Ṛgveda · Maṇḍala 10 · Sūkta 43
Ṛk 10.43.5
Saṃhitā
कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त् ।
न तत्ते॑ अ॒न्यो अनु॑ वी॒र्यं॑ शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ॥
कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत् |
न तत् ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः ||
kṛtám ná śvaghnī́ ví cinoti dévane saṃvárgam yánmaghávā sū́ryam jáyat ǀ
ná tátte anyó ánu vīryám śakanná purāṇó maghavannótá nū́tanaḥ ǁ
kṛtaṃ na śvaghnī vi cinoti devane saṃvargaṃ yan maghavā sūryaṃ jayat |
na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ ||
Padapāṭha
कृ॒तम् । न । श्व॒ऽघ्नी । वि । चि॒नो॒ति॒ । देव॑ने । स॒म्ऽवर्ग॑म् । यत् । म॒घऽवा॑ । सूर्य॑म् । जय॑त् ।
न । तत् । ते॒ । अ॒न्यः । अनु॑ । वी॒र्य॑म् । श॒क॒त् । न । पु॒रा॒णः । म॒घ॒ऽव॒न् । न । उ॒त । नूत॑नः ॥
कृतम् । न । श्वऽघ्नी । वि । चिनोति । देवने । सम्ऽवर्गम् । यत् । मघऽवा । सूर्यम् । जयत् ।
न । तत् । ते । अन्यः । अनु । वीर्यम् । शकत् । न । पुराणः । मघऽवन् । न । उत । नूतनः ॥
kṛtám ǀ ná ǀ śva-ghnī́ ǀ ví ǀ cinoti ǀ dévane ǀ sam-várgam ǀ yát ǀ maghá-vā ǀ sū́ryam ǀ jáyat ǀ
ná ǀ tát ǀ te ǀ anyáḥ ǀ ánu ǀ vīryám ǀ śakat ǀ ná ǀ purāṇáḥ ǀ magha-van ǀ ná ǀ utá ǀ nū́tanaḥ ǁ
kṛtam ǀ na ǀ śva-ghnī ǀ vi ǀ cinoti ǀ devane ǀ sam-vargam ǀ yat ǀ magha-vā ǀ sūryam ǀ jayat ǀ
na ǀ tat ǀ te ǀ anyaḥ ǀ anu ǀ vīryam ǀ śakat ǀ na ǀ purāṇaḥ ǀ magha-van ǀ na ǀ uta ǀ nūtanaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.043.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.24.05
- Maṇḍala · Anuvāka · Ṛk
- 10.04.005
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kṛṣṇa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.