Ṛgveda · Maṇḍala 10

Sūkta 43

Indra · Kṛṣṇa Āṅgirasa · 11 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Kṛṣṇa Āṅgirasa
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles virāḍjagatī (4, 5, 7, 8); nicṛjjagatī (1, 9); jagatī (3, 6); svarāḍārcījagatī (2); virāṭtrisṭup (10); triṣṭup (11)

2nd set of styles jagatī (1-9); triṣṭubh (10, 11)

  1. Ṛk 1

    अच्छा॑ म॒ इंद्रं॑ म॒तयः॑ स्व॒र्विदः॑ स॒ध्रीची॒र्विश्वा॑ उश॒तीर॑नूषत ।
    परि॑ ष्वजंते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शुं॒ध्युं म॒घवा॑नमू॒तये॑ ॥

    अच्छा म इन्द्रम् मतयः स्वर्विदः सध्रीचीर् विश्वा उशतीर् अनूषत |
    परि ष्वजन्ते जनयो यथा पतिम् मर्यं न शुन्ध्युम् मघवानम् ऊतये ||

    ácchā ma índram matáyaḥ svarvídaḥ sadhrī́cīrvíśvā uśatī́ranūṣata ǀ
    pári ṣvajante jánayo yáthā pátim máryam ná śundhyúm maghávānamūtáye ǁ

    acchā ma indram matayaḥ svarvidaḥ sadhrīcīr viśvā uśatīr anūṣata |
    pari ṣvajante janayo yathā patim maryaṃ na śundhyum maghavānam ūtaye ||

    अच्छ॑ । मे॒ । इन्द्र॑म् । म॒तयः॑ । स्वः॒ऽविदः॑ । स॒ध्रीचीः॑ । विश्वाः॑ । उ॒श॒तीः । अ॒नू॒ष॒त॒ ।
    परि॑ । स्व॒ज॒न्ते॒ । जन॑यः । यथा॑ । पति॑म् । मर्य॑म् । न । शु॒न्ध्युम् । म॒घऽवा॑नम् । ऊ॒तये॑ ॥

    अच्छ । मे । इन्द्रम् । मतयः । स्वःऽविदः । सध्रीचीः । विश्वाः । उशतीः । अनूषत ।
    परि । स्वजन्ते । जनयः । यथा । पतिम् । मर्यम् । न । शुन्ध्युम् । मघऽवानम् । ऊतये ॥

    áccha ǀ me ǀ índram ǀ matáyaḥ ǀ svaḥ-vídaḥ ǀ sadhrī́cīḥ ǀ víśvāḥ ǀ uśatī́ḥ ǀ anūṣata ǀ
    pári ǀ svajante ǀ jánayaḥ ǀ yáthā ǀ pátim ǀ máryam ǀ ná ǀ śundhyúm ǀ maghá-vānam ǀ ūtáye ǁ

    accha ǀ me ǀ indram ǀ matayaḥ ǀ svaḥ-vidaḥ ǀ sadhrīcīḥ ǀ viśvāḥ ǀ uśatīḥ ǀ anūṣata ǀ
    pari ǀ svajante ǀ janayaḥ ǀ yathā ǀ patim ǀ maryam ǀ na ǀ śundhyum ǀ magha-vānam ǀ ūtaye ǁ

    10.43.1 Aṣṭaka 7.8.24.1Anuvāka 10.4.1

  2. Ṛk 2

    न घा॑ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत्कामं॑ पुरुहूत शिश्रय ।
    राजे॑व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्त्सु सोमे॑ऽव॒पान॑मस्तु ते ॥

    न घा त्वद्रिग् अप वेति मे मनस् त्वे इत् कामम् पुरुहूत शिश्रय |
    राजेव दस्म नि षदो ऽधि बर्हिष्य् अस्मिन् सु सोमे ऽवपानम् अस्तु ते ||

    ná ghā tvadrígápa veti me mánastvé ítkā́mam puruhūta śiśraya ǀ
    rā́jeva dasma ní ṣadó’dhi barhíṣyasmíntsú sóme’vapā́namastu te ǁ

    na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya |
    rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te ||

    न । घ॒ । त्व॒द्रिक् । अप॑ । वे॒ति॒ । मे॒ । मनः॑ । त्वे इति॑ । इत् । काम॑म् । पु॒रु॒ऽहू॒त॒ । शि॒श्र॒य॒ ।
    राजा॑ऽइव । द॒स्म॒ । नि । स॒दः॒ । अधि॑ । ब॒र्हिषि॑ । अ॒स्मिन् । सु । सोमे॑ । अ॒व॒ऽपान॑म् । अ॒स्तु॒ । ते॒ ॥

    न । घ । त्वद्रिक् । अप । वेति । मे । मनः । त्वे इति । इत् । कामम् । पुरुऽहूत । शिश्रय ।
    राजाऽइव । दस्म । नि । सदः । अधि । बर्हिषि । अस्मिन् । सु । सोमे । अवऽपानम् । अस्तु । ते ॥

    ná ǀ gha ǀ tvadrík ǀ ápa ǀ veti ǀ me ǀ mánaḥ ǀ tvé íti ǀ ít ǀ kā́mam ǀ puru-hūta ǀ śiśraya ǀ
    rā́jā-iva ǀ dasma ǀ ní ǀ sadaḥ ǀ ádhi ǀ barhíṣi ǀ asmín ǀ sú ǀ sóme ǀ ava-pā́nam ǀ astu ǀ te ǁ

    na ǀ gha ǀ tvadrik ǀ apa ǀ veti ǀ me ǀ manaḥ ǀ tve iti ǀ it ǀ kāmam ǀ puru-hūta ǀ śiśraya ǀ
    rājā-iva ǀ dasma ǀ ni ǀ sadaḥ ǀ adhi ǀ barhiṣi ǀ asmin ǀ su ǀ some ǀ ava-pānam ǀ astu ǀ te ǁ

    10.43.2 Aṣṭaka 7.8.24.2Anuvāka 10.4.2

  3. Ṛk 3

    वि॒षू॒वृदिंद्रो॒ अम॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते ।
    तस्येदि॒मे प्र॑व॒णे स॒प्त सिंध॑वो॒ वयो॑ वर्धंति वृष॒भस्य॑ शु॒ष्मिणः॑ ॥

    विषूवृद् इन्द्रो अमतेर् उत क्षुधः स इद् रायो मघवा वस्व ईशते |
    तस्येद् इमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ||

    viṣūvṛ́díndro ámaterutá kṣudháḥ sá ídrāyó maghávā vásva īśate ǀ
    tásyédimé pravaṇé saptá síndhavo váyo vardhanti vṛṣabhásya śuṣmíṇaḥ ǁ

    viṣūvṛd indro amater uta kṣudhaḥ sa id rāyo maghavā vasva īśate |
    tasyed ime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ ||

    वि॒षु॒ऽवृत् । इन्द्रः॑ । अम॑तेः । उ॒त । क्षु॒धः । सः । इत् । रा॒यः । म॒घऽवा॑ । वस्वः॑ । ई॒श॒ते॒ ।
    तस्य॑ । इत् । इ॒मे । प्र॒व॒णे । स॒प्त । सिन्ध॑वः । वयः॑ । व॒र्ध॒न्ति॒ । वृ॒ष॒भस्य॑ । शु॒ष्मिणः॑ ॥

    विषुऽवृत् । इन्द्रः । अमतेः । उत । क्षुधः । सः । इत् । रायः । मघऽवा । वस्वः । ईशते ।
    तस्य । इत् । इमे । प्रवणे । सप्त । सिन्धवः । वयः । वर्धन्ति । वृषभस्य । शुष्मिणः ॥

    viṣu-vṛ́t ǀ índraḥ ǀ ámateḥ ǀ utá ǀ kṣudháḥ ǀ sáḥ ǀ ít ǀ rāyáḥ ǀ maghá-vā ǀ vásvaḥ ǀ īśate ǀ
    tásya ǀ ít ǀ imé ǀ pravaṇé ǀ saptá ǀ síndhavaḥ ǀ váyaḥ ǀ vardhanti ǀ vṛṣabhásya ǀ śuṣmíṇaḥ ǁ

    viṣu-vṛt ǀ indraḥ ǀ amateḥ ǀ uta ǀ kṣudhaḥ ǀ saḥ ǀ it ǀ rāyaḥ ǀ magha-vā ǀ vasvaḥ ǀ īśate ǀ
    tasya ǀ it ǀ ime ǀ pravaṇe ǀ sapta ǀ sindhavaḥ ǀ vayaḥ ǀ vardhanti ǀ vṛṣabhasya ǀ śuṣmiṇaḥ ǁ

    10.43.3 Aṣṭaka 7.8.24.3Anuvāka 10.4.3

  4. Ṛk 4

    वयो॒ न वृ॒क्षं सु॑पला॒शमास॑द॒न्त्सोमा॑स॒ इंद्रं॑ मं॒दिन॑श्चमू॒षदः॑ ।
    प्रैषा॒मनी॑कं॒ शव॑सा॒ दवि॑द्युतद्वि॒दत्स्व१॒॑र्मन॑वे॒ ज्योति॒रार्यं॑ ॥

    वयो न वृक्षं सुपलाशम् आसदन् सोमास इन्द्रम् मन्दिनश् चमूषदः |
    प्रैषाम् अनीकं शवसा दविद्युतद् विदत् स्वर् मनवे ज्योतिर् आर्यम् ||

    váyo ná vṛkṣám supalāśámā́sadantsómāsa índram mandínaścamūṣádaḥ ǀ
    práiṣāmánīkam śávasā dávidyutadvidátsvármánave jyótirā́ryam ǁ

    vayo na vṛkṣaṃ supalāśam āsadan somāsa indram mandinaś camūṣadaḥ |
    praiṣām anīkaṃ śavasā davidyutad vidat svar manave jyotir āryam ||

    वयः॑ । न । वृ॒क्षम् । सु॒ऽप॒ला॒शम् । आ । अ॒स॒द॒न् । सोमा॑सः । इन्द्र॑म् । म॒न्दिनः॑ । च॒मू॒ऽसदः॑ ।
    प्र । ए॒षा॒म् । अनी॑कम् । शव॑सा । दवि॑द्युतत् । वि॒दत् । स्वः॑ । मन॑वे । ज्योतिः॑ । आर्य॑म् ॥

    वयः । न । वृक्षम् । सुऽपलाशम् । आ । असदन् । सोमासः । इन्द्रम् । मन्दिनः । चमूऽसदः ।
    प्र । एषाम् । अनीकम् । शवसा । दविद्युतत् । विदत् । स्वः । मनवे । ज्योतिः । आर्यम् ॥

    váyaḥ ǀ ná ǀ vṛkṣám ǀ su-palāśám ǀ ā́ ǀ asadan ǀ sómāsaḥ ǀ índram ǀ mandínaḥ ǀ camū-sádaḥ ǀ
    prá ǀ eṣām ǀ ánīkam ǀ śávasā ǀ dávidyutat ǀ vidát ǀ sváḥ ǀ mánave ǀ jyótiḥ ǀ ā́ryam ǁ

    vayaḥ ǀ na ǀ vṛkṣam ǀ su-palāśam ǀ ā ǀ asadan ǀ somāsaḥ ǀ indram ǀ mandinaḥ ǀ camū-sadaḥ ǀ
    pra ǀ eṣām ǀ anīkam ǀ śavasā ǀ davidyutat ǀ vidat ǀ svaḥ ǀ manave ǀ jyotiḥ ǀ āryam ǁ

    10.43.4 Aṣṭaka 7.8.24.4Anuvāka 10.4.4

  5. Ṛk 5

    कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त् ।
    न तत्ते॑ अ॒न्यो अनु॑ वी॒र्यं॑ शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ॥

    कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत् |
    न तत् ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः ||

    kṛtám ná śvaghnī́ ví cinoti dévane saṃvárgam yánmaghávā sū́ryam jáyat ǀ
    ná tátte anyó ánu vīryám śakanná purāṇó maghavannótá nū́tanaḥ ǁ

    kṛtaṃ na śvaghnī vi cinoti devane saṃvargaṃ yan maghavā sūryaṃ jayat |
    na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ ||

    कृ॒तम् । न । श्व॒ऽघ्नी । वि । चि॒नो॒ति॒ । देव॑ने । स॒म्ऽवर्ग॑म् । यत् । म॒घऽवा॑ । सूर्य॑म् । जय॑त् ।
    न । तत् । ते॒ । अ॒न्यः । अनु॑ । वी॒र्य॑म् । श॒क॒त् । न । पु॒रा॒णः । म॒घ॒ऽव॒न् । न । उ॒त । नूत॑नः ॥

    कृतम् । न । श्वऽघ्नी । वि । चिनोति । देवने । सम्ऽवर्गम् । यत् । मघऽवा । सूर्यम् । जयत् ।
    न । तत् । ते । अन्यः । अनु । वीर्यम् । शकत् । न । पुराणः । मघऽवन् । न । उत । नूतनः ॥

    kṛtám ǀ ná ǀ śva-ghnī́ ǀ ví ǀ cinoti ǀ dévane ǀ sam-várgam ǀ yát ǀ maghá-vā ǀ sū́ryam ǀ jáyat ǀ
    ná ǀ tát ǀ te ǀ anyáḥ ǀ ánu ǀ vīryám ǀ śakat ǀ ná ǀ purāṇáḥ ǀ magha-van ǀ ná ǀ utá ǀ nū́tanaḥ ǁ

    kṛtam ǀ na ǀ śva-ghnī ǀ vi ǀ cinoti ǀ devane ǀ sam-vargam ǀ yat ǀ magha-vā ǀ sūryam ǀ jayat ǀ
    na ǀ tat ǀ te ǀ anyaḥ ǀ anu ǀ vīryam ǀ śakat ǀ na ǀ purāṇaḥ ǀ magha-van ǀ na ǀ uta ǀ nūtanaḥ ǁ

    10.43.5 Aṣṭaka 7.8.24.5Anuvāka 10.4.5

  6. Ṛk 6

    विशं॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द्वृषा॑ ।
    यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमैः॑ सहते पृतन्य॒तः ॥

    विशं-विशम् मघवा पर्य् अशायत जनानां धेना अवचाकशद् वृषा |
    यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ||

    víśaṃviśam maghávā páryaśāyata jánānām dhénā avacā́kaśadvṛ́ṣā ǀ
    yásyā́ha śakráḥ sávaneṣu ráṇyati sá tīvráiḥ sómaiḥ sahate pṛtanyatáḥ ǁ

    viśaṃ-viśam maghavā pary aśāyata janānāṃ dhenā avacākaśad vṛṣā |
    yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ ||

    विश॑म्ऽविशम् । म॒घऽवा॑ । परि॑ । अ॒शा॒य॒त॒ । जना॑नाम् । धेनाः॑ । अ॒व॒ऽचाक॑शत् । वृषा॑ ।
    यस्य॑ । अह॑ । श॒क्रः । सव॑नेषु । रण्य॑ति । सः । ती॒व्रैः । सोमैः॑ । स॒ह॒ते॒ । पृ॒त॒न्य॒तः ॥

    विशम्ऽविशम् । मघऽवा । परि । अशायत । जनानाम् । धेनाः । अवऽचाकशत् । वृषा ।
    यस्य । अह । शक्रः । सवनेषु । रण्यति । सः । तीव्रैः । सोमैः । सहते । पृतन्यतः ॥

    víśam-viśam ǀ maghá-vā ǀ pári ǀ aśāyata ǀ jánānām ǀ dhénāḥ ǀ ava-cā́kaśat ǀ vṛ́ṣā ǀ
    yásya ǀ áha ǀ śakráḥ ǀ sávaneṣu ǀ ráṇyati ǀ sáḥ ǀ tīvráiḥ ǀ sómaiḥ ǀ sahate ǀ pṛtanyatáḥ ǁ

    viśam-viśam ǀ magha-vā ǀ pari ǀ aśāyata ǀ janānām ǀ dhenāḥ ǀ ava-cākaśat ǀ vṛṣā ǀ
    yasya ǀ aha ǀ śakraḥ ǀ savaneṣu ǀ raṇyati ǀ saḥ ǀ tīvraiḥ ǀ somaiḥ ǀ sahate ǀ pṛtanyataḥ ǁ

    10.43.6 Aṣṭaka 7.8.25.1Anuvāka 10.4.6

  7. Ṛk 7

    आपो॒ न सिंधु॑म॒भि यत्स॒मक्ष॑र॒न्त्सोमा॑स॒ इंद्रं॑ कु॒ल्या इ॑व ह्र॒दं ।
    वर्धं॑ति॒ विप्रा॒ महो॑ अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ॥

    आपो न सिन्धुम् अभि यत् समक्षरन् सोमास इन्द्रं कुल्या इव ह्रदम् |
    वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर् दिव्येन दानुना ||

    ā́po ná síndhumabhí yátsamákṣarantsómāsa índram kulyā́ iva hradám ǀ
    várdhanti víprā máho asya sā́dane yávam ná vṛṣṭírdivyéna dā́nunā ǁ

    āpo na sindhum abhi yat samakṣaran somāsa indraṃ kulyā iva hradam |
    vardhanti viprā maho asya sādane yavaṃ na vṛṣṭir divyena dānunā ||

    आपः॑ । न । सिन्धु॑म् । अ॒भि । यत् । स॒म्ऽअक्ष॑रन् । सोमा॑सः । इन्द्र॑म् । कु॒ल्याःऽइ॑व । ह्र॒दम् ।
    वर्ध॑न्ति । विप्राः॑ । महः॑ । अ॒स्य॒ । सद॑ने । यव॑म् । न । वृ॒ष्टिः । दि॒व्येन॑ । दानु॑ना ॥

    आपः । न । सिन्धुम् । अभि । यत् । सम्ऽअक्षरन् । सोमासः । इन्द्रम् । कुल्याःऽइव । ह्रदम् ।
    वर्धन्ति । विप्राः । महः । अस्य । सदने । यवम् । न । वृष्टिः । दिव्येन । दानुना ॥

    ā́paḥ ǀ ná ǀ síndhum ǀ abhí ǀ yát ǀ sam-ákṣaran ǀ sómāsaḥ ǀ índram ǀ kulyā́ḥ-iva ǀ hradám ǀ
    várdhanti ǀ víprāḥ ǀ máhaḥ ǀ asya ǀ sádane ǀ yávam ǀ ná ǀ vṛṣṭíḥ ǀ divyéna ǀ dā́nunā ǁ

    āpaḥ ǀ na ǀ sindhum ǀ abhi ǀ yat ǀ sam-akṣaran ǀ somāsaḥ ǀ indram ǀ kulyāḥ-iva ǀ hradam ǀ
    vardhanti ǀ viprāḥ ǀ mahaḥ ǀ asya ǀ sadane ǀ yavam ǀ na ǀ vṛṣṭiḥ ǀ divyena ǀ dānunā ǁ

    10.43.7 Aṣṭaka 7.8.25.2Anuvāka 10.4.7

  8. Ṛk 8

    वृषा॒ न क्रु॒द्धः प॑तय॒द्रज॒स्स्वा यो अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा अ॒पः ।
    स सु॑न्व॒ते म॒घवा॑ जी॒रदा॑न॒वेऽविं॑द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥

    वृषा न क्रुद्धः पतयद् रजस्स्व् आ यो अर्यपत्नीर् अकृणोद् इमा अपः |
    स सुन्वते मघवा जीरदानवे ऽविन्दज् ज्योतिर् मनवे हविष्मते ||

    vṛ́ṣā ná kruddháḥ patayadrájassvā́ yó aryápatnīrákṛṇodimā́ apáḥ ǀ
    sá sunvaté maghávā jīrádānavé’vindajjyótirmánave havíṣmate ǁ

    vṛṣā na kruddhaḥ patayad rajassv ā yo aryapatnīr akṛṇod imā apaḥ |
    sa sunvate maghavā jīradānave 'vindaj jyotir manave haviṣmate ||

    वृषा॑ । न । क्रु॒द्धः । प॒त॒य॒त् । रजः॑ऽसु । आ । यः । अ॒र्यऽप॑त्नीः । अकृ॑णोत् । इ॒माः । अ॒पः ।
    सः । सु॒न्व॒ते । म॒घऽवा॑ । जी॒रऽदा॑नवे । अवि॑न्दत् । ज्योतिः॑ । मन॑वे । ह॒विष्म॑ते ॥

    वृषा । न । क्रुद्धः । पतयत् । रजःऽसु । आ । यः । अर्यऽपत्नीः । अकृणोत् । इमाः । अपः ।
    सः । सुन्वते । मघऽवा । जीरऽदानवे । अविन्दत् । ज्योतिः । मनवे । हविष्मते ॥

    vṛ́ṣā ǀ ná ǀ kruddháḥ ǀ patayat ǀ rájaḥ-su ǀ ā́ ǀ yáḥ ǀ aryá-patnīḥ ǀ ákṛṇot ǀ imā́ḥ ǀ apáḥ ǀ
    sáḥ ǀ sunvaté ǀ maghá-vā ǀ jīrá-dānave ǀ ávindat ǀ jyótiḥ ǀ mánave ǀ havíṣmate ǁ

    vṛṣā ǀ na ǀ kruddhaḥ ǀ patayat ǀ rajaḥ-su ǀ ā ǀ yaḥ ǀ arya-patnīḥ ǀ akṛṇot ǀ imāḥ ǀ apaḥ ǀ
    saḥ ǀ sunvate ǀ magha-vā ǀ jīra-dānave ǀ avindat ǀ jyotiḥ ǀ manave ǀ haviṣmate ǁ

    10.43.8 Aṣṭaka 7.8.25.3Anuvāka 10.4.8

  9. Ṛk 9

    उज्जा॑यतां पर॒शुर्ज्योति॑षा स॒ह भू॒या ऋ॒तस्य॑ सु॒दुघा॑ पुराण॒वत् ।
    वि रो॑चतामरु॒षो भा॒नुना॒ शुचिः॒ स्व१॒॑र्ण शु॒क्रं शु॑शुचीत॒ सत्प॑तिः ॥

    उज् जायताम् परशुर् ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत् |
    वि रोचताम् अरुषो भानुना शुचिः स्वर् ण शुक्रं शुशुचीत सत्पतिः ||

    újjāyatām paraśúrjyótiṣā sahá bhūyā́ ṛtásya sudúghā purāṇavát ǀ
    ví rocatāmaruṣó bhānúnā śúciḥ svárṇá śukrám śuśucīta sátpatiḥ ǁ

    uj jāyatām paraśur jyotiṣā saha bhūyā ṛtasya sudughā purāṇavat |
    vi rocatām aruṣo bhānunā śuciḥ svar ṇa śukraṃ śuśucīta satpatiḥ ||

    उत् । जा॒य॒ता॒म् । प॒र॒शुः । ज्योति॑षा । स॒ह । भू॒याः । ऋ॒तस्य॑ । सु॒ऽदुघा॑ । पु॒रा॒ण॒ऽवत् ।
    वि । रो॒च॒ता॒म् । अ॒रु॒षः । भा॒नुना॑ । शुचिः॑ । स्वः॑ । न । शु॒क्रम् । शु॒शु॒ची॒त॒ । सत्ऽप॑तिः ॥

    उत् । जायताम् । परशुः । ज्योतिषा । सह । भूयाः । ऋतस्य । सुऽदुघा । पुराणऽवत् ।
    वि । रोचताम् । अरुषः । भानुना । शुचिः । स्वः । न । शुक्रम् । शुशुचीत । सत्ऽपतिः ॥

    út ǀ jāyatām ǀ paraśúḥ ǀ jyótiṣā ǀ sahá ǀ bhūyā́ḥ ǀ ṛtásya ǀ su-dúghā ǀ purāṇa-vát ǀ
    ví ǀ rocatām ǀ aruṣáḥ ǀ bhānúnā ǀ śúciḥ ǀ sváḥ ǀ ná ǀ śukrám ǀ śuśucīta ǀ sát-patiḥ ǁ

    ut ǀ jāyatām ǀ paraśuḥ ǀ jyotiṣā ǀ saha ǀ bhūyāḥ ǀ ṛtasya ǀ su-dughā ǀ purāṇa-vat ǀ
    vi ǀ rocatām ǀ aruṣaḥ ǀ bhānunā ǀ śuciḥ ǀ svaḥ ǀ na ǀ śukram ǀ śuśucīta ǀ sat-patiḥ ǁ

    10.43.9 Aṣṭaka 7.8.25.4Anuvāka 10.4.9

  10. Ṛk 10

    गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वां॑ ।
    व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥

    गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् |
    वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ||

    góbhiṣṭaremā́matim durévām yávena kṣúdham puruhūta víśvām ǀ
    vayám rā́jabhiḥ prathamā́ dhánānyasmā́kena vṛjánenā jayema ǁ

    gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām |
    vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema ||

    गोभिः॑ । त॒रे॒म॒ । अम॑तिम् । दुः॒ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वा॑म् ।
    व॒यम् । राज॑ऽभिः । प्र॒थ॒मा । धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥

    गोभिः । तरेम । अमतिम् । दुःऽएवाम् । यवेन । क्षुधम् । पुरुऽहूत । विश्वाम् ।
    वयम् । राजऽभिः । प्रथमा । धनानि । अस्माकेन । वृजनेन । जयेम ॥

    góbhiḥ ǀ tarema ǀ ámatim ǀ duḥ-évām ǀ yávena ǀ kṣúdham ǀ puru-hūta ǀ víśvām ǀ
    vayám ǀ rā́ja-bhiḥ ǀ prathamā́ ǀ dhánāni ǀ asmā́kena ǀ vṛjánena ǀ jayema ǁ

    gobhiḥ ǀ tarema ǀ amatim ǀ duḥ-evām ǀ yavena ǀ kṣudham ǀ puru-hūta ǀ viśvām ǀ
    vayam ǀ rāja-bhiḥ ǀ prathamā ǀ dhanāni ǀ asmākena ǀ vṛjanena ǀ jayema ǁ

    10.43.10 Aṣṭaka 7.8.25.5Anuvāka 10.4.10

  11. Ṛk 11

    बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।
    इंद्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥

    बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः |
    इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ||

    bṛ́haspátirnaḥ pári pātu paścā́dutóttarasmādádharādaghāyóḥ ǀ
    índraḥ purástādutá madhyató naḥ sákhā sákhibhyo várivaḥ kṛṇotu ǁ

    bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ |
    indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ||

    बृह॒स्पतिः॑ । नः॒ । परि॑ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्ऽत॑रस्मात् । अध॑रात् । अ॒घ॒ऽयोः ।
    इन्द्रः॑ । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । नः॒ । सखा॑ । सखि॑ऽभ्यः । वरि॑वः । कृ॒णो॒तु॒ ॥

    बृहस्पतिः । नः । परि । पातु । पश्चात् । उत । उत्ऽतरस्मात् । अधरात् । अघऽयोः ।
    इन्द्रः । पुरस्तात् । उत । मध्यतः । नः । सखा । सखिऽभ्यः । वरिवः । कृणोतु ॥

    bṛ́haspátiḥ ǀ naḥ ǀ pári ǀ pātu ǀ paścā́t ǀ utá ǀ út-tarasmāt ǀ ádharāt ǀ agha-yóḥ ǀ
    índraḥ ǀ purástāt ǀ utá ǀ madhyatáḥ ǀ naḥ ǀ sákhā ǀ sákhi-bhyaḥ ǀ várivaḥ ǀ kṛṇotu ǁ

    bṛhaspatiḥ ǀ naḥ ǀ pari ǀ pātu ǀ paścāt ǀ uta ǀ ut-tarasmāt ǀ adharāt ǀ agha-yoḥ ǀ
    indraḥ ǀ purastāt ǀ uta ǀ madhyataḥ ǀ naḥ ǀ sakhā ǀ sakhi-bhyaḥ ǀ varivaḥ ǀ kṛṇotu ǁ

    10.43.11 Aṣṭaka 7.8.25.6Anuvāka 10.4.11

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.43 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

IN perfect unison all yearning hymns of mine that find the light of heaven have sung forth Indra's praise. As wives embrace their lord, the comely bridegroom, so they compass Maghavan about that he may help.

Ṛk 2

Directed unto thee my spirit never strays, for I have set my hopes on thee, O Much-invoked! Sit, Wonderful! as King upon the sacred grass, and let thy drinking-place be by the Soma juice.

Ṛk 3

From indigence and hunger Indra turns away: Maghavan hath dominion over precious wealth. These the Seven Rivers flowing on their downward path increase the vital vigour of the potent Steer.

Ṛk 4

As on the fair-leafed tree rest birds, to Indra flow the gladdening Soma juices that the bowls contain. Their face that glows with splendour through their mighty power hath found the shine of heaven for man, the Āryas' light.

Ṛk 5

As in the game a gambler piles his winnings, so Maghavan, sweeping all together, gained the Sun This mighty deed of thine none other could achieve, none, Maghavan, before thee, none in recent time.

Ṛk 6

Maghavan came by turns to all the tribes of men: the Steer took notice of the people's songs of praise. The man in whose libations Śakra hath delight by means of potent Somas vanquisheth his foes.

Ṛk 7

When Soma streams together unto Indra flow like waters to the river, rivulets to the lake, In place of sacrifice sages exalt his might, as the rain swells the corn by moisture sent from heaven.

Ṛk 8

He rushes through the region like a furious Bull, he who hath made these floods the dames of worthy lords. This Maghavan hath found light for the man who brings oblation, sheds the juice, and promptly pours his gifts.

Ṛk 9

Let the keen axe come forth together with the light: here be,.as erst, the teeming cow of sacrifice. Let the Red God shine bright with his refulgent ray, and let the Lord of heroes glow like heaven's clear sheen.

Ṛk 10

O Much-invoked, may we subdue all famine and evil want with store of grain and cattle. May we allied, as first in rank, with princes obtain possessions by our own exertion.