Sūkta 48
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Indra Vaikuṇṭha
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles pādanicṛjjgatī (1, 3); jagatī (2, 8); svarāḍārcījagatī (6, 9); triṣṭup (10, 11); nicṛjjagatī (4); virāḍjagatī (5); virāṭtrisṭup (7)
2nd set of styles jagatī (1-6, 8, 9); triṣṭubh (7, 10, 11)
-
Ṛk 1
अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना॑नि॒ सं ज॑यामि॒ शश्व॑तः ।
मां ह॑वंते पि॒तरं॒ न जं॒तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नं ॥अहम् भुवं वसुनः पूर्व्यस् पतिर् अहं धनानि सं जयामि शश्वतः |
मां हवन्ते पितरं न जन्तवो ऽहं दाशुषे वि भजामि भोजनम् ||ahám bhuvam vásunaḥ pūrvyáspátirahám dhánāni sám jayāmi śáśvataḥ ǀ
mā́m havante pitáram ná jantávo’hám dāśúṣe ví bhajāmi bhójanam ǁaham bhuvaṃ vasunaḥ pūrvyas patir ahaṃ dhanāni saṃ jayāmi śaśvataḥ |
māṃ havante pitaraṃ na jantavo 'haṃ dāśuṣe vi bhajāmi bhojanam ||अ॒हम् । भु॒व॒म् । वसु॑नः । पू॒र्व्यः । पतिः॑ । अ॒हम् । धना॑नि । सम् । ज॒या॒मि॒ । शश्व॑तः ।
माम् । ह॒व॒न्ते॒ । पि॒तर॑म् । न । ज॒न्तवः॑ । अ॒हम् । दा॒शुषे॑ । वि । भ॒जा॒मि॒ । भोज॑नम् ॥अहम् । भुवम् । वसुनः । पूर्व्यः । पतिः । अहम् । धनानि । सम् । जयामि । शश्वतः ।
माम् । हवन्ते । पितरम् । न । जन्तवः । अहम् । दाशुषे । वि । भजामि । भोजनम् ॥ahám ǀ bhuvam ǀ vásunaḥ ǀ pūrvyáḥ ǀ pátiḥ ǀ ahám ǀ dhánāni ǀ sám ǀ jayāmi ǀ śáśvataḥ ǀ
mā́m ǀ havante ǀ pitáram ǀ ná ǀ jantávaḥ ǀ ahám ǀ dāśúṣe ǀ ví ǀ bhajāmi ǀ bhójanam ǁaham ǀ bhuvam ǀ vasunaḥ ǀ pūrvyaḥ ǀ patiḥ ǀ aham ǀ dhanāni ǀ sam ǀ jayāmi ǀ śaśvataḥ ǀ
mām ǀ havante ǀ pitaram ǀ na ǀ jantavaḥ ǀ aham ǀ dāśuṣe ǀ vi ǀ bhajāmi ǀ bhojanam ǁ10.48.1 Aṣṭaka 8.1.5.1Anuvāka 10.4.53
-
Ṛk 2
अ॒हमिंद्रो॒ रोधो॒ वक्षो॒ अथ॑र्वणस्त्रि॒ताय॒ गा अ॑जनय॒महे॒रधि॑ ।
अ॒हं दस्यु॑भ्यः॒ परि॑ नृ॒म्णमा द॑दे गो॒त्रा शिक्षं॑दधी॒चे मा॑त॒रिश्व॑ने ॥अहम् इन्द्रो रोधो वक्षो अथर्वणस् त्रिताय गा अजनयम् अहेर् अधि |
अहं दस्युभ्यः परि नृम्णम् आ ददे गोत्रा शिक्षन् दधीचे मातरिश्वने ||ahámíndro ródho vákṣo átharvaṇastritā́ya gā́ ajanayamáherádhi ǀ
ahám dásyubhyaḥ pári nṛmṇámā́ dade gotrā́ śíkṣandadhīcé mātaríśvane ǁaham indro rodho vakṣo atharvaṇas tritāya gā ajanayam aher adhi |
ahaṃ dasyubhyaḥ pari nṛmṇam ā dade gotrā śikṣan dadhīce mātariśvane ||अ॒हम् । इन्द्रः॑ । रोधः॑ । वक्षः॑ । अथ॑र्वणः । त्रि॒ताय॑ । गाः । अ॒ज॒न॒य॒म् । अहेः॑ । अधि॑ ।
अ॒हम् । दस्यु॑ऽभ्यः । परि॑ । नृ॒म्णम् । आ । द॒दे॒ । गो॒त्रा । शिक्ष॑न् । द॒धी॒चे । मा॒त॒रिश्व॑ने ॥अहम् । इन्द्रः । रोधः । वक्षः । अथर्वणः । त्रिताय । गाः । अजनयम् । अहेः । अधि ।
अहम् । दस्युऽभ्यः । परि । नृम्णम् । आ । ददे । गोत्रा । शिक्षन् । दधीचे । मातरिश्वने ॥ahám ǀ índraḥ ǀ ródhaḥ ǀ vákṣaḥ ǀ átharvaṇaḥ ǀ tritā́ya ǀ gā́ḥ ǀ ajanayam ǀ áheḥ ǀ ádhi ǀ
ahám ǀ dásyu-bhyaḥ ǀ pári ǀ nṛmṇám ǀ ā́ ǀ dade ǀ gotrā́ ǀ śíkṣan ǀ dadhīcé ǀ mātaríśvane ǁaham ǀ indraḥ ǀ rodhaḥ ǀ vakṣaḥ ǀ atharvaṇaḥ ǀ tritāya ǀ gāḥ ǀ ajanayam ǀ aheḥ ǀ adhi ǀ
aham ǀ dasyu-bhyaḥ ǀ pari ǀ nṛmṇam ǀ ā ǀ dade ǀ gotrā ǀ śikṣan ǀ dadhīce ǀ mātariśvane ǁ10.48.2 Aṣṭaka 8.1.5.2Anuvāka 10.4.54
-
Ṛk 3
मह्यं॒ त्वष्टा॒ वज्र॑मतक्षदाय॒सं मयि॑ दे॒वासो॑ऽवृज॒न्नपि॒ क्रतुं॑ ।
ममानी॑कं॒ सूर्य॑स्येव दु॒ष्टरं॒ मामार्यं॑ति कृ॒तेन॒ कर्त्वे॑न च ॥मह्यं त्वष्टा वज्रम् अतक्षद् आयसम् मयि देवासो ऽवृजन्न् अपि क्रतुम् |
ममानीकं सूर्यस्येव दुष्टरम् माम् आर्यन्ति कृतेन कर्त्वेन च ||máhyam tváṣṭā vájramatakṣadāyasám máyi devā́so’vṛjannápi krátum ǀ
mámā́nīkam sū́ryasyeva duṣṭáram mā́mā́ryanti kṛténa kártvena ca ǁmahyaṃ tvaṣṭā vajram atakṣad āyasam mayi devāso 'vṛjann api kratum |
mamānīkaṃ sūryasyeva duṣṭaram mām āryanti kṛtena kartvena ca ||मह्य॑म् । त्वष्टा॑ । वज्र॑म् । अ॒त॒क्ष॒त् । आ॒य॒सम् । मयि॑ । दे॒वासः॑ । अ॒वृ॒ज॒न् । अपि॑ । क्रतु॑म् ।
मम॑ । अनी॑कम् । सूर्य॑स्यऽइव । दु॒स्तर॑म् । माम् । आर्य॑न्ति । कृ॒तेन॑ । कर्त्वे॑न । च॒ ॥मह्यम् । त्वष्टा । वज्रम् । अतक्षत् । आयसम् । मयि । देवासः । अवृजन् । अपि । क्रतुम् ।
मम । अनीकम् । सूर्यस्यऽइव । दुस्तरम् । माम् । आर्यन्ति । कृतेन । कर्त्वेन । च ॥máhyam ǀ tváṣṭā ǀ vájram ǀ atakṣat ǀ āyasám ǀ máyi ǀ devā́saḥ ǀ avṛjan ǀ ápi ǀ krátum ǀ
máma ǀ ánīkam ǀ sū́ryasya-iva ǀ dustáram ǀ mā́m ǀ ā́ryanti ǀ kṛténa ǀ kártvena ǀ ca ǁmahyam ǀ tvaṣṭā ǀ vajram ǀ atakṣat ǀ āyasam ǀ mayi ǀ devāsaḥ ǀ avṛjan ǀ api ǀ kratum ǀ
mama ǀ anīkam ǀ sūryasya-iva ǀ dustaram ǀ mām ǀ āryanti ǀ kṛtena ǀ kartvena ǀ ca ǁ10.48.3 Aṣṭaka 8.1.5.3Anuvāka 10.4.55
-
Ṛk 4
अ॒हमे॒तं ग॒व्यय॒मश्व्यं॑ प॒शुं पु॑री॒षिणं॒ साय॑केना हिर॒ण्ययं॑ ।
पु॒रू स॒हस्रा॒ नि शि॑शामि दा॒शुषे॒ यन्मा॒ सोमा॑स उ॒क्थिनो॒ अमं॑दिषुः ॥अहम् एतं गव्ययम् अश्व्यम् पशुम् पुरीषिणं सायकेना हिरण्ययम् |
पुरू सहस्रा नि शिशामि दाशुषे यन् मा सोमास उक्थिनो अमन्दिषुः ||ahámetám gavyáyamáśvyam paśúm purīṣíṇam sā́yakenā hiraṇyáyam ǀ
purū́ sahásrā ní śiśāmi dāśúṣe yánmā sómāsa ukthíno ámandiṣuḥ ǁaham etaṃ gavyayam aśvyam paśum purīṣiṇaṃ sāyakenā hiraṇyayam |
purū sahasrā ni śiśāmi dāśuṣe yan mā somāsa ukthino amandiṣuḥ ||अ॒हम् । ए॒तम् । ग॒व्यय॑म् । अश्व्य॑म् । प॒शुम् । पु॒री॒षिण॑म् । साय॑केन । हि॒र॒ण्यय॑म् ।
पु॒रु । स॒हस्रा॑ । नि । शि॒शा॒मि॒ । दा॒शुषे॑ । यत् । मा॒ । सोमा॑सः । उ॒क्थिनः॑ । अम॑न्दिषुः ॥अहम् । एतम् । गव्ययम् । अश्व्यम् । पशुम् । पुरीषिणम् । सायकेन । हिरण्ययम् ।
पुरु । सहस्रा । नि । शिशामि । दाशुषे । यत् । मा । सोमासः । उक्थिनः । अमन्दिषुः ॥ahám ǀ etám ǀ gavyáyam ǀ áśvyam ǀ paśúm ǀ purīṣíṇam ǀ sā́yakena ǀ hiraṇyáyam ǀ
purú ǀ sahásrā ǀ ní ǀ śiśāmi ǀ dāśúṣe ǀ yát ǀ mā ǀ sómāsaḥ ǀ ukthínaḥ ǀ ámandiṣuḥ ǁaham ǀ etam ǀ gavyayam ǀ aśvyam ǀ paśum ǀ purīṣiṇam ǀ sāyakena ǀ hiraṇyayam ǀ
puru ǀ sahasrā ǀ ni ǀ śiśāmi ǀ dāśuṣe ǀ yat ǀ mā ǀ somāsaḥ ǀ ukthinaḥ ǀ amandiṣuḥ ǁ10.48.4 Aṣṭaka 8.1.5.4Anuvāka 10.4.56
-
Ṛk 5
अ॒हमिंद्रो॒ न परा॑ जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑ तस्थे॒ कदा॑ च॒न ।
सोम॒मिन्मा॑ सु॒न्वंतो॑ याचता॒ वसु॒ न मे॑ पूरवः स॒ख्ये रि॑षाथन ॥अहम् इन्द्रो न परा जिग्य इद् धनं न मृत्यवे ऽव तस्थे कदा चन |
सोमम् इन् मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन ||ahámíndro ná párā jigya íddhánam ná mṛtyávé’va tasthe kádā caná ǀ
sómamínmā sunvánto yācatā vásu ná me pūravaḥ sakhyé riṣāthana ǁaham indro na parā jigya id dhanaṃ na mṛtyave 'va tasthe kadā cana |
somam in mā sunvanto yācatā vasu na me pūravaḥ sakhye riṣāthana ||अ॒हम् । इन्द्रः॑ । न । परा॑ । जि॒ग्ये॒ । इत् । धन॑म् । न । मृ॒त्यवे॑ । अव॑ । त॒स्थे॒ । कदा॑ । च॒न ।
सोम॑म् । इत् । मा॒ । सु॒न्वन्तः॑ । या॒च॒त॒ । वसु॑ । न । मे॒ । पू॒र॒वः॒ । स॒ख्ये । रि॒षा॒थ॒न॒ ॥अहम् । इन्द्रः । न । परा । जिग्ये । इत् । धनम् । न । मृत्यवे । अव । तस्थे । कदा । चन ।
सोमम् । इत् । मा । सुन्वन्तः । याचत । वसु । न । मे । पूरवः । सख्ये । रिषाथन ॥ahám ǀ índraḥ ǀ ná ǀ párā ǀ jigye ǀ ít ǀ dhánam ǀ ná ǀ mṛtyáve ǀ áva ǀ tasthe ǀ kádā ǀ caná ǀ
sómam ǀ ít ǀ mā ǀ sunvántaḥ ǀ yācata ǀ vásu ǀ ná ǀ me ǀ pūravaḥ ǀ sakhyé ǀ riṣāthana ǁaham ǀ indraḥ ǀ na ǀ parā ǀ jigye ǀ it ǀ dhanam ǀ na ǀ mṛtyave ǀ ava ǀ tasthe ǀ kadā ǀ cana ǀ
somam ǀ it ǀ mā ǀ sunvantaḥ ǀ yācata ǀ vasu ǀ na ǀ me ǀ pūravaḥ ǀ sakhye ǀ riṣāthana ǁ10.48.5 Aṣṭaka 8.1.5.5Anuvāka 10.4.57
-
Ṛk 6
अ॒हमे॒तांछाश्व॑सतो॒ द्वाद्वेंद्रं॒ ये वज्रं॑ यु॒धयेऽकृ॑ण्वत ।
आ॒ह्वय॑मानाँ॒ अव॒ हन्म॑नाहनं दृ॒ळ्हा वद॒न्नन॑मस्युर्नम॒स्विनः॑ ॥अहम् एताञ् छाश्वसतो द्वा-द्वेन्द्रं ये वज्रं युधये ऽकृण्वत |
आह्वयमानां अव हन्मनाहनं दृऌहा वदन्न् अनमस्युर् नमस्विनः ||ahámetā́ñchā́śvasato dvā́dvéndram yé vájram yudháyé’kṛṇvata ǀ
āhváyamānām̐ áva hánmanāhanam dṛḷhā́ vádannánamasyurnamasvínaḥ ǁaham etāñ chāśvasato dvā-dvendraṃ ye vajraṃ yudhaye 'kṛṇvata |
āhvayamānāṃ ava hanmanāhanaṃ dṛḷhā vadann anamasyur namasvinaḥ ||अ॒हम् । ए॒तान् । शाश्व॑सतः । द्वाऽद्वा॑ । इन्द्र॑म् । ये । वज्र॑म् । यु॒धये॑ । अकृ॑ण्वत ।
आ॒ऽह्वय॑मानान् । अव॑ । हन्म॑ना । अ॒ह॒न॒म् । दृ॒ळ्हा । वद॑न् । अन॑मस्युः । न॒म॒स्विनः॑ ॥अहम् । एतान् । शाश्वसतः । द्वाऽद्वा । इन्द्रम् । ये । वज्रम् । युधये । अकृण्वत ।
आऽह्वयमानान् । अव । हन्मना । अहनम् । दृळ्हा । वदन् । अनमस्युः । नमस्विनः ॥ahám ǀ etā́n ǀ śā́śvasataḥ ǀ dvā́-dvā ǀ índram ǀ yé ǀ vájram ǀ yudháye ǀ ákṛṇvata ǀ
ā-hváyamānān ǀ áva ǀ hánmanā ǀ ahanam ǀ dṛḷhā́ ǀ vádan ǀ ánamasyuḥ ǀ namasvínaḥ ǁaham ǀ etān ǀ śāśvasataḥ ǀ dvā-dvā ǀ indram ǀ ye ǀ vajram ǀ yudhaye ǀ akṛṇvata ǀ
ā-hvayamānān ǀ ava ǀ hanmanā ǀ ahanam ǀ dṛḷhā ǀ vadan ǀ anamasyuḥ ǀ namasvinaḥ ǁ10.48.6 Aṣṭaka 8.1.6.1Anuvāka 10.4.58
-
Ṛk 7
अ॒भी॒३॒॑दमेक॒मेको॑ अस्मि नि॒ष्षाळ॒भी द्वा किमु॒ त्रयः॑ करंति ।
खले॒ न प॒र्षान्प्रति॑ हन्मि॒ भूरि॒ किं मा॑ निंदंति॒ शत्र॑वोऽनिं॒द्राः ॥अभीदम् एकम् एको अस्मि निष्षाऌ अभी द्वा किम् उ त्रयः करन्ति |
खले न पर्षान् प्रति हन्मि भूरि किम् मा निन्दन्ति शत्रवो ऽनिन्द्राः ||abhī́dámékaméko asmi niṣṣā́ḷabhī́ dvā́ kímu tráyaḥ karanti ǀ
khále ná parṣā́npráti hanmi bhū́ri kím mā nindanti śátravo’nindrā́ḥ ǁabhīdam ekam eko asmi niṣṣāḷ abhī dvā kim u trayaḥ karanti |
khale na parṣān prati hanmi bhūri kim mā nindanti śatravo 'nindrāḥ ||अ॒भि । इ॒दम् । एक॑म् । एकः॑ । अ॒स्मि॒ । नि॒ष्षाट् । अ॒भि । द्वा । किम् । ऊं॒ इति॑ । त्रयः॑ । क॒र॒न्ति॒ ।
खले॑ । न । प॒र्षान् । प्रति॑ । ह॒न्मि॒ । भूरि॑ । किम् । मा॒ । नि॒न्द॒न्ति॒ । शत्र॑वः । अ॒नि॒न्द्राः ॥अभि । इदम् । एकम् । एकः । अस्मि । निष्षाट् । अभि । द्वा । किम् । ऊं इति । त्रयः । करन्ति ।
खले । न । पर्षान् । प्रति । हन्मि । भूरि । किम् । मा । निन्दन्ति । शत्रवः । अनिन्द्राः ॥abhí ǀ idám ǀ ékam ǀ ékaḥ ǀ asmi ǀ niṣṣā́ṭ ǀ abhí ǀ dvā́ ǀ kím ǀ ūṃ íti ǀ tráyaḥ ǀ karanti ǀ
khále ǀ ná ǀ parṣā́n ǀ práti ǀ hanmi ǀ bhū́ri ǀ kím ǀ mā ǀ nindanti ǀ śátravaḥ ǀ anindrā́ḥ ǁabhi ǀ idam ǀ ekam ǀ ekaḥ ǀ asmi ǀ niṣṣāṭ ǀ abhi ǀ dvā ǀ kim ǀ ūṃ iti ǀ trayaḥ ǀ karanti ǀ
khale ǀ na ǀ parṣān ǀ prati ǀ hanmi ǀ bhūri ǀ kim ǀ mā ǀ nindanti ǀ śatravaḥ ǀ anindrāḥ ǁ10.48.7 Aṣṭaka 8.1.6.2Anuvāka 10.4.59
-
Ṛk 8
अ॒हं गुं॒गुभ्यो॑ अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं॑ वि॒क्षु धा॑रयं ।
यत्प॑र्णय॒घ्न उ॒त वा॑ करंज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒ अशु॑श्रवि ॥अहं गुङ्गुभ्यो अतिथिग्वम् इष्करम् इषं न वृत्रतुरं विक्षु धारयम् |
यत् पर्णयघ्न उत वा करञ्जहे प्राहम् महे वृत्रहत्ये अशुश्रवि ||ahám guṅgúbhyo atithigvámíṣkaramíṣam ná vṛtratúram vikṣú dhārayam ǀ
yátparṇayaghná utá vā karañjahé prā́hám mahé vṛtrahátye áśuśravi ǁahaṃ guṅgubhyo atithigvam iṣkaram iṣaṃ na vṛtraturaṃ vikṣu dhārayam |
yat parṇayaghna uta vā karañjahe prāham mahe vṛtrahatye aśuśravi ||अ॒हम् । गु॒ङ्गुऽभ्यः॑ । अ॒ति॒थि॒ऽग्वम् । इष्क॑रम् । इष॑म् । न । वृ॒त्र॒ऽतुर॑म् । वि॒क्षु । धा॒र॒य॒म् ।
यत् । प॒र्ण॒य॒ऽघ्ने । उ॒त । वा॒ । क॒र॒ञ्ज॒ऽहे । प्र । अ॒हम् । म॒हे । वृ॒त्र॒ऽहत्ये॑ । अशु॑श्रवि ॥अहम् । गुङ्गुऽभ्यः । अतिथिऽग्वम् । इष्करम् । इषम् । न । वृत्रऽतुरम् । विक्षु । धारयम् ।
यत् । पर्णयऽघ्ने । उत । वा । करञ्जऽहे । प्र । अहम् । महे । वृत्रऽहत्ये । अशुश्रवि ॥ahám ǀ guṅgú-bhyaḥ ǀ atithi-gvám ǀ íṣkaram ǀ íṣam ǀ ná ǀ vṛtra-túram ǀ vikṣú ǀ dhārayam ǀ
yát ǀ parṇaya-ghné ǀ utá ǀ vā ǀ karañja-hé ǀ prá ǀ ahám ǀ mahé ǀ vṛtra-hátye ǀ áśuśravi ǁaham ǀ guṅgu-bhyaḥ ǀ atithi-gvam ǀ iṣkaram ǀ iṣam ǀ na ǀ vṛtra-turam ǀ vikṣu ǀ dhārayam ǀ
yat ǀ parṇaya-ghne ǀ uta ǀ vā ǀ karañja-he ǀ pra ǀ aham ǀ mahe ǀ vṛtra-hatye ǀ aśuśravi ǁ10.48.8 Aṣṭaka 8.1.6.3Anuvāka 10.4.60
-
Ṛk 9
प्र मे॒ नमी॑ सा॒प्य इ॒षे भु॒जे भू॒द्गवा॒मेषे॑ स॒ख्या कृ॑णुत द्वि॒ता ।
दि॒द्युं यद॑स्य समि॒थेषु॑ मं॒हय॒मादिदे॑नं॒ शंस्य॑मु॒क्थ्यं॑ करं ॥प्र मे नमी साप्य इषे भुजे भूद् गवाम् एषे सख्या कृणुत द्विता |
दिद्युं यद् अस्य समिथेषु मंहयम् आद् इद् एनं शंस्यम् उक्थ्यं करम् ||prá me námī sāpyá iṣé bhujé bhūdgávāméṣe sakhyā́ kṛṇuta dvitā́ ǀ
didyúm yádasya samithéṣu maṃháyamā́dídenam śáṃsyamukthyám karam ǁpra me namī sāpya iṣe bhuje bhūd gavām eṣe sakhyā kṛṇuta dvitā |
didyuṃ yad asya samitheṣu maṃhayam ād id enaṃ śaṃsyam ukthyaṃ karam ||प्र । मे॒ । नमी॑ । सा॒प्यः । इ॒षे । भु॒जे । भू॒त् । गवा॑म् । एषे॑ । स॒ख्या । कृ॒णु॒त॒ । द्वि॒ता ।
दि॒द्युम् । यत् । अ॒स्य॒ । स॒म्ऽइ॒थेषु॑ । मं॒हय॑म् । आत् । इत् । ए॒न॒म् । शंस्य॑म् । उ॒क्थ्य॑म् । क॒र॒म् ॥प्र । मे । नमी । साप्यः । इषे । भुजे । भूत् । गवाम् । एषे । सख्या । कृणुत । द्विता ।
दिद्युम् । यत् । अस्य । सम्ऽइथेषु । मंहयम् । आत् । इत् । एनम् । शंस्यम् । उक्थ्यम् । करम् ॥prá ǀ me ǀ námī ǀ sāpyáḥ ǀ iṣé ǀ bhujé ǀ bhūt ǀ gávām ǀ éṣe ǀ sakhyā́ ǀ kṛṇuta ǀ dvitā́ ǀ
didyúm ǀ yát ǀ asya ǀ sam-ithéṣu ǀ maṃháyam ǀ ā́t ǀ ít ǀ enam ǀ śáṃsyam ǀ ukthyám ǀ karam ǁpra ǀ me ǀ namī ǀ sāpyaḥ ǀ iṣe ǀ bhuje ǀ bhūt ǀ gavām ǀ eṣe ǀ sakhyā ǀ kṛṇuta ǀ dvitā ǀ
didyum ǀ yat ǀ asya ǀ sam-itheṣu ǀ maṃhayam ǀ āt ǀ it ǀ enam ǀ śaṃsyam ǀ ukthyam ǀ karam ǁ10.48.9 Aṣṭaka 8.1.6.4Anuvāka 10.4.61
-
Ṛk 10
प्र नेम॑स्मिंददृशे॒ सोमो॑ अं॒तर्गो॒पा नेम॑मा॒विर॒स्था कृ॑णोति ।
स ति॒ग्मशृं॑गं वृष॒भं युयु॑त्संद्रु॒हस्त॑स्थौ बहु॒ले ब॒द्धो अं॒तः ॥प्र नेमस्मिन् ददृशे सोमो अन्तर् गोपा नेमम् आविर् अस्था कृणोति |
स तिग्मशृङ्गं वृषभं युयुत्सन् द्रुहस् तस्थौ बहुले बद्धो अन्तः ||prá némasmindadṛśe sómo antárgopā́ némamāvírasthā́ kṛṇoti ǀ
sá tigmáśṛṅgam vṛṣabhám yúyutsandruhástasthau bahulé baddhó antáḥ ǁpra nemasmin dadṛśe somo antar gopā nemam āvir asthā kṛṇoti |
sa tigmaśṛṅgaṃ vṛṣabhaṃ yuyutsan druhas tasthau bahule baddho antaḥ ||प्र । नेम॑स्मिन् । द॒दृ॒शे॒ । सोमः॑ । अ॒न्तः । गो॒पाः । नेम॑म् । आ॒विः । अ॒स्था । कृ॒णो॒ति॒ ।
सः । ति॒ग्मऽशृ॑ङ्गम् । वृ॒ष॒भम् । युयु॑त्सन् । द्रु॒हः । त॒स्थौ॒ । ब॒हु॒ले । ब॒द्धः । अ॒न्तरिति॑ ॥प्र । नेमस्मिन् । ददृशे । सोमः । अन्तः । गोपाः । नेमम् । आविः । अस्था । कृणोति ।
सः । तिग्मऽशृङ्गम् । वृषभम् । युयुत्सन् । द्रुहः । तस्थौ । बहुले । बद्धः । अन्तरिति ॥prá ǀ némasmin ǀ dadṛśe ǀ sómaḥ ǀ antáḥ ǀ gopā́ḥ ǀ némam ǀ āvíḥ ǀ asthā́ ǀ kṛṇoti ǀ
sáḥ ǀ tigmá-śṛṅgam ǀ vṛṣabhám ǀ yúyutsan ǀ druháḥ ǀ tasthau ǀ bahulé ǀ baddháḥ ǀ antáríti ǁpra ǀ nemasmin ǀ dadṛśe ǀ somaḥ ǀ antaḥ ǀ gopāḥ ǀ nemam ǀ āviḥ ǀ asthā ǀ kṛṇoti ǀ
saḥ ǀ tigma-śṛṅgam ǀ vṛṣabham ǀ yuyutsan ǀ druhaḥ ǀ tasthau ǀ bahule ǀ baddhaḥ ǀ antariti ǁ10.48.10 Aṣṭaka 8.1.6.5Anuvāka 10.4.62
-
Ṛk 11
आ॒दि॒त्यानां॒ वसू॑नां रु॒द्रिया॑णां दे॒वो दे॒वानां॒ न मि॑नामि॒ धाम॑ ।
ते मा॑ भ॒द्राय॒ शव॑से ततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा॑ळ्हं ॥आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम |
ते मा भद्राय शवसे ततक्षुर् अपराजितम् अस्तृतम् अषाऌहम् ||ādityā́nām vásūnām rudríyāṇām devó devā́nām ná mināmi dhā́ma ǀ
té mā bhadrā́ya śávase tatakṣuráparājitamástṛtamáṣāḷham ǁādityānāṃ vasūnāṃ rudriyāṇāṃ devo devānāṃ na mināmi dhāma |
te mā bhadrāya śavase tatakṣur aparājitam astṛtam aṣāḷham ||आ॒दि॒त्याना॑म् । वसू॑नाम् । रु॒द्रिया॑णाम् । दे॒वः । दे॒वाना॑म् । न । मि॒ना॒मि॒ । धाम॑ ।
ते । मा॒ । भ॒द्राय॑ । शव॑से । त॒त॒क्षुः॒ । अप॑राऽजितम् । अस्तृ॑तम् । अषा॑ळ्हम् ॥आदित्यानाम् । वसूनाम् । रुद्रियाणाम् । देवः । देवानाम् । न । मिनामि । धाम ।
ते । मा । भद्राय । शवसे । ततक्षुः । अपराऽजितम् । अस्तृतम् । अषाळ्हम् ॥ādityā́nām ǀ vásūnām ǀ rudríyāṇām ǀ deváḥ ǀ devā́nām ǀ ná ǀ mināmi ǀ dhā́ma ǀ
té ǀ mā ǀ bhadrā́ya ǀ śávase ǀ tatakṣuḥ ǀ áparā-jitam ǀ ástṛtam ǀ áṣāḷham ǁādityānām ǀ vasūnām ǀ rudriyāṇām ǀ devaḥ ǀ devānām ǀ na ǀ mināmi ǀ dhāma ǀ
te ǀ mā ǀ bhadrāya ǀ śavase ǀ tatakṣuḥ ǀ aparā-jitam ǀ astṛtam ǀ aṣāḷham ǁ10.48.11 Aṣṭaka 8.1.6.6Anuvāka 10.4.63
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.