Ṛgveda · Maṇḍala 10 · Sūkta 43
Ṛk 10.43.7
Saṃhitā
आपो॒ न सिंधु॑म॒भि यत्स॒मक्ष॑र॒न्त्सोमा॑स॒ इंद्रं॑ कु॒ल्या इ॑व ह्र॒दं ।
वर्धं॑ति॒ विप्रा॒ महो॑ अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ॥
आपो न सिन्धुम् अभि यत् समक्षरन् सोमास इन्द्रं कुल्या इव ह्रदम् |
वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर् दिव्येन दानुना ||
ā́po ná síndhumabhí yátsamákṣarantsómāsa índram kulyā́ iva hradám ǀ
várdhanti víprā máho asya sā́dane yávam ná vṛṣṭírdivyéna dā́nunā ǁ
āpo na sindhum abhi yat samakṣaran somāsa indraṃ kulyā iva hradam |
vardhanti viprā maho asya sādane yavaṃ na vṛṣṭir divyena dānunā ||
Padapāṭha
आपः॑ । न । सिन्धु॑म् । अ॒भि । यत् । स॒म्ऽअक्ष॑रन् । सोमा॑सः । इन्द्र॑म् । कु॒ल्याःऽइ॑व । ह्र॒दम् ।
वर्ध॑न्ति । विप्राः॑ । महः॑ । अ॒स्य॒ । सद॑ने । यव॑म् । न । वृ॒ष्टिः । दि॒व्येन॑ । दानु॑ना ॥
आपः । न । सिन्धुम् । अभि । यत् । सम्ऽअक्षरन् । सोमासः । इन्द्रम् । कुल्याःऽइव । ह्रदम् ।
वर्धन्ति । विप्राः । महः । अस्य । सदने । यवम् । न । वृष्टिः । दिव्येन । दानुना ॥
ā́paḥ ǀ ná ǀ síndhum ǀ abhí ǀ yát ǀ sam-ákṣaran ǀ sómāsaḥ ǀ índram ǀ kulyā́ḥ-iva ǀ hradám ǀ
várdhanti ǀ víprāḥ ǀ máhaḥ ǀ asya ǀ sádane ǀ yávam ǀ ná ǀ vṛṣṭíḥ ǀ divyéna ǀ dā́nunā ǁ
āpaḥ ǀ na ǀ sindhum ǀ abhi ǀ yat ǀ sam-akṣaran ǀ somāsaḥ ǀ indram ǀ kulyāḥ-iva ǀ hradam ǀ
vardhanti ǀ viprāḥ ǀ mahaḥ ǀ asya ǀ sadane ǀ yavam ǀ na ǀ vṛṣṭiḥ ǀ divyena ǀ dānunā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.043.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.25.02
- Maṇḍala · Anuvāka · Ṛk
- 10.04.007
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kṛṣṇa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.