Ṛgveda · Maṇḍala 10 · Sūkta 48
Ṛk 10.48.1
Saṃhitā
अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना॑नि॒ सं ज॑यामि॒ शश्व॑तः ।
मां ह॑वंते पि॒तरं॒ न जं॒तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नं ॥
अहम् भुवं वसुनः पूर्व्यस् पतिर् अहं धनानि सं जयामि शश्वतः |
मां हवन्ते पितरं न जन्तवो ऽहं दाशुषे वि भजामि भोजनम् ||
ahám bhuvam vásunaḥ pūrvyáspátirahám dhánāni sám jayāmi śáśvataḥ ǀ
mā́m havante pitáram ná jantávo’hám dāśúṣe ví bhajāmi bhójanam ǁ
aham bhuvaṃ vasunaḥ pūrvyas patir ahaṃ dhanāni saṃ jayāmi śaśvataḥ |
māṃ havante pitaraṃ na jantavo 'haṃ dāśuṣe vi bhajāmi bhojanam ||
Padapāṭha
अ॒हम् । भु॒व॒म् । वसु॑नः । पू॒र्व्यः । पतिः॑ । अ॒हम् । धना॑नि । सम् । ज॒या॒मि॒ । शश्व॑तः ।
माम् । ह॒व॒न्ते॒ । पि॒तर॑म् । न । ज॒न्तवः॑ । अ॒हम् । दा॒शुषे॑ । वि । भ॒जा॒मि॒ । भोज॑नम् ॥
अहम् । भुवम् । वसुनः । पूर्व्यः । पतिः । अहम् । धनानि । सम् । जयामि । शश्वतः ।
माम् । हवन्ते । पितरम् । न । जन्तवः । अहम् । दाशुषे । वि । भजामि । भोजनम् ॥
ahám ǀ bhuvam ǀ vásunaḥ ǀ pūrvyáḥ ǀ pátiḥ ǀ ahám ǀ dhánāni ǀ sám ǀ jayāmi ǀ śáśvataḥ ǀ
mā́m ǀ havante ǀ pitáram ǀ ná ǀ jantávaḥ ǀ ahám ǀ dāśúṣe ǀ ví ǀ bhajāmi ǀ bhójanam ǁ
aham ǀ bhuvam ǀ vasunaḥ ǀ pūrvyaḥ ǀ patiḥ ǀ aham ǀ dhanāni ǀ sam ǀ jayāmi ǀ śaśvataḥ ǀ
mām ǀ havante ǀ pitaram ǀ na ǀ jantavaḥ ǀ aham ǀ dāśuṣe ǀ vi ǀ bhajāmi ǀ bhojanam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.048.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.05.01
- Maṇḍala · Anuvāka · Ṛk
- 10.04.053
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Indra Vaikuṇṭha
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.