Ṛgveda · Maṇḍala 10 · Sūkta 47

Ṛk 10.47.8

Indra · Saptagu Āṅgirasa

The whole sūkta Link

Saṃhitā

यत्त्वा॒ यामि॑ द॒द्धि तन्न॑ इंद्र बृ॒हंतं॒ क्षय॒मस॑मं॒ जना॑नां ।
अ॒भि तद्द्यावा॑पृथि॒वी गृ॑णीताम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥

यत् त्वा यामि दद्धि तन् न इन्द्र बृहन्तं क्षयम् असमं जनानाम् |
अभि तद् द्यावापृथिवी गृणीताम् अस्मभ्यं चित्रं वृषणं रयिं दाः ||

yáttvā yā́mi daddhí tánna indra bṛhántam kṣáyamásamam jánānām ǀ
abhí táddyā́vāpṛthivī́ gṛṇītāmasmábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁ

yat tvā yāmi daddhi tan na indra bṛhantaṃ kṣayam asamaṃ janānām |
abhi tad dyāvāpṛthivī gṛṇītām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ ||

Padapāṭha

यत् । त्वा॒ । यामि॑ । द॒द्धि । तत् । नः॒ । इ॒न्द्र॒ । बृ॒हन्त॑म् । क्षय॑म् । अस॑मम् । जना॑नाम् ।
अ॒भि । तत् । द्यावा॑पृथि॒वी इति॑ । गृ॒णी॒ता॒म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥

यत् । त्वा । यामि । दद्धि । तत् । नः । इन्द्र । बृहन्तम् । क्षयम् । असमम् । जनानाम् ।
अभि । तत् । द्यावापृथिवी इति । गृणीताम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥

yát ǀ tvā ǀ yā́mi ǀ daddhí ǀ tát ǀ naḥ ǀ indra ǀ bṛhántam ǀ kṣáyam ǀ ásamam ǀ jánānām ǀ
abhí ǀ tát ǀ dyā́vāpṛthivī́ íti ǀ gṛṇītām ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁ

yat ǀ tvā ǀ yāmi ǀ daddhi ǀ tat ǀ naḥ ǀ indra ǀ bṛhantam ǀ kṣayam ǀ asamam ǀ janānām ǀ
abhi ǀ tat ǀ dyāvāpṛthivī iti ǀ gṛṇītām ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.047.08
Aṣṭaka · Adhyāya · Varga · Ṛk
8.1.04.03
Maṇḍala · Anuvāka · Ṛk
10.04.052
Devatā देवता
Indra
Ṛṣi ऋषि
Saptagu Āṅgirasa
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.47.8

Interpretations

Sāyaṇa

हे इन्द्र त्वा त्वां यद्वक्षमाणं यामि याचामि। वर्णलोपश्छान्दसः। याच्यमानं तद्दद्धि। देहि। ददातेर्लोटि व्यत्ययेन परस्मैपदं। बहुलं छन्दसीति शपो लुक्। तदिति सामान्येन निर्दिष्टं विशेषयति। बृहन्तं महान्तं क्षयं निवासं जनानामन्येषामसममसाधारणं देहि। त्वया दातव्यं द्यावापृथिवी अभि गृणीतां। अस्मभ्यमित्यादि गतं॥८॥