Ṛgveda · Maṇḍala 10 · Sūkta 47
Ṛk 10.47.3
Saṃhitā
सु॒ब्रह्मा॑णं दे॒ववं॑तं बृ॒हंत॑मु॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिंद्र ।
श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
सुब्रह्माणं देववन्तम् बृहन्तम् उरुं गभीरम् पृथुबुध्नम् इन्द्र |
श्रुतऋषिम् उग्रम् अभिमातिषाहम् अस्मभ्यं चित्रं वृषणं रयिं दाः ||
subráhmāṇam devávantam bṛhántamurúm gabhīrám pṛthúbudhnamindra ǀ
śrutáṛṣimugrámabhimātiṣā́hamasmábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁ
subrahmāṇaṃ devavantam bṛhantam uruṃ gabhīram pṛthubudhnam indra |
śrutaṛṣim ugram abhimātiṣāham asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||
Padapāṭha
सु॒ऽब्रह्मा॑णम् । दे॒वऽव॑न्तम् । बृ॒हन्त॑म् । उ॒रुम् । ग॒भी॒रम् । पृ॒थुऽबु॑ध्नम् । इ॒न्द्र॒ ।
श्रु॒तऽऋ॑षिम् । उ॒ग्रम् । अ॒भि॒मा॒ति॒ऽसह॑म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥
सुऽब्रह्माणम् । देवऽवन्तम् । बृहन्तम् । उरुम् । गभीरम् । पृथुऽबुध्नम् । इन्द्र ।
श्रुतऽऋषिम् । उग्रम् । अभिमातिऽसहम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥
su-bráhmāṇam ǀ devá-vantam ǀ bṛhántam ǀ urúm ǀ gabhīrám ǀ pṛthú-budhnam ǀ indra ǀ
śrutá-ṛṣim ǀ ugrám ǀ abhimāti-sáham ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁ
su-brahmāṇam ǀ deva-vantam ǀ bṛhantam ǀ urum ǀ gabhīram ǀ pṛthu-budhnam ǀ indra ǀ
śruta-ṛṣim ǀ ugram ǀ abhimāti-saham ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.047.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.03.03
- Maṇḍala · Anuvāka · Ṛk
- 10.04.047
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Saptagu Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.