Sūkta 109
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Juhū Brahmajāyā Or Ūrdhvanābhan Brāhma
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
Metres by ṛk
1st set of styles triṣṭup (2, 4, 5); anuṣṭup (6, 7); nicṛttriṣṭup (1); virāṭtrisṭup (3)
2nd set of styles triṣṭubh (1-5); anuṣṭubh (6, 7)
-
Ṛk 1
ते॑ऽवदन्प्रथ॒मा ब्र॑ह्मकिल्बि॒षेऽकू॑पारः सलि॒लो मा॑त॒रिश्वा॑ ।
वी॒ळुह॑रा॒स्तप॑ उ॒ग्रो म॑यो॒भूरापो॑ दे॒वीः प्र॑थम॒जा ऋ॒तेन॑ ॥ते ऽवदन् प्रथमा ब्रह्मकिल्बिषे ऽकूपारः सलिलो मातरिश्वा |
वीऌउहरास् तप उग्रो मयोभूर् आपो देवीः प्रथमजा ऋतेन ||té’vadanprathamā́ brahmakilbiṣé’kūpāraḥ saliló mātaríśvā ǀ
vīḷúharāstápa ugró mayobhū́rā́po devī́ḥ prathamajā́ ṛténa ǁte 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā |
vīḷuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena ||ते । अ॒व॒द॒न् । प्र॒थ॒माः । ब्र॒ह्म॒ऽकि॒ल्बि॒षे । अकू॑पारः । स॒लि॒लः । मा॒त॒रिश्वा॑ ।
वी॒ळुऽह॑राः । तपः॑ । उ॒ग्रः । म॒यः॒ऽभूः । आपः॑ । दे॒वीः । प्र॒थ॒म॒ऽजाः । ऋ॒तेन॑ ॥ते । अवदन् । प्रथमाः । ब्रह्मऽकिल्बिषे । अकूपारः । सलिलः । मातरिश्वा ।
वीळुऽहराः । तपः । उग्रः । मयःऽभूः । आपः । देवीः । प्रथमऽजाः । ऋतेन ॥té ǀ avadan ǀ prathamā́ḥ ǀ brahma-kilbiṣé ǀ ákūpāraḥ ǀ saliláḥ ǀ mātaríśvā ǀ
vīḷú-harāḥ ǀ tápaḥ ǀ ugráḥ ǀ mayaḥ-bhū́ḥ ǀ ā́paḥ ǀ devī́ḥ ǀ prathama-jā́ḥ ǀ ṛténa ǁte ǀ avadan ǀ prathamāḥ ǀ brahma-kilbiṣe ǀ akūpāraḥ ǀ salilaḥ ǀ mātariśvā ǀ
vīḷu-harāḥ ǀ tapaḥ ǀ ugraḥ ǀ mayaḥ-bhūḥ ǀ āpaḥ ǀ devīḥ ǀ prathama-jāḥ ǀ ṛtena ǁ10.109.1 Aṣṭaka 8.6.7.1Anuvāka 10.9.105
-
Ṛk 2
सोमो॒ राजा॑ प्रथ॒मो ब्र॑ह्मजा॒यां पुनः॒ प्राय॑च्छ॒दहृ॑णीयमानः ।
अ॒न्व॒र्ति॒ता वरु॑णो मि॒त्र आ॑सीद॒ग्निर्होता॑ हस्त॒गृह्या नि॑नाय ॥सोमो राजा प्रथमो ब्रह्मजायाम् पुनः प्रायच्छद् अहृणीयमानः |
अन्वर्तिता वरुणो मित्र आसीद् अग्निर् होता हस्तगृह्या निनाय ||sómo rā́jā prathamó brahmajāyā́m púnaḥ prā́yacchadáhṛṇīyamānaḥ ǀ
anvartitā́ váruṇo mitrá āsīdagnírhótā hastagṛ́hyā́ nināya ǁsomo rājā prathamo brahmajāyām punaḥ prāyacchad ahṛṇīyamānaḥ |
anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya ||सोमः॑ । राजा॑ । प्र॒थ॒मः । ब्र॒ह्म॒ऽजा॒याम् । पुन॒रिति॑ । प्र । अ॒य॒च्छ॒त् । अहृ॑णीयमानः ।
अ॒नु॒ऽअ॒र्ति॒ता । वरु॑णः । मि॒त्रः । आ॒सी॒त् । अ॒ग्निः । होता॑ । ह॒स्त॒ऽगृह्य॑ । आ । नि॒ना॒य॒ ॥सोमः । राजा । प्रथमः । ब्रह्मऽजायाम् । पुनरिति । प्र । अयच्छत् । अहृणीयमानः ।
अनुऽअर्तिता । वरुणः । मित्रः । आसीत् । अग्निः । होता । हस्तऽगृह्य । आ । निनाय ॥sómaḥ ǀ rā́jā ǀ prathamáḥ ǀ brahma-jāyā́m ǀ púnaríti ǀ prá ǀ ayacchat ǀ áhṛṇīyamānaḥ ǀ
anu-artitā́ ǀ váruṇaḥ ǀ mitráḥ ǀ āsīt ǀ agníḥ ǀ hótā ǀ hasta-gṛ́hya ǀ ā́ ǀ nināya ǁsomaḥ ǀ rājā ǀ prathamaḥ ǀ brahma-jāyām ǀ punariti ǀ pra ǀ ayacchat ǀ ahṛṇīyamānaḥ ǀ
anu-artitā ǀ varuṇaḥ ǀ mitraḥ ǀ āsīt ǀ agniḥ ǀ hotā ǀ hasta-gṛhya ǀ ā ǀ nināya ǁ10.109.2 Aṣṭaka 8.6.7.2Anuvāka 10.9.106
-
Ṛk 3
हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येयमिति॒ चेदवो॑चन् ।
न दू॒ताय॑ प्र॒ह्ये॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥हस्तेनैव ग्राह्य आधिर् अस्या ब्रह्मजायेयम् इति चेद् अवोचन् |
न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ||hástenaivá grāhyá ādhírasyā brahmajāyéyámíti cédávocan ǀ
ná dūtā́ya prahyé tastha eṣā́ táthā rāṣṭrám gupitám kṣatríyasya ǁhastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan |
na dūtāya prahye tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya ||हस्ते॑न । ए॒व । ग्रा॒ह्यः॑ । आ॒ऽधिः । अ॒स्याः॒ । ब्र॒ह्म॒ऽजा॒या । इ॒यम् । इति॑ । च॒ । इत् । अवो॑चन् ।
न । दू॒ताय॑ । प्र॒ऽह्ये॑ । त॒स्थे॒ । ए॒षा । तथा॑ । रा॒ष्ट्रम् । गु॒पि॒तम् । क्ष॒त्रिय॑स्य ॥हस्तेन । एव । ग्राह्यः । आऽधिः । अस्याः । ब्रह्मऽजाया । इयम् । इति । च । इत् । अवोचन् ।
न । दूताय । प्रऽह्ये । तस्थे । एषा । तथा । राष्ट्रम् । गुपितम् । क्षत्रियस्य ॥hástena ǀ evá ǀ grāhyáḥ ǀ ā-dhíḥ ǀ asyāḥ ǀ brahma-jāyā́ ǀ iyám ǀ íti ǀ ca ǀ ít ǀ ávocan ǀ
ná ǀ dūtā́ya ǀ pra-hyé ǀ tasthe ǀ eṣā́ ǀ táthā ǀ rāṣṭrám ǀ gupitám ǀ kṣatríyasya ǁhastena ǀ eva ǀ grāhyaḥ ǀ ā-dhiḥ ǀ asyāḥ ǀ brahma-jāyā ǀ iyam ǀ iti ǀ ca ǀ it ǀ avocan ǀ
na ǀ dūtāya ǀ pra-hye ǀ tasthe ǀ eṣā ǀ tathā ǀ rāṣṭram ǀ gupitam ǀ kṣatriyasya ǁ10.109.3 Aṣṭaka 8.6.7.3Anuvāka 10.9.107
-
Ṛk 4
दे॒वा ए॒तस्या॑मवदंत॒ पूर्वे॑ सप्तऋ॒षय॒स्तप॑से॒ ये नि॑षे॒दुः ।
भी॒मा जा॒या ब्रा॑ह्म॒णस्योप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो॑मन् ॥देवा एतस्याम् अवदन्त पूर्वे सप्तऋषयस् तपसे ये निषेदुः |
भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ||devā́ etásyāmavadanta pū́rve saptaṛṣáyastápase yé niṣedúḥ ǀ
bhīmā́ jāyā́ brāhmaṇásyópanītā durdhā́m dadhāti paramé vyóman ǁdevā etasyām avadanta pūrve saptaṛṣayas tapase ye niṣeduḥ |
bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhāti parame vyoman ||दे॒वाः । ए॒तस्या॑म् । अ॒व॒द॒न्त॒ । पूर्वे॑ । स॒प्त॒ऽऋ॒षयः॑ । तप॑से । ये । नि॒ऽसे॒दुः ।
भी॒मा । जा॒या । ब्रा॒ह्म॒णस्य॑ । उप॑ऽनीता । दुः॒ऽधाम् । द॒धा॒ति॒ । प॒र॒मे । विऽओ॑मन् ॥देवाः । एतस्याम् । अवदन्त । पूर्वे । सप्तऽऋषयः । तपसे । ये । निऽसेदुः ।
भीमा । जाया । ब्राह्मणस्य । उपऽनीता । दुःऽधाम् । दधाति । परमे । विऽओमन् ॥devā́ḥ ǀ etásyām ǀ avadanta ǀ pū́rve ǀ sapta-ṛṣáyaḥ ǀ tápase ǀ yé ǀ ni-sedúḥ ǀ
bhīmā́ ǀ jāyā́ ǀ brāhmaṇásya ǀ úpa-nītā ǀ duḥ-dhā́m ǀ dadhāti ǀ paramé ǀ ví-oman ǁdevāḥ ǀ etasyām ǀ avadanta ǀ pūrve ǀ sapta-ṛṣayaḥ ǀ tapase ǀ ye ǀ ni-seduḥ ǀ
bhīmā ǀ jāyā ǀ brāhmaṇasya ǀ upa-nītā ǀ duḥ-dhām ǀ dadhāti ǀ parame ǀ vi-oman ǁ10.109.4 Aṣṭaka 8.6.7.4Anuvāka 10.9.108
-
Ṛk 5
ब्र॒ह्म॒चा॒री च॑रति॒ वेवि॑ष॒द्विषः॒ स दे॒वानां॑ भव॒त्येक॒मंगं॑ ।
तेन॑ जा॒यामन्व॑विंद॒द्बृह॒स्पतिः॒ सोमे॑न नी॒तां जु॒ह्वं१॒॑ न दे॑वाः ॥ब्रह्मचारी चरति वेविषद् विषः स देवानाम् भवत्य् एकम् अङ्गम् |
तेन जायाम् अन्व् अविन्दद् बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ||brahmacārī́ carati véviṣadvíṣaḥ sá devā́nām bhavatyékamáṅgam ǀ
téna jāyā́mánvavindadbṛ́haspátiḥ sómena nītā́m juhvám ná devāḥ ǁbrahmacārī carati veviṣad viṣaḥ sa devānām bhavaty ekam aṅgam |
tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ ||ब्र॒ह्म॒ऽचा॒री । च॒र॒ति॒ । वेवि॑षत् । विषः॑ । सः । दे॒वाना॑म् । भ॒व॒ति॒ । एक॑म् । अङ्ग॑म् ।
तेन॑ । जा॒याम् । अनु॑ । अ॒वि॒न्द॒त् । बृह॒स्पतिः॑ । सोमे॑न । नी॒ताम् । जु॒ह्व॑म् । न । दे॒वाः॒ ॥ब्रह्मऽचारी । चरति । वेविषत् । विषः । सः । देवानाम् । भवति । एकम् । अङ्गम् ।
तेन । जायाम् । अनु । अविन्दत् । बृहस्पतिः । सोमेन । नीताम् । जुह्वम् । न । देवाः ॥brahma-cārī́ ǀ carati ǀ véviṣat ǀ víṣaḥ ǀ sáḥ ǀ devā́nām ǀ bhavati ǀ ékam ǀ áṅgam ǀ
téna ǀ jāyā́m ǀ ánu ǀ avindat ǀ bṛ́haspátiḥ ǀ sómena ǀ nītā́m ǀ juhvám ǀ ná ǀ devāḥ ǁbrahma-cārī ǀ carati ǀ veviṣat ǀ viṣaḥ ǀ saḥ ǀ devānām ǀ bhavati ǀ ekam ǀ aṅgam ǀ
tena ǀ jāyām ǀ anu ǀ avindat ǀ bṛhaspatiḥ ǀ somena ǀ nītām ǀ juhvam ǀ na ǀ devāḥ ǁ10.109.5 Aṣṭaka 8.6.7.5Anuvāka 10.9.109
-
Ṛk 6
पुन॒र्वै दे॒वा अ॑ददुः॒ पुन॑र्मनु॒ष्या॑ उ॒त ।
राजा॑नः स॒त्यं कृ॑ण्वा॒ना ब्र॑ह्मजा॒यां पुन॑र्ददुः ॥पुनर् वै देवा अददुः पुनर् मनुष्या उत |
राजानः सत्यं कृण्वाना ब्रह्मजायाम् पुनर् ददुः ||púnarvái devā́ adaduḥ púnarmanuṣyā́ utá ǀ
rā́jānaḥ satyám kṛṇvānā́ brahmajāyā́m púnardaduḥ ǁpunar vai devā adaduḥ punar manuṣyā uta |
rājānaḥ satyaṃ kṛṇvānā brahmajāyām punar daduḥ ||पुनः॑ । वै । दे॒वाः । अ॒द॒दुः॒ । पुनः॑ । म॒नु॒ष्याः॑ । उ॒त ।
राजा॑नः । स॒त्यम् । कृ॒ण्वा॒नाः । ब्र॒ह्म॒ऽजा॒याम् । पुनः॑ । द॒दुः॒ ॥पुनः । वै । देवाः । अददुः । पुनः । मनुष्याः । उत ।
राजानः । सत्यम् । कृण्वानाः । ब्रह्मऽजायाम् । पुनः । ददुः ॥púnaḥ ǀ vái ǀ devā́ḥ ǀ adaduḥ ǀ púnaḥ ǀ manuṣyā́ḥ ǀ utá ǀ
rā́jānaḥ ǀ satyám ǀ kṛṇvānā́ḥ ǀ brahma-jāyā́m ǀ púnaḥ ǀ daduḥ ǁpunaḥ ǀ vai ǀ devāḥ ǀ adaduḥ ǀ punaḥ ǀ manuṣyāḥ ǀ uta ǀ
rājānaḥ ǀ satyam ǀ kṛṇvānāḥ ǀ brahma-jāyām ǀ punaḥ ǀ daduḥ ǁ10.109.6 Aṣṭaka 8.6.7.6Anuvāka 10.9.110
-
Ṛk 7
पु॒न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वी दे॒वैर्नि॑किल्बि॒षं ।
ऊर्जं॑ पृथि॒व्या भ॒क्त्वायो॑रुगा॒यमुपा॑सते ॥पुनर्दाय ब्रह्मजायां कृत्वी देवैर् निकिल्बिषम् |
ऊर्जम् पृथिव्या भक्त्वायोरुगायम् उपासते ||punardā́ya brahmajāyā́m kṛtvī́ deváirnikilbiṣám ǀ
ū́rjam pṛthivyā́ bhaktvā́yorugāyámúpāsate ǁpunardāya brahmajāyāṃ kṛtvī devair nikilbiṣam |
ūrjam pṛthivyā bhaktvāyorugāyam upāsate ||पु॒नः॒ऽदाय॑ । ब्र॒ह्म॒ऽजा॒याम् । कृ॒त्वी । दे॒वैः । नि॒ऽकि॒ल्बि॒षम् ।
ऊर्ज॑म् । पृ॒थि॒व्याः । भ॒क्त्वाय॑ । उ॒रु॒ऽगा॒यम् । उप॑ । आ॒स॒ते॒ ॥पुनःऽदाय । ब्रह्मऽजायाम् । कृत्वी । देवैः । निऽकिल्बिषम् ।
ऊर्जम् । पृथिव्याः । भक्त्वाय । उरुऽगायम् । उप । आसते ॥punaḥ-dā́ya ǀ brahma-jāyā́m ǀ kṛtvī́ ǀ deváiḥ ǀ ni-kilbiṣám ǀ
ū́rjam ǀ pṛthivyā́ḥ ǀ bhaktvā́ya ǀ uru-gāyám ǀ úpa ǀ āsate ǁpunaḥ-dāya ǀ brahma-jāyām ǀ kṛtvī ǀ devaiḥ ǀ ni-kilbiṣam ǀ
ūrjam ǀ pṛthivyāḥ ǀ bhaktvāya ǀ uru-gāyam ǀ upa ǀ āsate ǁ10.109.7 Aṣṭaka 8.6.7.7Anuvāka 10.9.111
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.