Ṛgveda · Maṇḍala 10 · Sūkta 48
Ṛk 10.48.3
Saṃhitā
मह्यं॒ त्वष्टा॒ वज्र॑मतक्षदाय॒सं मयि॑ दे॒वासो॑ऽवृज॒न्नपि॒ क्रतुं॑ ।
ममानी॑कं॒ सूर्य॑स्येव दु॒ष्टरं॒ मामार्यं॑ति कृ॒तेन॒ कर्त्वे॑न च ॥
मह्यं त्वष्टा वज्रम् अतक्षद् आयसम् मयि देवासो ऽवृजन्न् अपि क्रतुम् |
ममानीकं सूर्यस्येव दुष्टरम् माम् आर्यन्ति कृतेन कर्त्वेन च ||
máhyam tváṣṭā vájramatakṣadāyasám máyi devā́so’vṛjannápi krátum ǀ
mámā́nīkam sū́ryasyeva duṣṭáram mā́mā́ryanti kṛténa kártvena ca ǁ
mahyaṃ tvaṣṭā vajram atakṣad āyasam mayi devāso 'vṛjann api kratum |
mamānīkaṃ sūryasyeva duṣṭaram mām āryanti kṛtena kartvena ca ||
Padapāṭha
मह्य॑म् । त्वष्टा॑ । वज्र॑म् । अ॒त॒क्ष॒त् । आ॒य॒सम् । मयि॑ । दे॒वासः॑ । अ॒वृ॒ज॒न् । अपि॑ । क्रतु॑म् ।
मम॑ । अनी॑कम् । सूर्य॑स्यऽइव । दु॒स्तर॑म् । माम् । आर्य॑न्ति । कृ॒तेन॑ । कर्त्वे॑न । च॒ ॥
मह्यम् । त्वष्टा । वज्रम् । अतक्षत् । आयसम् । मयि । देवासः । अवृजन् । अपि । क्रतुम् ।
मम । अनीकम् । सूर्यस्यऽइव । दुस्तरम् । माम् । आर्यन्ति । कृतेन । कर्त्वेन । च ॥
máhyam ǀ tváṣṭā ǀ vájram ǀ atakṣat ǀ āyasám ǀ máyi ǀ devā́saḥ ǀ avṛjan ǀ ápi ǀ krátum ǀ
máma ǀ ánīkam ǀ sū́ryasya-iva ǀ dustáram ǀ mā́m ǀ ā́ryanti ǀ kṛténa ǀ kártvena ǀ ca ǁ
mahyam ǀ tvaṣṭā ǀ vajram ǀ atakṣat ǀ āyasam ǀ mayi ǀ devāsaḥ ǀ avṛjan ǀ api ǀ kratum ǀ
mama ǀ anīkam ǀ sūryasya-iva ǀ dustaram ǀ mām ǀ āryanti ǀ kṛtena ǀ kartvena ǀ ca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.048.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.05.03
- Maṇḍala · Anuvāka · Ṛk
- 10.04.055
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Indra Vaikuṇṭha
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.