट् । अपाम् । उपऽस्थे । महिषः । ववर्ध ॥prá ǀ ketúnā ǀ bṛhatā́ ǀ yāti ǀ agníḥ ǀ ā́ ǀ ródasī íti ǀ vṛṣabháḥ ǀ roravīti ǀ
diváḥ ǀ cit ǀ ántān ǀ upa-mā́n ǀ út ǀ ānaṭ ǀ apā́m ǀ upá-sthe ǀ mahiṣáḥ ǀ vavardha ǁpra ǀ ketunā ǀ bṛhatā ǀ yāti ǀ agniḥ ǀ ā ǀ rodasī iti ǀ vṛṣabhaḥ ǀ roravīti ǀ
divaḥ ǀ cit ǀ antān ǀ upa-mān ǀ ut ǀ ānaṭ ǀ apām ǀ upa-sthe ǀ mahiṣaḥ ǀ vavardha ǁ10.8.1 Aṣṭaka 7.6.3.1Anuvāka 10.1.50
-
Ṛk 2
मु॒मोद॒ गर्भो॑ वृष॒भः क॒कुद्मा॑नस्रे॒मा व॒त्सः शिमी॑वाँ अरावीत् ।
स दे॒वता॒त्युद्य॑तानि कृ॒ण्वन्त्स्वेषु॒ क्षये॑षु प्रथ॒मो जि॑गाति ॥मुमोद गर्भो वृषभः ककुद्मान् अस्रेमा वत्सः शिमीवां अरावीत् |
स देवतात्य् उद्यतानि कृण्वन् स्वेषु क्षयेषु प्रथमो जिगाति ||mumóda gárbho vṛṣabháḥ kakúdmānasremā́ vatsáḥ śímīvām̐ arāvīt ǀ
sá devátātyúdyatāni kṛṇvántsvéṣu kṣáyeṣu prathamó jigāti ǁmumoda garbho vṛṣabhaḥ kakudmān asremā vatsaḥ śimīvāṃ arāvīt |
sa devatāty udyatāni kṛṇvan sveṣu kṣayeṣu prathamo jigāti ||मु॒मोद॑ । गर्भः॑ । वृ॒ष॒भः । क॒कुत्ऽमा॑न् । अ॒स्रे॒मा । व॒त्सः । शिमी॑ऽवान् । अ॒रा॒वी॒त् ।
सः । दे॒वऽता॑ति । उत्ऽय॑तानि । कृ॒ण्वन् । स्वेषु॑ । क्षये॑षु । प्र॒थ॒मः । जि॒गा॒ति॒ ॥मुमोद । गर्भः । वृषभः । ककुत्ऽमान् । अस्रेमा । वत्सः । शिमीऽवान् । अरावीत् ।
सः । देवऽताति । उत्ऽयतानि । कृण्वन् । स्वेषु । क्षयेषु । प्रथमः । जिगाति ॥mumóda ǀ gárbhaḥ ǀ vṛṣabháḥ ǀ kakút-mān ǀ asremā́ ǀ vatsáḥ ǀ śímī-vān ǀ arāvīt ǀ
sáḥ ǀ devá-tāti ǀ út-yatāni ǀ kṛṇván ǀ svéṣu ǀ kṣáyeṣu ǀ prathamáḥ ǀ jigāti ǁmumoda ǀ garbhaḥ ǀ vṛṣabhaḥ ǀ kakut-mān ǀ asremā ǀ vatsaḥ ǀ śimī-vān ǀ arāvīt ǀ
saḥ ǀ deva-tāti ǀ ut-yatāni ǀ kṛṇvan ǀ sveṣu ǀ kṣayeṣu ǀ prathamaḥ ǀ jigāti ǁ10.8.2 Aṣṭaka 7.6.3.2Anuvāka 10.1.51
-
Ṛk 3
आ यो मू॒र्धानं॑ पि॒त्रोरर॑ब्ध॒ न्य॑ध्व॒रे द॑धिरे॒ सूरो॒ अर्णः॑ ।
अस्य॒ पत्म॒न्नरु॑षी॒रश्व॑बुध्ना ऋ॒तस्य॒ योनौ॑ त॒न्वो॑ जुषंत ॥आ यो मूर्धानम् पित्रोर् अरब्ध न्य् अध्वरे दधिरे सूरो अर्णः |
अस्य पत्मन्न् अरुषीर् अश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त ||ā́ yó mūrdhā́nam pitrórárabdha nyádhvaré dadhire sū́ro árṇaḥ ǀ
ásya pátmannáruṣīráśvabudhnā ṛtásya yónau tanvó juṣanta ǁā yo mūrdhānam pitror arabdha ny adhvare dadhire sūro arṇaḥ |
asya patmann aruṣīr aśvabudhnā ṛtasya yonau tanvo juṣanta ||आ । यः । मू॒र्धान॑म् । पि॒त्रोः । अर॑ब्ध । नि । अ॒ध्व॒रे । द॒धि॒रे॒ । सूरः॑ । अर्णः॑ ।
अस्य॑ । पत्म॑न् । अरु॑षीः । अश्व॑ऽबुध्नाः । ऋ॒तस्य॑ । योनौ॑ । त॒न्वः॑ । जु॒ष॒न्त॒ ॥आ । यः । मूर्धानम् । पित्रोः । अरब्ध । नि । अध्वरे । दधिरे । सूरः । अर्णः ।
अस्य । पत्मन् । अरुषीः । अश्वऽबुध्नाः । ऋतस्य । योनौ । तन्वः । जुषन्त ॥ā́ ǀ yáḥ ǀ mūrdhā́nam ǀ pitróḥ ǀ árabdha ǀ ní ǀ adhvaré ǀ dadhire ǀ sū́raḥ ǀ árṇaḥ ǀ
ásya ǀ pátman ǀ áruṣīḥ ǀ áśva-budhnāḥ ǀ ṛtásya ǀ yónau ǀ tanváḥ ǀ juṣanta ǁā ǀ yaḥ ǀ mūrdhānam ǀ pitroḥ ǀ arabdha ǀ ni ǀ adhvare ǀ dadhire ǀ sūraḥ ǀ arṇaḥ ǀ
asya ǀ patman ǀ aruṣīḥ ǀ aśva-budhnāḥ ǀ ṛtasya ǀ yonau ǀ tanvaḥ ǀ juṣanta ǁ10.8.3 Aṣṭaka 7.6.3.3Anuvāka 10.1.52
-
Ṛk 4
उ॒षौ॑षो॒ हि व॑सो॒ अग्र॒मेषि॒ त्वं य॒मयो॑रभवो वि॒भावा॑ ।
ऋ॒ताय॑ स॒प्त द॑धिषे प॒दानि॑ ज॒नय॑न्मि॒त्रं त॒न्वे॒३॒॑ स्वायै॑ ॥उष-उषो हि वसो अग्रम् एषि त्वं यमयोर् अभवो विभावा |
ऋताय सप्त दधिषे पदानि जनयन् मित्रं तन्वे स्वायै ||uṣáuṣo hí vaso ágraméṣi tvám yamáyorabhavo vibhā́vā ǀ
ṛtā́ya saptá dadhiṣe padā́ni janáyanmitrám tanvé svā́yai ǁuṣa-uṣo hi vaso agram eṣi tvaṃ yamayor abhavo vibhāvā |
ṛtāya sapta dadhiṣe padāni janayan mitraṃ tanve svāyai ||उ॒षःऽउ॑षः । हि । व॒सो॒ इति॑ । अग्र॑म् । एषि॑ । त्वम् । य॒मयोः॑ । अ॒भ॒वः॒ । वि॒भाऽवा॑ ।
ऋ॒ताय॑ । स॒प्त । द॒धि॒षे॒ । प॒दानि॑ । ज॒नय॑न् । मि॒त्रम् । त॒न्वे॑ । स्वायै॑ ॥उषःऽउषः । हि । वसो इति । अग्रम् । एषि । त्वम् । यमयोः । अभवः । विभाऽवा ।
ऋताय । सप्त । दधिषे । पदानि । जनयन् । मित्रम् । तन्वे । स्वायै ॥uṣáḥ-uṣaḥ ǀ hí ǀ vaso íti ǀ ágram ǀ éṣi ǀ tvám ǀ yamáyoḥ ǀ abhavaḥ ǀ vibhā́-vā ǀ
ṛtā́ya ǀ saptá ǀ dadhiṣe ǀ padā́ni ǀ janáyan ǀ mitrám ǀ tanvé ǀ svā́yai ǁuṣaḥ-uṣaḥ ǀ hi ǀ vaso iti ǀ agram ǀ eṣi ǀ tvam ǀ yamayoḥ ǀ abhavaḥ ǀ vibhā-vā ǀ
ṛtāya ǀ sapta ǀ dadhiṣe ǀ padāni ǀ janayan ǀ mitram ǀ tanve ǀ svāyai ǁ10.8.4 Aṣṭaka 7.6.3.4Anuvāka 10.1.53
-
Ṛk 5
भुव॒श्चक्षु॑र्म॒ह ऋ॒तस्य॑ गो॒पा भुवो॒ वरु॑णो॒ यदृ॒ताय॒ वेषि॑ ।
भुवो॑ अ॒पां नपा॑ज्जातवेदो॒ भुवो॑ दू॒तो यस्य॑ ह॒व्यं जुजो॑षः ॥भुवश् चक्षुर् मह ऋतस्य गोपा भुवो वरुणो यद् ऋताय वेषि |
भुवो अपां नपाज् जातवेदो भुवो दूतो यस्य हव्यं जुजोषः ||bhúvaścákṣurmahá ṛtásya gopā́ bhúvo váruṇo yádṛtā́ya véṣi ǀ
bhúvo apā́m nápājjātavedo bhúvo dūtó yásya havyám jújoṣaḥ ǁbhuvaś cakṣur maha ṛtasya gopā bhuvo varuṇo yad ṛtāya veṣi |
bhuvo apāṃ napāj jātavedo bhuvo dūto yasya havyaṃ jujoṣaḥ ||भुवः॑ । चक्षुः॑ । म॒हः । ऋ॒तस्य॑ । गो॒पाः । भुवः॑ । वरु॑णः । यत् । ऋ॒ताय॑ । वेषि॑ ।
भुवः॑ । अ॒पाम् । नपा॑त् । जा॒त॒ऽवे॒दः॒ । भुवः॑ । दू॒तः । यस्य॑ । ह॒व्यम् । जुजो॑षः ॥भुवः । चक्षुः । महः । ऋतस्य । गोपाः । भुवः । वरुणः । यत् । ऋताय । वेषि ।
भुवः । अपाम् । नपात् । जातऽवेदः । भुवः । दूतः । यस्य । हव्यम् । जुजोषः ॥bhúvaḥ ǀ cákṣuḥ ǀ maháḥ ǀ ṛtásya ǀ gopā́ḥ ǀ bhúvaḥ ǀ váruṇaḥ ǀ yát ǀ ṛtā́ya ǀ véṣi ǀ
bhúvaḥ ǀ apā́m ǀ nápāt ǀ jāta-vedaḥ ǀ bhúvaḥ ǀ dūtáḥ ǀ yásya ǀ havyám ǀ jújoṣaḥ ǁbhuvaḥ ǀ cakṣuḥ ǀ mahaḥ ǀ ṛtasya ǀ gopāḥ ǀ bhuvaḥ ǀ varuṇaḥ ǀ yat ǀ ṛtāya ǀ veṣi ǀ
bhuvaḥ ǀ apām ǀ napāt ǀ jāta-vedaḥ ǀ bhuvaḥ ǀ dūtaḥ ǀ yasya ǀ havyam ǀ jujoṣaḥ ǁ10.8.5 Aṣṭaka 7.6.3.5Anuvāka 10.1.54
-
Ṛk 6
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ ।
दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाहं॑ ॥भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः |
दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ||bhúvo yajñásya rájasaśca netā́ yátrā niyúdbhiḥ sácase śivā́bhiḥ ǀ
diví mūrdhā́nam dadhiṣe svarṣā́m jihvā́magne cakṛṣe havyavā́ham ǁbhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ |
divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakṛṣe havyavāham ||भुवः॑ । य॒ज्ञस्य॑ । रज॑सः । च॒ । ने॒ता । यत्र॑ । नि॒युत्ऽभिः॑ । सच॑से । शि॒वाभिः॑ ।
दि॒वि । मू॒र्धान॑म् । द॒धि॒षे॒ । स्वः॒ऽसाम् । जि॒ह्वाम् । अ॒ग्ने॒ । च॒कृ॒षे॒ । ह॒व्य॒ऽवाह॑म् ॥भुवः । यज्ञस्य । रजसः । च । नेता । यत्र । नियुत्ऽभिः । सचसे । शिवाभिः ।
दिवि । मूर्धानम् । दधिषे । स्वःऽसाम् । जिह्वाम् । अग्ने । चकृषे । हव्यऽवाहम् ॥bhúvaḥ ǀ yajñásya ǀ rájasaḥ ǀ ca ǀ netā́ ǀ yátra ǀ niyút-bhiḥ ǀ sácase ǀ śivā́bhiḥ ǀ
diví ǀ mūrdhā́nam ǀ dadhiṣe ǀ svaḥ-sā́m ǀ jihvā́m ǀ agne ǀ cakṛṣe ǀ havya-vā́ham ǁbhuvaḥ ǀ yajñasya ǀ rajasaḥ ǀ ca ǀ netā ǀ yatra ǀ niyut-bhiḥ ǀ sacase ǀ śivābhiḥ ǀ
divi ǀ mūrdhānam ǀ dadhiṣe ǀ svaḥ-sām ǀ jihvām ǀ agne ǀ cakṛṣe ǀ havya-vāham ǁ10.8.6 Aṣṭaka 7.6.4.1Anuvāka 10.1.55
-
Ṛk 7
अ॒स्य त्रि॒तः क्रतु॑ना व॒व्रे अं॒तरि॒च्छंधी॒तिं पि॒तुरेवैः॒ पर॑स्य ।
स॒च॒स्यमा॑नः पि॒त्रोरु॒पस्थे॑ जा॒मि ब्रु॑वा॒ण आयु॑धानि वेति ॥अस्य त्रितः क्रतुना वव्रे अन्तर् इच्छन् धीतिम् पितुर् एवैः परस्य |
सचस्यमानः पित्रोर् उपस्थे जामि ब्रुवाण आयुधानि वेति ||asyá tritáḥ krátunā vavré antáricchándhītím pitúrévaiḥ párasya ǀ
sacasyámānaḥ pitrórupásthe jāmí bruvāṇá ā́yudhāni veti ǁasya tritaḥ kratunā vavre antar icchan dhītim pitur evaiḥ parasya |
sacasyamānaḥ pitror upasthe jāmi bruvāṇa āyudhāni veti ||अ॒स्य । त्रि॒तः । क्रतु॑ना । व॒व्रे । अ॒न्तः । इ॒च्छन् । धी॒तिम् । पि॒तुः । एवैः॑ । पर॑स्य ।
स॒च॒स्यमा॑नः । पि॒त्रोः । उ॒पऽस्थे॑ । जा॒मि । ब्रु॒वा॒णः । आयु॑धानि । वे॒ति॒ ॥अस्य । त्रितः । क्रतुना । वव्रे । अन्तः । इच्छन् । धीतिम् । पितुः । एवैः । परस्य ।
सचस्यमानः । पित्रोः । उपऽस्थे । जामि । ब्रुवाणः । आयुधानि । वेति ॥asyá ǀ tritáḥ ǀ krátunā ǀ vavré ǀ antáḥ ǀ icchán ǀ dhītím ǀ pitúḥ ǀ évaiḥ ǀ párasya ǀ
sacasyámānaḥ ǀ pitróḥ ǀ upá-sthe ǀ jāmí ǀ bruvāṇáḥ ǀ ā́yudhāni ǀ veti ǁasya ǀ tritaḥ ǀ kratunā ǀ vavre ǀ antaḥ ǀ icchan ǀ dhītim ǀ pituḥ ǀ evaiḥ ǀ parasya ǀ
sacasyamānaḥ ǀ pitroḥ ǀ upa-sthe ǀ jāmi ǀ bruvāṇaḥ ǀ āyudhāni ǀ veti ǁ10.8.7 Aṣṭaka 7.6.4.2Anuvāka 10.1.56
-
Ṛk 8
स पित्र्या॒ण्यायु॑धानि वि॒द्वानिंद्रे॑षित आ॒प्त्यो अ॒भ्य॑युध्यत् ।
त्रि॒शी॒र्षाणं॑ स॒प्तर॑श्मिं जघ॒न्वांत्वा॒ष्ट्रस्य॑ चि॒न्निः स॑सृजे त्रि॒तो गाः ॥स पित्र्याण्य् आयुधानि विद्वान् इन्द्रेषित आप्त्यो अभ्य् अयुध्यत् |
त्रिशीर्षाणं सप्तरश्मिं जघन्वान् त्वाष्ट्रस्य चिन् निः ससृजे त्रितो गाः ||sá pítryāṇyā́yudhāni vidvā́níndreṣita āptyó abhyáyudhyat ǀ
triśīrṣā́ṇam saptáraśmim jaghanvā́ntvāṣṭrásya cinníḥ sasṛje tritó gā́ḥ ǁsa pitryāṇy āyudhāni vidvān indreṣita āptyo abhy ayudhyat |
triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ ||सः । पित्र्या॑णि । आयु॑धानि । वि॒द्वान् । इन्द्र॑ऽइषितः । आ॒प्त्यः । अ॒भि । अ॒यु॒ध्य॒त् ।
त्रि॒ऽशी॒र्षाण॑म् । स॒प्तऽर॑श्मिम् । ज॒घ॒न्वान् । त्वा॒ष्ट्रस्य॑ । चि॒त् । निः । स॒सृ॒जे॒ । त्रि॒तः । गाः ॥सः । पित्र्याणि । आयुधानि । विद्वान् । इन्द्रऽइषितः । आप्त्यः । अभि । अयुध्यत् ।
त्रिऽशीर्षाणम् । सप्तऽरश्मिम् । जघन्वान् । त्वाष्ट्रस्य । चित् । निः । ससृजे । त्रितः । गाः ॥sáḥ ǀ pítryāṇi ǀ ā́yudhāni ǀ vidvā́n ǀ índra-iṣitaḥ ǀ āptyáḥ ǀ abhí ǀ ayudhyat ǀ
tri-śīrṣā́ṇam ǀ saptá-raśmim ǀ jaghanvā́n ǀ tvāṣṭrásya ǀ cit ǀ níḥ ǀ sasṛje ǀ tritáḥ ǀ gā́ḥ ǁsaḥ ǀ pitryāṇi ǀ āyudhāni ǀ vidvān ǀ indra-iṣitaḥ ǀ āptyaḥ ǀ abhi ǀ ayudhyat ǀ
tri-śīrṣāṇam ǀ sapta-raśmim ǀ jaghanvān ǀ tvāṣṭrasya ǀ cit ǀ niḥ ǀ sasṛje ǀ tritaḥ ǀ gāḥ ǁ10.8.8 Aṣṭaka 7.6.4.3Anuvāka 10.1.57
-
Ṛk 9
भूरीदिंद्र॑ उ॒दिन॑क्षंत॒मोजोऽवा॑भिन॒त्सत्प॑ति॒र्मन्य॑मानं ।
त्वा॒ष्ट्रस्य॑ चिद्वि॒श्वरू॑पस्य॒ गोना॑माचक्रा॒णस्त्रीणि॑ शी॒र्षा परा॑ वर्क् ॥भूरीद् इन्द्र उदिनक्षन्तम् ओजो ऽवाभिनत् सत्पतिर् मन्यमानम् |
त्वाष्ट्रस्य चिद् विश्वरूपस्य गोनाम् आचक्राणस् त्रीणि शीर्षा परा वर्क् ||bhū́rī́díndra udínakṣantamójó’vābhinatsátpatirmányamānam ǀ
tvāṣṭrásya cidviśvárūpasya gónāmācakrāṇástrī́ṇi śīrṣā́ párā vark ǁbhūrīd indra udinakṣantam ojo 'vābhinat satpatir manyamānam |
tvāṣṭrasya cid viśvarūpasya gonām ācakrāṇas trīṇi śīrṣā parā vark ||भूरि॑ । इत् । इन्द्रः॑ । उ॒त्ऽइन॑क्षन्तम् । ओजः॑ । अव॑ । अ॒भि॒न॒त् । सत्ऽप॑तिः । मन्य॑मानम् ।
त्वा॒ष्ट्रस्य॑ । चि॒त् । वि॒श्वऽरू॑पस्य । गोना॑म् । आ॒ऽच॒क्रा॒णः । त्रीणि॑ । शी॒र्षा । परा॑ । व॒र्गिति॑ वर्क् ॥भूरि । इत् । इन्द्रः । उत्ऽइनक्षन्तम् । ओजः । अव । अभिनत् । सत्ऽपतिः । मन्यमानम् ।
त्वाष्ट्रस्य । चित् । विश्वऽरूपस्य । गोनाम् । आऽचक्राणः । त्रीणि । शीर्षा । परा । वर्गिति वर्क् ॥bhū́ri ǀ ít ǀ índraḥ ǀ ut-ínakṣantam ǀ ójaḥ ǀ áva ǀ abhinat ǀ sát-patiḥ ǀ mányamānam ǀ
tvāṣṭrásya ǀ cit ǀ viśvá-rūpasya ǀ gónām ǀ ā-cakrāṇáḥ ǀ trī́ṇi ǀ śīrṣā́ ǀ párā ǀ vargíti várk ǁbhūri ǀ it ǀ indraḥ ǀ ut-inakṣantam ǀ ojaḥ ǀ ava ǀ abhinat ǀ sat-patiḥ ǀ manyamānam ǀ
tvāṣṭrasya ǀ cit ǀ viśva-rūpasya ǀ gonām ǀ ā-cakrāṇaḥ ǀ trīṇi ǀ śīrṣā ǀ parā ǀ vargiti vark ǁ10.8.9 Aṣṭaka 7.6.4.4Anuvāka 10.1.58
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.