Ṛgveda · Maṇḍala 10 · Sūkta 48
Ṛk 10.48.5
Saṃhitā
अ॒हमिंद्रो॒ न परा॑ जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑ तस्थे॒ कदा॑ च॒न ।
सोम॒मिन्मा॑ सु॒न्वंतो॑ याचता॒ वसु॒ न मे॑ पूरवः स॒ख्ये रि॑षाथन ॥
अहम् इन्द्रो न परा जिग्य इद् धनं न मृत्यवे ऽव तस्थे कदा चन |
सोमम् इन् मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन ||
ahámíndro ná párā jigya íddhánam ná mṛtyávé’va tasthe kádā caná ǀ
sómamínmā sunvánto yācatā vásu ná me pūravaḥ sakhyé riṣāthana ǁ
aham indro na parā jigya id dhanaṃ na mṛtyave 'va tasthe kadā cana |
somam in mā sunvanto yācatā vasu na me pūravaḥ sakhye riṣāthana ||
Padapāṭha
अ॒हम् । इन्द्रः॑ । न । परा॑ । जि॒ग्ये॒ । इत् । धन॑म् । न । मृ॒त्यवे॑ । अव॑ । त॒स्थे॒ । कदा॑ । च॒न ।
सोम॑म् । इत् । मा॒ । सु॒न्वन्तः॑ । या॒च॒त॒ । वसु॑ । न । मे॒ । पू॒र॒वः॒ । स॒ख्ये । रि॒षा॒थ॒न॒ ॥
अहम् । इन्द्रः । न । परा । जिग्ये । इत् । धनम् । न । मृत्यवे । अव । तस्थे । कदा । चन ।
सोमम् । इत् । मा । सुन्वन्तः । याचत । वसु । न । मे । पूरवः । सख्ये । रिषाथन ॥
ahám ǀ índraḥ ǀ ná ǀ párā ǀ jigye ǀ ít ǀ dhánam ǀ ná ǀ mṛtyáve ǀ áva ǀ tasthe ǀ kádā ǀ caná ǀ
sómam ǀ ít ǀ mā ǀ sunvántaḥ ǀ yācata ǀ vásu ǀ ná ǀ me ǀ pūravaḥ ǀ sakhyé ǀ riṣāthana ǁ
aham ǀ indraḥ ǀ na ǀ parā ǀ jigye ǀ it ǀ dhanam ǀ na ǀ mṛtyave ǀ ava ǀ tasthe ǀ kadā ǀ cana ǀ
somam ǀ it ǀ mā ǀ sunvantaḥ ǀ yācata ǀ vasu ǀ na ǀ me ǀ pūravaḥ ǀ sakhye ǀ riṣāthana ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.048.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.05.05
- Maṇḍala · Anuvāka · Ṛk
- 10.04.057
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Indra Vaikuṇṭha
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.