Sūkta 47
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Saptagu Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 4, 7); nicṛttriṣṭup (5, 6, 8); svarāḍārcītriṣṭup (2); bhuriktriṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
ज॒गृ॒भ्मा ते॒ दक्षि॑णमिंद्र॒ हस्तं॑ वसू॒यवो॑ वसुपते॒ वसू॑नां ।
वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥जगृभ्मा ते दक्षिणम् इन्द्र हस्तं वसूयवो वसुपते वसूनाम् |
विद्मा हि त्वा गोपतिं शूर गोनाम् अस्मभ्यं चित्रं वृषणं रयिं दाः ||jagṛbhmā́ te dákṣiṇamindra hástam vasūyávo vasupate vásūnām ǀ
vidmā́ hí tvā gópatim śūra gónāmasmábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁjagṛbhmā te dakṣiṇam indra hastaṃ vasūyavo vasupate vasūnām |
vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||ज॒गृ॒भ्म । ते॒ । दक्षि॑णम् । इ॒न्द्र॒ । हस्त॑म् । व॒सु॒ऽयवः॑ । व॒सु॒ऽप॒ते॒ । वसू॑नाम् ।
वि॒द्म । हि । त्वा॒ । गोऽप॑तिम् । शू॒र॒ । गोना॑म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥जगृभ्म । ते । दक्षिणम् । इन्द्र । हस्तम् । वसुऽयवः । वसुऽपते । वसूनाम् ।
विद्म । हि । त्वा । गोऽपतिम् । शूर । गोनाम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥jagṛbhmá ǀ te ǀ dákṣiṇam ǀ indra ǀ hástam ǀ vasu-yávaḥ ǀ vasu-pate ǀ vásūnām ǀ
vidmá ǀ hí ǀ tvā ǀ gó-patim ǀ śūra ǀ gónām ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁjagṛbhma ǀ te ǀ dakṣiṇam ǀ indra ǀ hastam ǀ vasu-yavaḥ ǀ vasu-pate ǀ vasūnām ǀ
vidma ǀ hi ǀ tvā ǀ go-patim ǀ śūra ǀ gonām ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ10.47.1 Aṣṭaka 8.1.3.1Anuvāka 10.4.45
-
Ṛk 2
स्वा॒यु॒धं स्वव॑सं सुनी॒थं चतुः॑समुद्रं ध॒रुणं॑ रयी॒णां ।
च॒र्कृत्यं॒ शंस्यं॒ भूरि॑वारम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम् |
चर्कृत्यं शंस्यम् भूरिवारम् अस्मभ्यं चित्रं वृषणं रयिं दाः ||svāyudhám svávasam sunīthám cátuḥsamudram dharúṇam rayīṇā́m ǀ
carkṛ́tyam śáṃsyam bhū́rivāramasmábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁsvāyudhaṃ svavasaṃ sunīthaṃ catuḥsamudraṃ dharuṇaṃ rayīṇām |
carkṛtyaṃ śaṃsyam bhūrivāram asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||सु॒ऽआ॒यु॒धम् । सु॒ऽअव॑सम् । सु॒ऽनी॒थम् । चतुः॑ऽसमुद्रम् । ध॒रुण॑म् । र॒यी॒णाम् ।
च॒र्कृत्य॑म् । शंस्य॑म् । भूरि॑ऽवारम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥सुऽआयुधम् । सुऽअवसम् । सुऽनीथम् । चतुःऽसमुद्रम् । धरुणम् । रयीणाम् ।
चर्कृत्यम् । शंस्यम् । भूरिऽवारम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥su-āyudhám ǀ su-ávasam ǀ su-nīthám ǀ cátuḥ-samudram ǀ dharúṇam ǀ rayīṇā́m ǀ
carkṛ́tyam ǀ śáṃsyam ǀ bhū́ri-vāram ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁsu-āyudham ǀ su-avasam ǀ su-nītham ǀ catuḥ-samudram ǀ dharuṇam ǀ rayīṇām ǀ
carkṛtyam ǀ śaṃsyam ǀ bhūri-vāram ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ10.47.2 Aṣṭaka 8.1.3.2Anuvāka 10.4.46
-
Ṛk 3
सु॒ब्रह्मा॑णं दे॒ववं॑तं बृ॒हंत॑मु॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिंद्र ।
श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥सुब्रह्माणं देववन्तम् बृहन्तम् उरुं गभीरम् पृथुबुध्नम् इन्द्र |
श्रुतऋषिम् उग्रम् अभिमातिषाहम् अस्मभ्यं चित्रं वृषणं रयिं दाः ||subráhmāṇam devávantam bṛhántamurúm gabhīrám pṛthúbudhnamindra ǀ
śrutáṛṣimugrámabhimātiṣā́hamasmábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁsubrahmāṇaṃ devavantam bṛhantam uruṃ gabhīram pṛthubudhnam indra |
śrutaṛṣim ugram abhimātiṣāham asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||सु॒ऽब्रह्मा॑णम् । दे॒वऽव॑न्तम् । बृ॒हन्त॑म् । उ॒रुम् । ग॒भी॒रम् । पृ॒थुऽबु॑ध्नम् । इ॒न्द्र॒ ।
श्रु॒तऽऋ॑षिम् । उ॒ग्रम् । अ॒भि॒मा॒ति॒ऽसह॑म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥सुऽब्रह्माणम् । देवऽवन्तम् । बृहन्तम् । उरुम् । गभीरम् । पृथुऽबुध्नम् । इन्द्र ।
श्रुतऽऋषिम् । उग्रम् । अभिमातिऽसहम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥su-bráhmāṇam ǀ devá-vantam ǀ bṛhántam ǀ urúm ǀ gabhīrám ǀ pṛthú-budhnam ǀ indra ǀ
śrutá-ṛṣim ǀ ugrám ǀ abhimāti-sáham ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁsu-brahmāṇam ǀ deva-vantam ǀ bṛhantam ǀ urum ǀ gabhīram ǀ pṛthu-budhnam ǀ indra ǀ
śruta-ṛṣim ǀ ugram ǀ abhimāti-saham ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ10.47.3 Aṣṭaka 8.1.3.3Anuvāka 10.4.47
-
Ṛk 4
स॒नद्वा॑जं॒ विप्र॑वीरं॒ तरु॑त्रं धन॒स्पृतं॑ शूशु॒वांसं॑ सु॒दक्षं॑ ।
द॒स्यु॒हनं॑ पू॒र्भिद॑मिंद्र स॒त्यम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं सुदक्षम् |
दस्युहनम् पूर्भिदम् इन्द्र सत्यम् अस्मभ्यं चित्रं वृषणं रयिं दाः ||sanádvājam vípravīram tárutram dhanaspṛ́tam śūśuvā́ṃsam sudákṣam ǀ
dasyuhánam pūrbhídamindra satyámasmábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁsanadvājaṃ vipravīraṃ tarutraṃ dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam |
dasyuhanam pūrbhidam indra satyam asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||स॒नत्ऽवा॑जम् । विप्र॑ऽवीरम् । तरु॑त्रम् । ध॒न॒ऽस्पृत॑म् । शू॒शु॒ऽवांस॑म् । सु॒ऽदक्ष॑म् ।
द॒स्यु॒हन॑म् । पूः॒ऽभिद॑म् । इ॒न्द्र॒ । स॒त्यम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥सनत्ऽवाजम् । विप्रऽवीरम् । तरुत्रम् । धनऽस्पृतम् । शूशुऽवांसम् । सुऽदक्षम् ।
दस्युहनम् । पूःऽभिदम् । इन्द्र । सत्यम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥sanát-vājam ǀ vípra-vīram ǀ tárutram ǀ dhana-spṛ́tam ǀ śūśu-vā́ṃsam ǀ su-dákṣam ǀ
dasyuhánam ǀ pūḥ-bhídam ǀ indra ǀ satyám ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁsanat-vājam ǀ vipra-vīram ǀ tarutram ǀ dhana-spṛtam ǀ śūśu-vāṃsam ǀ su-dakṣam ǀ
dasyuhanam ǀ pūḥ-bhidam ǀ indra ǀ satyam ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ10.47.4 Aṣṭaka 8.1.3.4Anuvāka 10.4.48
-
Ṛk 5
अश्वा॑वंतं र॒थिनं॑ वी॒रवं॑तं सह॒स्रिणं॑ श॒तिनं॒ वाज॑मिंद्र ।
भ॒द्रव्रा॑तं॒ विप्र॑वीरं स्व॒र्षाम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजम् इन्द्र |
भद्रव्रातं विप्रवीरं स्वर्षाम् अस्मभ्यं चित्रं वृषणं रयिं दाः ||áśvāvantam rathínam vīrávantam sahasríṇam śatínam vā́jamindra ǀ
bhadrávrātam vípravīram svarṣā́masmábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁaśvāvantaṃ rathinaṃ vīravantaṃ sahasriṇaṃ śatinaṃ vājam indra |
bhadravrātaṃ vipravīraṃ svarṣām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||अश्व॑ऽवन्तम् । र॒थिन॑म् । वी॒रऽव॑न्तम् । स॒ह॒स्रिण॑म् । श॒तिन॑म् । वाज॑म् । इ॒न्द्र॒ ।
भ॒द्रऽव्रा॑तम् । विप्र॑ऽवीरम् । स्वः॒ऽसाम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥अश्वऽवन्तम् । रथिनम् । वीरऽवन्तम् । सहस्रिणम् । शतिनम् । वाजम् । इन्द्र ।
भद्रऽव्रातम् । विप्रऽवीरम् । स्वःऽसाम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥áśva-vantam ǀ rathínam ǀ vīrá-vantam ǀ sahasríṇam ǀ śatínam ǀ vā́jam ǀ indra ǀ
bhadrá-vrātam ǀ vípra-vīram ǀ svaḥ-sā́m ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁaśva-vantam ǀ rathinam ǀ vīra-vantam ǀ sahasriṇam ǀ śatinam ǀ vājam ǀ indra ǀ
bhadra-vrātam ǀ vipra-vīram ǀ svaḥ-sām ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ10.47.5 Aṣṭaka 8.1.3.5Anuvāka 10.4.49
-
Ṛk 6
प्र स॒प्तगु॑मृ॒तधी॑तिं सुमे॒धां बृह॒स्पतिं॑ म॒तिरच्छा॑ जिगाति ।
य आं॑गिर॒सो नम॑सोप॒सद्यो॒ऽस्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥प्र सप्तगुम् ऋतधीतिं सुमेधाम् बृहस्पतिम् मतिर् अच्छा जिगाति |
य आङ्गिरसो नमसोपसद्यो ऽस्मभ्यं चित्रं वृषणं रयिं दाः ||prá saptágumṛtádhītim sumedhā́m bṛ́haspátim matírácchā jigāti ǀ
yá āṅgirasó námasopasádyo’smábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁpra saptagum ṛtadhītiṃ sumedhām bṛhaspatim matir acchā jigāti |
ya āṅgiraso namasopasadyo 'smabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||प्र । स॒प्तऽगु॑म् । ऋ॒तऽधी॑तिम् । सु॒ऽमे॒धाम् । बृह॒स्पति॑म् । म॒तिः । अच्छ॑ । जि॒गा॒ति॒ ।
यः । आ॒ङ्गि॒र॒सः । नम॑सा । उ॒प॒ऽसद्यः॑ । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥प्र । सप्तऽगुम् । ऋतऽधीतिम् । सुऽमेधाम् । बृहस्पतिम् । मतिः । अच्छ । जिगाति ।
यः । आङ्गिरसः । नमसा । उपऽसद्यः । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥prá ǀ saptá-gum ǀ ṛtá-dhītim ǀ su-medhā́m ǀ bṛ́haspátim ǀ matíḥ ǀ áccha ǀ jigāti ǀ
yáḥ ǀ āṅgirasáḥ ǀ námasā ǀ upa-sádyaḥ ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁpra ǀ sapta-gum ǀ ṛta-dhītim ǀ su-medhām ǀ bṛhaspatim ǀ matiḥ ǀ accha ǀ jigāti ǀ
yaḥ ǀ āṅgirasaḥ ǀ namasā ǀ upa-sadyaḥ ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ10.47.6 Aṣṭaka 8.1.4.1Anuvāka 10.4.50
-
Ṛk 7
वनी॑वानो॒ मम॑ दू॒तास॒ इंद्रं॒ स्तोमा॑श्चरंति सुम॒तीरि॑या॒नाः ।
हृ॒दि॒स्पृशो॒ मन॑सा व॒च्यमा॑ना अ॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥वनीवानो मम दूतास इन्द्रं स्तोमाश् चरन्ति सुमतीर् इयानाः |
हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः ||vánīvāno máma dūtā́sa índram stómāścaranti sumatī́riyānā́ḥ ǀ
hṛdispṛ́śo mánasā vacyámānā asmábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁvanīvāno mama dūtāsa indraṃ stomāś caranti sumatīr iyānāḥ |
hṛdispṛśo manasā vacyamānā asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||वनी॑वानः । मम॑ । दू॒तासः॑ । इन्द्र॑म् । सोमाः॑ । च॒र॒न्ति॒ । सु॒ऽम॒तीः । इ॒या॒नाः ।
हृ॒दि॒ऽस्पृशः॑ । मन॑सा । व॒च्यमा॑नाः । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥वनीवानः । मम । दूतासः । इन्द्रम् । सोमाः । चरन्ति । सुऽमतीः । इयानाः ।
हृदिऽस्पृशः । मनसा । वच्यमानाः । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥vánīvānaḥ ǀ máma ǀ dūtā́saḥ ǀ índram ǀ sómāḥ ǀ caranti ǀ su-matī́ḥ ǀ iyānā́ḥ ǀ
hṛdi-spṛ́śaḥ ǀ mánasā ǀ vacyámānāḥ ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁvanīvānaḥ ǀ mama ǀ dūtāsaḥ ǀ indram ǀ somāḥ ǀ caranti ǀ su-matīḥ ǀ iyānāḥ ǀ
hṛdi-spṛśaḥ ǀ manasā ǀ vacyamānāḥ ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ10.47.7 Aṣṭaka 8.1.4.2Anuvāka 10.4.51
-
Ṛk 8
यत्त्वा॒ यामि॑ द॒द्धि तन्न॑ इंद्र बृ॒हंतं॒ क्षय॒मस॑मं॒ जना॑नां ।
अ॒भि तद्द्यावा॑पृथि॒वी गृ॑णीताम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥यत् त्वा यामि दद्धि तन् न इन्द्र बृहन्तं क्षयम् असमं जनानाम् |
अभि तद् द्यावापृथिवी गृणीताम् अस्मभ्यं चित्रं वृषणं रयिं दाः ||yáttvā yā́mi daddhí tánna indra bṛhántam kṣáyamásamam jánānām ǀ
abhí táddyā́vāpṛthivī́ gṛṇītāmasmábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁyat tvā yāmi daddhi tan na indra bṛhantaṃ kṣayam asamaṃ janānām |
abhi tad dyāvāpṛthivī gṛṇītām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||यत् । त्वा॒ । यामि॑ । द॒द्धि । तत् । नः॒ । इ॒न्द्र॒ । बृ॒हन्त॑म् । क्षय॑म् । अस॑मम् । जना॑नाम् ।
अ॒भि । तत् । द्यावा॑पृथि॒वी इति॑ । गृ॒णी॒ता॒म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥यत् । त्वा । यामि । दद्धि । तत् । नः । इन्द्र । बृहन्तम् । क्षयम् । असमम् । जनानाम् ।
अभि । तत् । द्यावापृथिवी इति । गृणीताम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥yát ǀ tvā ǀ yā́mi ǀ daddhí ǀ tát ǀ naḥ ǀ indra ǀ bṛhántam ǀ kṣáyam ǀ ásamam ǀ jánānām ǀ
abhí ǀ tát ǀ dyā́vāpṛthivī́ íti ǀ gṛṇītām ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁyat ǀ tvā ǀ yāmi ǀ daddhi ǀ tat ǀ naḥ ǀ indra ǀ bṛhantam ǀ kṣayam ǀ asamam ǀ janānām ǀ
abhi ǀ tat ǀ dyāvāpṛthivī iti ǀ gṛṇītām ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ10.47.8 Aṣṭaka 8.1.4.3Anuvāka 10.4.52
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.