Ṛgveda · Maṇḍala 10 · Sūkta 43
Ṛk 10.43.8
Saṃhitā
वृषा॒ न क्रु॒द्धः प॑तय॒द्रज॒स्स्वा यो अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा अ॒पः ।
स सु॑न्व॒ते म॒घवा॑ जी॒रदा॑न॒वेऽविं॑द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥
वृषा न क्रुद्धः पतयद् रजस्स्व् आ यो अर्यपत्नीर् अकृणोद् इमा अपः |
स सुन्वते मघवा जीरदानवे ऽविन्दज् ज्योतिर् मनवे हविष्मते ||
vṛ́ṣā ná kruddháḥ patayadrájassvā́ yó aryápatnīrákṛṇodimā́ apáḥ ǀ
sá sunvaté maghávā jīrádānavé’vindajjyótirmánave havíṣmate ǁ
vṛṣā na kruddhaḥ patayad rajassv ā yo aryapatnīr akṛṇod imā apaḥ |
sa sunvate maghavā jīradānave 'vindaj jyotir manave haviṣmate ||
Padapāṭha
वृषा॑ । न । क्रु॒द्धः । प॒त॒य॒त् । रजः॑ऽसु । आ । यः । अ॒र्यऽप॑त्नीः । अकृ॑णोत् । इ॒माः । अ॒पः ।
सः । सु॒न्व॒ते । म॒घऽवा॑ । जी॒रऽदा॑नवे । अवि॑न्दत् । ज्योतिः॑ । मन॑वे । ह॒विष्म॑ते ॥
वृषा । न । क्रुद्धः । पतयत् । रजःऽसु । आ । यः । अर्यऽपत्नीः । अकृणोत् । इमाः । अपः ।
सः । सुन्वते । मघऽवा । जीरऽदानवे । अविन्दत् । ज्योतिः । मनवे । हविष्मते ॥
vṛ́ṣā ǀ ná ǀ kruddháḥ ǀ patayat ǀ rájaḥ-su ǀ ā́ ǀ yáḥ ǀ aryá-patnīḥ ǀ ákṛṇot ǀ imā́ḥ ǀ apáḥ ǀ
sáḥ ǀ sunvaté ǀ maghá-vā ǀ jīrá-dānave ǀ ávindat ǀ jyótiḥ ǀ mánave ǀ havíṣmate ǁ
vṛṣā ǀ na ǀ kruddhaḥ ǀ patayat ǀ rajaḥ-su ǀ ā ǀ yaḥ ǀ arya-patnīḥ ǀ akṛṇot ǀ imāḥ ǀ apaḥ ǀ
saḥ ǀ sunvate ǀ magha-vā ǀ jīra-dānave ǀ avindat ǀ jyotiḥ ǀ manave ǀ haviṣmate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.043.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.25.03
- Maṇḍala · Anuvāka · Ṛk
- 10.04.008
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kṛṣṇa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.