Ṛgveda · Maṇḍala 10

Sūkta 34

Akṣakṛṣipraśaṃsā · Akṣakitavanindā · Kavaṣa Ailūṣa Or Akṣa Maujavat · 14 ṛks

Link
Devatā देवता
1, 7, 9, 12, 13: Akṣakṛṣipraśaṃsā; 2-6, 8, 10, 11, 14: Akṣakitavanindā
Ṛṣi ऋषि
Kavaṣa Ailūṣa Or Akṣa Maujavat
Chandas छन्दस्
Triṣṭubh, Jagatī
Metres by ṛk

1st set of styles triṣṭup (1, 2, 8, 12, 13); nicṛttriṣṭup (3, 6, 11, 14); virāṭtrisṭup (4, 5, 9, 10); jagatī (7)

2nd set of styles triṣṭubh (1-6, 8-14); jagatī (7)

  1. Ṛk 1

    प्रा॒वे॒पा मा॑ बृह॒तो मा॑दयंति प्रवाते॒जा इरि॑णे॒ वर्वृ॑तानाः ।
    सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ॥

    प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः |
    सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर् मह्यम् अच्छान् ||

    prāvepā́ mā bṛható mādayanti pravātejā́ íriṇe várvṛtānāḥ ǀ
    sómasyeva maujavatásya bhakṣó vibhī́dako jā́gṛvirmáhyamacchān ǁ

    prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ |
    somasyeva maujavatasya bhakṣo vibhīdako jāgṛvir mahyam acchān ||

    प्रा॒वे॒पाः । मा॒ । बृ॒ह॒तः । मा॒द॒य॒न्ति॒ । प्र॒वा॒ते॒ऽजाः । इरि॑णे । वर्वृ॑तानाः ।
    सोम॑स्यऽइव । मौ॒ज॒ऽव॒तस्य॑ । भ॒क्षः । वि॒ऽभीद॑कः । जागृ॑विः । मह्य॑म् । अ॒च्छा॒न् ॥

    प्रावेपाः । मा । बृहतः । मादयन्ति । प्रवातेऽजाः । इरिणे । वर्वृतानाः ।
    सोमस्यऽइव । मौजऽवतस्य । भक्षः । विऽभीदकः । जागृविः । मह्यम् । अच्छान् ॥

    prāvepā́ḥ ǀ mā ǀ bṛhatáḥ ǀ mādayanti ǀ pravāte-jā́ḥ ǀ íriṇe ǀ várvṛtānāḥ ǀ
    sómasya-iva ǀ mauja-vatásya ǀ bhakṣáḥ ǀ vi-bhī́dakaḥ ǀ jā́gṛviḥ ǀ máhyam ǀ acchān ǁ

    prāvepāḥ ǀ mā ǀ bṛhataḥ ǀ mādayanti ǀ pravāte-jāḥ ǀ iriṇe ǀ varvṛtānāḥ ǀ
    somasya-iva ǀ mauja-vatasya ǀ bhakṣaḥ ǀ vi-bhīdakaḥ ǀ jāgṛviḥ ǀ mahyam ǀ acchān ǁ

    10.34.1 Aṣṭaka 7.8.3.1Anuvāka 10.3.45

  2. Ṛk 2

    न मा॑ मिमेथ॒ न जि॑हीळ ए॒षा शि॒वा सखि॑भ्य उ॒त मह्य॑मासीत् ।
    अ॒क्षस्या॒हमे॑कप॒रस्य॑ हे॒तोरनु॑व्रता॒मप॑ जा॒याम॑रोधं ॥

    न मा मिमेथ न जिहीऌअ एषा शिवा सखिभ्य उत मह्यम् आसीत् |
    अक्षस्याहम् एकपरस्य हेतोर् अनुव्रताम् अप जायाम् अरोधम् ||

    ná mā mimetha ná jihīḷa eṣā́ śivā́ sákhibhya utá máhyamāsīt ǀ
    akṣásyāhámekaparásya hetóránuvratāmápa jāyā́marodham ǁ

    na mā mimetha na jihīḷa eṣā śivā sakhibhya uta mahyam āsīt |
    akṣasyāham ekaparasya hetor anuvratām apa jāyām arodham ||

    न । मा॒ । मि॒मे॒थ॒ । न । जि॒ही॒ळे॒ । ए॒षा । शि॒वा । सखि॑ऽभ्यः । उ॒त । मह्य॑म् । आ॒सी॒त् ।
    अ॒क्षस्य॑ । अ॒हम् । ए॒क॒ऽप॒रस्य॑ । हे॒तोः । अनु॑ऽव्रताम् । अप॑ । जा॒याम् । अ॒रो॒ध॒म् ॥

    न । मा । मिमेथ । न । जिहीळे । एषा । शिवा । सखिऽभ्यः । उत । मह्यम् । आसीत् ।
    अक्षस्य । अहम् । एकऽपरस्य । हेतोः । अनुऽव्रताम् । अप । जायाम् । अरोधम् ॥

    ná ǀ mā ǀ mimetha ǀ ná ǀ jihīḷe ǀ eṣā́ ǀ śivā́ ǀ sákhi-bhyaḥ ǀ utá ǀ máhyam ǀ āsīt ǀ
    akṣásya ǀ ahám ǀ eka-parásya ǀ hetóḥ ǀ ánu-vratām ǀ ápa ǀ jāyā́m ǀ arodham ǁ

    na ǀ mā ǀ mimetha ǀ na ǀ jihīḷe ǀ eṣā ǀ śivā ǀ sakhi-bhyaḥ ǀ uta ǀ mahyam ǀ āsīt ǀ
    akṣasya ǀ aham ǀ eka-parasya ǀ hetoḥ ǀ anu-vratām ǀ apa ǀ jāyām ǀ arodham ǁ

    10.34.2 Aṣṭaka 7.8.3.2Anuvāka 10.3.46

  3. Ṛk 3

    द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना॑थि॒तो विं॑दते मर्डि॒तारं॑ ।
    अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं विं॑दामि कित॒वस्य॒ भोगं॑ ॥

    द्वेष्टि श्वश्रूर् अप जाया रुणद्धि न नाथितो विन्दते मर्डितारम् |
    अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामि कितवस्य भोगम् ||

    dvéṣṭi śvaśrū́rápa jāyā́ ruṇaddhi ná nāthitó vindate marḍitā́ram ǀ
    áśvasyeva járato vásnyasya nā́hám vindāmi kitavásya bhógam ǁ

    dveṣṭi śvaśrūr apa jāyā ruṇaddhi na nāthito vindate marḍitāram |
    aśvasyeva jarato vasnyasya nāhaṃ vindāmi kitavasya bhogam ||

    द्वेष्टि॑ । श्व॒श्रूः । अप॑ । जा॒या । रु॒ण॒द्धि॒ । न । ना॒थि॒तः । वि॒न्द॒ते॒ । म॒र्डि॒तार॑म् ।
    अश्व॑स्यऽइव । जर॑तः । वस्न्य॑स्य । न । अ॒हम् । वि॒न्दा॒मि॒ । कि॒त॒वस्य॑ । भोग॑म् ॥

    द्वेष्टि । श्वश्रूः । अप । जाया । रुणद्धि । न । नाथितः । विन्दते । मर्डितारम् ।
    अश्वस्यऽइव । जरतः । वस्न्यस्य । न । अहम् । विन्दामि । कितवस्य । भोगम् ॥

    dvéṣṭi ǀ śvaśrū́ḥ ǀ ápa ǀ jāyā́ ǀ ruṇaddhi ǀ ná ǀ nāthitáḥ ǀ vindate ǀ marḍitā́ram ǀ
    áśvasya-iva ǀ járataḥ ǀ vásnyasya ǀ ná ǀ ahám ǀ vindāmi ǀ kitavásya ǀ bhógam ǁ

    dveṣṭi ǀ śvaśrūḥ ǀ apa ǀ jāyā ǀ ruṇaddhi ǀ na ǀ nāthitaḥ ǀ vindate ǀ marḍitāram ǀ
    aśvasya-iva ǀ jarataḥ ǀ vasnyasya ǀ na ǀ aham ǀ vindāmi ǀ kitavasya ǀ bhogam ǁ

    10.34.3 Aṣṭaka 7.8.3.3Anuvāka 10.3.47

  4. Ṛk 4

    अ॒न्ये जा॒यां परि॑ मृशंत्यस्य॒ यस्यागृ॑ध॒द्वेद॑ने वा॒ज्य१॒॑क्षः ।
    पि॒ता मा॒ता भ्रात॑र एनमाहु॒र्न जा॑नीमो॒ नय॑ता ब॒द्धमे॒तं ॥

    अन्ये जायाम् परि मृशन्त्य् अस्य यस्यागृधद् वेदने वाज्य् अक्षः |
    पिता माता भ्रातर एनम् आहुर् न जानीमो नयता बद्धम् एतम् ||

    anyé jāyā́m pári mṛśantyasya yásyā́gṛdhadvédane vājyákṣáḥ ǀ
    pitā́ mātā́ bhrā́tara enamāhurná jānīmo náyatā baddhámetám ǁ

    anye jāyām pari mṛśanty asya yasyāgṛdhad vedane vājy akṣaḥ |
    pitā mātā bhrātara enam āhur na jānīmo nayatā baddham etam ||

    अ॒न्ये । जा॒याम् । परि॑ । मृ॒श॒न्ति॒ । अ॒स्य॒ । यस्य॑ । अगृ॑धत् । वेद॑ने । वा॒जी । अ॒क्षः ।
    पि॒ता । मा॒ता । भ्रात॑रः । ए॒न॒म् । आ॒हुः॒ । न । जा॒नी॒मः॒ । नय॑त । ब॒द्धम् । ए॒तम् ॥

    अन्ये । जायाम् । परि । मृशन्ति । अस्य । यस्य । अगृधत् । वेदने । वाजी । अक्षः ।
    पिता । माता । भ्रातरः । एनम् । आहुः । न । जानीमः । नयत । बद्धम् । एतम् ॥

    anyé ǀ jāyā́m ǀ pári ǀ mṛśanti ǀ asya ǀ yásya ǀ ágṛdhat ǀ védane ǀ vājī́ ǀ akṣáḥ ǀ
    pitā́ ǀ mātā́ ǀ bhrā́taraḥ ǀ enam ǀ āhuḥ ǀ ná ǀ jānīmaḥ ǀ náyata ǀ baddhám ǀ etám ǁ

    anye ǀ jāyām ǀ pari ǀ mṛśanti ǀ asya ǀ yasya ǀ agṛdhat ǀ vedane ǀ vājī ǀ akṣaḥ ǀ
    pitā ǀ mātā ǀ bhrātaraḥ ǀ enam ǀ āhuḥ ǀ na ǀ jānīmaḥ ǀ nayata ǀ baddham ǀ etam ǁ

    10.34.4 Aṣṭaka 7.8.3.4Anuvāka 10.3.48

  5. Ṛk 5

    यदा॒दीध्ये॒ न द॑विषाण्येभिः परा॒यद्भ्योऽव॑ हीये॒ सखि॑भ्यः ।
    न्यु॑प्ताश्च ब॒भ्रवो॒ वाच॒मक्र॑तँ॒ एमीदे॑षां निष्कृ॒तं जा॒रिणी॑व ॥

    यद् आदीध्ये न दविषाण्य् एभिः परायद्भ्यो ऽव हीये सखिभ्यः |
    न्युप्ताश् च बभ्रवो वाचम् अक्रतं एमीद् एषां निष्कृतं जारिणीव ||

    yádādī́dhye ná daviṣāṇyebhiḥ parāyádbhyó’va hīye sákhibhyaḥ ǀ
    nyúptāśca babhrávo vā́camákratam̐ émī́deṣām niṣkṛtám jāríṇīva ǁ

    yad ādīdhye na daviṣāṇy ebhiḥ parāyadbhyo 'va hīye sakhibhyaḥ |
    nyuptāś ca babhravo vācam akrataṃ emīd eṣāṃ niṣkṛtaṃ jāriṇīva ||

    यत् । आ॒ऽदीध्ये॑ । न । द॒वि॒षा॒णि॒ । ए॒भिः॒ । प॒रा॒यत्ऽभ्यः॑ । अव॑ । ही॒ये॒ । सखि॑ऽभ्यः ।
    निऽउ॑प्ताः । च॒ । ब॒भ्रवः॑ । वाच॑म् । अक्र॑त । एमि॑ । इत् । ए॒षा॒म् । निः॒ऽकृ॒तम् । जा॒रिणी॑ऽइव ॥

    यत् । आऽदीध्ये । न । दविषाणि । एभिः । परायत्ऽभ्यः । अव । हीये । सखिऽभ्यः ।
    निऽउप्ताः । च । बभ्रवः । वाचम् । अक्रत । एमि । इत् । एषाम् । निःऽकृतम् । जारिणीऽइव ॥

    yát ǀ ā-dī́dhye ǀ ná ǀ daviṣāṇi ǀ ebhiḥ ǀ parāyát-bhyaḥ ǀ áva ǀ hīye ǀ sákhi-bhyaḥ ǀ
    ní-uptāḥ ǀ ca ǀ babhrávaḥ ǀ vā́cam ǀ ákrata ǀ émi ǀ ít ǀ eṣām ǀ niḥ-kṛtám ǀ jāríṇī-iva ǁ

    yat ǀ ā-dīdhye ǀ na ǀ daviṣāṇi ǀ ebhiḥ ǀ parāyat-bhyaḥ ǀ ava ǀ hīye ǀ sakhi-bhyaḥ ǀ
    ni-uptāḥ ǀ ca ǀ babhravaḥ ǀ vācam ǀ akrata ǀ emi ǀ it ǀ eṣām ǀ niḥ-kṛtam ǀ jāriṇī-iva ǁ

    10.34.5 Aṣṭaka 7.8.3.5Anuvāka 10.3.49

  6. Ṛk 6

    स॒भामे॑ति कित॒वः पृ॒च्छमा॑नो जे॒ष्यामीति॑ त॒न्वा॒३॒॑ शूशु॑जानः ।
    अ॒क्षासो॑ अस्य॒ वि ति॑रंति॒ कामं॑ प्रति॒दीव्ने॒ दध॑त॒ आ कृ॒तानि॑ ॥

    सभाम् एति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः |
    अक्षासो अस्य वि तिरन्ति कामम् प्रतिदीव्ने दधत आ कृतानि ||

    sabhā́meti kitaváḥ pṛcchámāno jeṣyā́mī́ti tanvā́ śū́śujānaḥ ǀ
    akṣā́so asya ví tiranti kā́mam pratidī́vne dádhata ā́ kṛtā́ni ǁ

    sabhām eti kitavaḥ pṛcchamāno jeṣyāmīti tanvā śūśujānaḥ |
    akṣāso asya vi tiranti kāmam pratidīvne dadhata ā kṛtāni ||

    स॒भाम् । ए॒ति॒ । कि॒त॒वः । पृ॒च्छमा॑नः । जे॒ष्यामि॑ । इति॑ । त॒न्वा॑ । शूशु॑जानः ।
    अ॒क्षासः॑ । अ॒स्य॒ । वि । ति॒र॒न्ति॒ । काम॑म् । प्र॒ति॒ऽदीव्ने॑ । दध॑तः । आ । कृ॒तानि॑ ॥

    सभाम् । एति । कितवः । पृच्छमानः । जेष्यामि । इति । तन्वा । शूशुजानः ।
    अक्षासः । अस्य । वि । तिरन्ति । कामम् । प्रतिऽदीव्ने । दधतः । आ । कृतानि ॥

    sabhā́m ǀ eti ǀ kitaváḥ ǀ pṛcchámānaḥ ǀ jeṣyā́mi ǀ íti ǀ tanvā́ ǀ śū́śujānaḥ ǀ
    akṣā́saḥ ǀ asya ǀ ví ǀ tiranti ǀ kā́mam ǀ prati-dī́vne ǀ dádhataḥ ǀ ā́ ǀ kṛtā́ni ǁ

    sabhām ǀ eti ǀ kitavaḥ ǀ pṛcchamānaḥ ǀ jeṣyāmi ǀ iti ǀ tanvā ǀ śūśujānaḥ ǀ
    akṣāsaḥ ǀ asya ǀ vi ǀ tiranti ǀ kāmam ǀ prati-dīvne ǀ dadhataḥ ǀ ā ǀ kṛtāni ǁ

    10.34.6 Aṣṭaka 7.8.4.1Anuvāka 10.3.50

  7. Ṛk 7

    अ॒क्षास॒ इदं॑कु॒शिनो॑ नितो॒दिनो॑ नि॒कृत्वा॑न॒स्तप॑नास्तापयि॒ष्णवः॑ ।
    कु॒मा॒रदे॑ष्णा॒ जय॑तः पुन॒र्हणो॒ मध्वा॒ संपृ॑क्ताः कित॒वस्य॑ ब॒र्हणा॑ ॥

    अक्षास इद् अङ्कुशिनो नितोदिनो निकृत्वानस् तपनास् तापयिष्णवः |
    कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा ||

    akṣā́sa ídaṅkuśíno nitodíno nikṛ́tvānastápanāstāpayiṣṇávaḥ ǀ
    kumārádeṣṇā jáyataḥ punarháṇo mádhvā sámpṛktāḥ kitavásya barháṇā ǁ

    akṣāsa id aṅkuśino nitodino nikṛtvānas tapanās tāpayiṣṇavaḥ |
    kumāradeṣṇā jayataḥ punarhaṇo madhvā sampṛktāḥ kitavasya barhaṇā ||

    अ॒क्षासः॑ । इत् । अ॒ङ्कु॒शिनः॑ । नि॒ऽतो॒दिनः॑ । नि॒ऽकृत्वा॑नः । तप॑नाः । ता॒प॒यि॒ष्णवः॑ ।
    कु॒मा॒रऽदे॑ष्णाः । जय॑तः । पु॒नः॒ऽहनः॑ । मध्वा॑ । सम्ऽपृ॑क्ताः । कि॒त॒वस्य॑ । ब॒र्हणा॑ ॥

    अक्षासः । इत् । अङ्कुशिनः । निऽतोदिनः । निऽकृत्वानः । तपनाः । तापयिष्णवः ।
    कुमारऽदेष्णाः । जयतः । पुनःऽहनः । मध्वा । सम्ऽपृक्ताः । कितवस्य । बर्हणा ॥

    akṣā́saḥ ǀ ít ǀ aṅkuśínaḥ ǀ ni-todínaḥ ǀ ni-kṛ́tvānaḥ ǀ tápanāḥ ǀ tāpayiṣṇávaḥ ǀ
    kumārá-deṣṇāḥ ǀ jáyataḥ ǀ punaḥ-hánaḥ ǀ mádhvā ǀ sám-pṛktāḥ ǀ kitavásya ǀ barháṇā ǁ

    akṣāsaḥ ǀ it ǀ aṅkuśinaḥ ǀ ni-todinaḥ ǀ ni-kṛtvānaḥ ǀ tapanāḥ ǀ tāpayiṣṇavaḥ ǀ
    kumāra-deṣṇāḥ ǀ jayataḥ ǀ punaḥ-hanaḥ ǀ madhvā ǀ sam-pṛktāḥ ǀ kitavasya ǀ barhaṇā ǁ

    10.34.7 Aṣṭaka 7.8.4.2Anuvāka 10.3.51

  8. Ṛk 8

    त्रि॒पं॒चा॒शः क्री॑ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा ।
    उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मंते॒ राजा॑ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ॥

    त्रिपञ्चाशः क्रीऌअति व्रात एषां देव इव सविता सत्यधर्मा |
    उग्रस्य चिन् मन्यवे ना नमन्ते राजा चिद् एभ्यो नम इत् कृणोति ||

    tripañcāśáḥ krīḷati vrā́ta eṣām devá iva savitā́ satyádharmā ǀ
    ugrásya cinmanyáve nā́ namante rā́jā cidebhyo náma ítkṛṇoti ǁ

    tripañcāśaḥ krīḷati vrāta eṣāṃ deva iva savitā satyadharmā |
    ugrasya cin manyave nā namante rājā cid ebhyo nama it kṛṇoti ||

    त्रि॒ऽप॒ञ्चा॒शः । क्री॒ळ॒ति॒ । व्रातः॑ । ए॒षा॒म् । दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा ।
    उ॒ग्रस्य॑ । चि॒त् । म॒न्यवे॑ । न । न॒म॒न्ते॒ । राजा॑ । चि॒त् । ए॒भ्यः॒ । नमः॑ । इत् । कृ॒णो॒ति॒ ॥

    त्रिऽपञ्चाशः । क्रीळति । व्रातः । एषाम् । देवःऽइव । सविता । सत्यऽधर्मा ।
    उग्रस्य । चित् । मन्यवे । न । नमन्ते । राजा । चित् । एभ्यः । नमः । इत् । कृणोति ॥

    tri-pañcāśáḥ ǀ krīḷati ǀ vrā́taḥ ǀ eṣām ǀ deváḥ-iva ǀ savitā́ ǀ satyá-dharmā ǀ
    ugrásya ǀ cit ǀ manyáve ǀ ná ǀ namante ǀ rā́jā ǀ cit ǀ ebhyaḥ ǀ námaḥ ǀ ít ǀ kṛṇoti ǁ

    tri-pañcāśaḥ ǀ krīḷati ǀ vrātaḥ ǀ eṣām ǀ devaḥ-iva ǀ savitā ǀ satya-dharmā ǀ
    ugrasya ǀ cit ǀ manyave ǀ na ǀ namante ǀ rājā ǀ cit ǀ ebhyaḥ ǀ namaḥ ǀ it ǀ kṛṇoti ǁ

    10.34.8 Aṣṭaka 7.8.4.3Anuvāka 10.3.52

  9. Ṛk 9

    नी॒चा व॑र्तंत उ॒परि॑ स्फुरंत्यह॒स्तासो॒ हस्त॑वंतं सहंते ।
    दि॒व्या अंगा॑रा॒ इरि॑णे॒ न्यु॑प्ताः शी॒ताः संतो॒ हृद॑यं॒ निर्द॑हंति ॥

    नीचा वर्तन्त उपरि स्फुरन्त्य् अहस्तासो हस्तवन्तं सहन्ते |
    दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर् दहन्ति ||

    nīcā́ vartanta upári sphurantyahastā́so hástavantam sahante ǀ
    divyā́ áṅgārā íriṇe nyúptāḥ śītā́ḥ sánto hṛ́dayam nírdahanti ǁ

    nīcā vartanta upari sphuranty ahastāso hastavantaṃ sahante |
    divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nir dahanti ||

    नी॒चा । व॒र्त॒न्ते॒ । उ॒परि॑ । स्फु॒र॒न्ति॒ । अ॒ह॒स्तासः॑ । हस्त॑ऽवन्तम् । स॒ह॒न्ते॒ ।
    दि॒व्याः । अङ्गा॑राः । इरि॑णे । निऽउ॑प्ताः । शी॒ताः । सन्तः॑ । हृद॑यम् । निः । द॒ह॒न्ति॒ ॥

    नीचा । वर्तन्ते । उपरि । स्फुरन्ति । अहस्तासः । हस्तऽवन्तम् । सहन्ते ।
    दिव्याः । अङ्गाराः । इरिणे । निऽउप्ताः । शीताः । सन्तः । हृदयम् । निः । दहन्ति ॥

    nīcā́ ǀ vartante ǀ upári ǀ sphuranti ǀ ahastā́saḥ ǀ hásta-vantam ǀ sahante ǀ
    divyā́ḥ ǀ áṅgārāḥ ǀ íriṇe ǀ ní-uptāḥ ǀ śītā́ḥ ǀ sántaḥ ǀ hṛ́dayam ǀ níḥ ǀ dahanti ǁ

    nīcā ǀ vartante ǀ upari ǀ sphuranti ǀ ahastāsaḥ ǀ hasta-vantam ǀ sahante ǀ
    divyāḥ ǀ aṅgārāḥ ǀ iriṇe ǀ ni-uptāḥ ǀ śītāḥ ǀ santaḥ ǀ hṛdayam ǀ niḥ ǀ dahanti ǁ

    10.34.9 Aṣṭaka 7.8.4.4Anuvāka 10.3.53

  10. Ṛk 10

    जा॒या त॑प्यते कित॒वस्य॑ ही॒ना मा॒ता पु॒त्रस्य॒ चर॑तः॒ क्व॑ स्वित् ।
    ऋ॒णा॒वा बिभ्य॒द्धन॑मि॒च्छमा॑नो॒ऽन्येषा॒मस्त॒मुप॒ नक्त॑मेति ॥

    जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् |
    ऋणावा बिभ्यद् धनम् इच्छमानो ऽन्येषाम् अस्तम् उप नक्तम् एति ||

    jāyā́ tapyate kitavásya hīnā́ mātā́ putrásya cárataḥ kvá svit ǀ
    ṛṇāvā́ bíbhyaddhánamicchámāno’nyéṣāmástamúpa náktameti ǁ

    jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit |
    ṛṇāvā bibhyad dhanam icchamāno 'nyeṣām astam upa naktam eti ||

    जा॒या । त॒प्य॒ते॒ । कि॒त॒वस्य॑ । ही॒ना । मा॒ता । पु॒त्रस्य॑ । चर॑तः । क्व॑ । स्वि॒त् ।
    ऋ॒ण॒ऽवा । बिभ्य॑त् । धन॑म् । इ॒च्छमा॑नः । अ॒न्येषा॑म् । अस्त॑म् । उप॑ । नक्त॑म् । ए॒ति॒ ॥

    जाया । तप्यते । कितवस्य । हीना । माता । पुत्रस्य । चरतः । क्व । स्वित् ।
    ऋणऽवा । बिभ्यत् । धनम् । इच्छमानः । अन्येषाम् । अस्तम् । उप । नक्तम् । एति ॥

    jāyā́ ǀ tapyate ǀ kitavásya ǀ hīnā́ ǀ mātā́ ǀ putrásya ǀ cárataḥ ǀ kvá ǀ svit ǀ
    ṛṇa-vā́ ǀ bíbhyat ǀ dhánam ǀ icchámānaḥ ǀ anyéṣām ǀ ástam ǀ úpa ǀ náktam ǀ eti ǁ

    jāyā ǀ tapyate ǀ kitavasya ǀ hīnā ǀ mātā ǀ putrasya ǀ carataḥ ǀ kva ǀ svit ǀ
    ṛṇa-vā ǀ bibhyat ǀ dhanam ǀ icchamānaḥ ǀ anyeṣām ǀ astam ǀ upa ǀ naktam ǀ eti ǁ

    10.34.10 Aṣṭaka 7.8.4.5Anuvāka 10.3.54

  11. Ṛk 11

    स्त्रियं॑ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां॑ जा॒यां सुकृ॑तं च॒ योनिं॑ ।
    पू॒र्वा॒ह्णे अश्वा॑न्युयु॒जे हि ब॒भ्रून्त्सो अ॒ग्नेरंते॑ वृष॒लः प॑पाद ॥

    स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् |
    पूर्वाह्णे अश्वान् युयुजे हि बभ्रून् सो अग्नेर् अन्ते वृषलः पपाद ||

    stríyam dṛṣṭvā́ya kitavám tatāpānyéṣām jāyā́m súkṛtam ca yónim ǀ
    pūrvāhṇé áśvānyuyujé hí babhrū́ntsó agnéránte vṛṣaláḥ papāda ǁ

    striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃ sukṛtaṃ ca yonim |
    pūrvāhṇe aśvān yuyuje hi babhrūn so agner ante vṛṣalaḥ papāda ||

    स्त्रिय॑म् । दृ॒ष्ट्वाय॑ । कि॒त॒वम् । त॒ता॒प॒ । अ॒न्येषा॑म् । जा॒याम् । सुऽकृ॑तम् । च॒ । योनि॑म् ।
    पू॒र्वा॒ह्णे । अश्वा॑न् । यु॒यु॒जे । हि । ब॒भ्रून् । सः । अ॒ग्नेः । अन्ते॑ । वृ॒ष॒लः । प॒पा॒द॒ ॥

    स्त्रियम् । दृष्ट्वाय । कितवम् । तताप । अन्येषाम् । जायाम् । सुऽकृतम् । च । योनिम् ।
    पूर्वाह्णे । अश्वान् । युयुजे । हि । बभ्रून् । सः । अग्नेः । अन्ते । वृषलः । पपाद ॥

    stríyam ǀ dṛṣṭvā́ya ǀ kitavám ǀ tatāpa ǀ anyéṣām ǀ jāyā́m ǀ sú-kṛtam ǀ ca ǀ yónim ǀ
    pūrvāhṇé ǀ áśvān ǀ yuyujé ǀ hí ǀ babhrū́n ǀ sáḥ ǀ agnéḥ ǀ ánte ǀ vṛṣaláḥ ǀ papāda ǁ

    striyam ǀ dṛṣṭvāya ǀ kitavam ǀ tatāpa ǀ anyeṣām ǀ jāyām ǀ su-kṛtam ǀ ca ǀ yonim ǀ
    pūrvāhṇe ǀ aśvān ǀ yuyuje ǀ hi ǀ babhrūn ǀ saḥ ǀ agneḥ ǀ ante ǀ vṛṣalaḥ ǀ papāda ǁ

    10.34.11 Aṣṭaka 7.8.5.1Anuvāka 10.3.55

  12. Ṛk 12

    यो वः॑ सेना॒नीर्म॑ह॒तो ग॒णस्य॒ राजा॒ व्रात॑स्य प्रथ॒मो ब॒भूव॑ ।
    तस्मै॑ कृणोमि॒ न धना॑ रुणध्मि॒ दशा॒हं प्राची॒स्तदृ॒तं व॑दामि ॥

    यो वः सेनानीर् महतो गणस्य राजा व्रातस्य प्रथमो बभूव |
    तस्मै कृणोमि न धना रुणध्मि दशाहम् प्राचीस् तद् ऋतं वदामि ||

    yó vaḥ senānī́rmaható gaṇásya rā́jā vrā́tasya prathamó babhū́va ǀ
    tásmai kṛṇomi ná dhánā ruṇadhmi dáśāhám prā́cīstádṛtám vadāmi ǁ

    yo vaḥ senānīr mahato gaṇasya rājā vrātasya prathamo babhūva |
    tasmai kṛṇomi na dhanā ruṇadhmi daśāham prācīs tad ṛtaṃ vadāmi ||

    यः । वः॒ । से॒ना॒ऽनीः । म॒ह॒तः । ग॒णस्य॑ । राजा॑ । व्रात॑स्य । प्र॒थ॒मः । ब॒भूव॑ ।
    तस्मै॑ । कृ॒णो॒मि॒ । न । धना॑ । रु॒ण॒ध्मि॒ । दश॑ । अ॒हम् । प्राचीः॑ । तत् । ऋ॒तम् । व॒दा॒मि॒ ॥

    यः । वः । सेनाऽनीः । महतः । गणस्य । राजा । व्रातस्य । प्रथमः । बभूव ।
    तस्मै । कृणोमि । न । धना । रुणध्मि । दश । अहम् । प्राचीः । तत् । ऋतम् । वदामि ॥

    yáḥ ǀ vaḥ ǀ senā-nī́ḥ ǀ mahatáḥ ǀ gaṇásya ǀ rā́jā ǀ vrā́tasya ǀ prathamáḥ ǀ babhū́va ǀ
    tásmai ǀ kṛṇomi ǀ ná ǀ dhánā ǀ ruṇadhmi ǀ dáśa ǀ ahám ǀ prā́cīḥ ǀ tát ǀ ṛtám ǀ vadāmi ǁ

    yaḥ ǀ vaḥ ǀ senā-nīḥ ǀ mahataḥ ǀ gaṇasya ǀ rājā ǀ vrātasya ǀ prathamaḥ ǀ babhūva ǀ
    tasmai ǀ kṛṇomi ǀ na ǀ dhanā ǀ ruṇadhmi ǀ daśa ǀ aham ǀ prācīḥ ǀ tat ǀ ṛtam ǀ vadāmi ǁ

    10.34.12 Aṣṭaka 7.8.5.2Anuvāka 10.3.56

  13. Ṛk 13

    अ॒क्षैर्मा दी॑व्यः कृ॒षिमित्कृ॑षस्व वि॒त्ते र॑मस्व ब॒हु मन्य॑मानः ।
    तत्र॒ गावः॑ कितव॒ तत्र॑ जा॒या तन्मे॒ वि च॑ष्टे सवि॒तायम॒र्यः ॥

    अक्षैर् मा दीव्यः कृषिम् इत् कृषस्व वित्ते रमस्व बहु मन्यमानः |
    तत्र गावः कितव तत्र जाया तन् मे वि चष्टे सवितायम् अर्यः ||

    akṣáirmā́ dīvyaḥ kṛṣímítkṛṣasva vitté ramasva bahú mányamānaḥ ǀ
    tátra gā́vaḥ kitava tátra jāyā́ tánme ví caṣṭe savitā́yámaryáḥ ǁ

    akṣair mā dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ |
    tatra gāvaḥ kitava tatra jāyā tan me vi caṣṭe savitāyam aryaḥ ||

    अ॒क्षैः । मा । दी॒व्यः॒ । कृ॒षिम् । इत् । कृ॒ष॒स्व॒ । वि॒त्ते । र॒म॒स्व॒ । ब॒हु । मन्य॑मानः ।
    तत्र॑ । गावः॑ । कि॒त॒व॒ । तत्र॑ । जा॒या । तत् । मे॒ । वि । च॒ष्टे॒ । स॒वि॒ता । अ॒यम् । अ॒र्यः ॥

    अक्षैः । मा । दीव्यः । कृषिम् । इत् । कृषस्व । वित्ते । रमस्व । बहु । मन्यमानः ।
    तत्र । गावः । कितव । तत्र । जाया । तत् । मे । वि । चष्टे । सविता । अयम् । अर्यः ॥

    akṣáiḥ ǀ mā́ ǀ dīvyaḥ ǀ kṛṣím ǀ ít ǀ kṛṣasva ǀ vitté ǀ ramasva ǀ bahú ǀ mányamānaḥ ǀ
    tátra ǀ gā́vaḥ ǀ kitava ǀ tátra ǀ jāyā́ ǀ tát ǀ me ǀ ví ǀ caṣṭe ǀ savitā́ ǀ ayám ǀ aryáḥ ǁ

    akṣaiḥ ǀ mā ǀ dīvyaḥ ǀ kṛṣim ǀ it ǀ kṛṣasva ǀ vitte ǀ ramasva ǀ bahu ǀ manyamānaḥ ǀ
    tatra ǀ gāvaḥ ǀ kitava ǀ tatra ǀ jāyā ǀ tat ǀ me ǀ vi ǀ caṣṭe ǀ savitā ǀ ayam ǀ aryaḥ ǁ

    10.34.13 Aṣṭaka 7.8.5.3Anuvāka 10.3.57

  14. Ṛk 14

    मि॒त्रं कृ॑णुध्वं॒ खलु॑ मृ॒ळता॑ नो॒ मा नो॑ घो॒रेण॑ चरता॒भि धृ॒ष्णु ।
    नि वो॒ नु म॒न्युर्वि॑शता॒मरा॑तिर॒न्यो ब॑भ्रू॒णां प्रसि॑तौ॒ न्व॑स्तु ॥

    मित्रं कृणुध्वं खलु मृऌअता नो मा नो घोरेण चरताभि धृष्णु |
    नि वो नु मन्युर् विशताम् अरातिर् अन्यो बभ्रूणाम् प्रसितौ न्व् अस्तु ||

    mitrám kṛṇudhvam khálu mṛḷátā no mā́ no ghoréṇa caratābhí dhṛṣṇú ǀ
    ní vo nú manyúrviśatāmárātiranyó babhrūṇā́m prásitau nvástu ǁ

    mitraṃ kṛṇudhvaṃ khalu mṛḷatā no mā no ghoreṇa caratābhi dhṛṣṇu |
    ni vo nu manyur viśatām arātir anyo babhrūṇām prasitau nv astu ||

    मि॒त्रम् । कृ॒णु॒ध्व॒म् । खलु॑ । मृ॒ळत॑ । नः॒ । मा । नः॒ । घो॒रेण॑ । च॒र॒त॒ । अ॒भि । धृ॒ष्णु ।
    नि । वः॒ । नु । म॒न्युः । वि॒श॒ता॒म् । अरा॑तिः । अ॒न्यः । ब॒भ्रू॒णाम् । प्रऽसि॑तौ । नु । अ॒स्तु॒ ॥

    मित्रम् । कृणुध्वम् । खलु । मृळत । नः । मा । नः । घोरेण । चरत । अभि । धृष्णु ।
    नि । वः । नु । मन्युः । विशताम् । अरातिः । अन्यः । बभ्रूणाम् । प्रऽसितौ । नु । अस्तु ॥

    mitrám ǀ kṛṇudhvam ǀ khálu ǀ mṛḷáta ǀ naḥ ǀ mā́ ǀ naḥ ǀ ghoréṇa ǀ carata ǀ abhí ǀ dhṛṣṇú ǀ
    ní ǀ vaḥ ǀ nú ǀ manyúḥ ǀ viśatām ǀ árātiḥ ǀ anyáḥ ǀ babhrūṇā́m ǀ prá-sitau ǀ nú ǀ astu ǁ

    mitram ǀ kṛṇudhvam ǀ khalu ǀ mṛḷata ǀ naḥ ǀ mā ǀ naḥ ǀ ghoreṇa ǀ carata ǀ abhi ǀ dhṛṣṇu ǀ
    ni ǀ vaḥ ǀ nu ǀ manyuḥ ǀ viśatām ǀ arātiḥ ǀ anyaḥ ǀ babhrūṇām ǀ pra-sitau ǀ nu ǀ astu ǁ

    10.34.14 Aṣṭaka 7.8.5.4Anuvāka 10.3.58

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.34 · Akṣakṛṣipraśaṃsā · Akṣakitavanindā

Interpretations

Ralph T. H. Griffith

Ṛk 1

SPRUNG from tall trees on windy heights, these rollers transport me as they turn upon the table. Dearer to me the die that never slumbers than the deep draught of Mujavan's own Soma.

Ṛk 2

She never vexed me nor was angry with me, but to my friends and me was ever gracious. For the die's sake, whose single point is final, mine own devoted wife I alienated.

Ṛk 3

My wife holds me aloof, her mother hates me: the wretched man finds none to give him comfort. As of a costly horse grown old and feeble, I find not any profit of the gamester.

Ṛk 4

Others caress the wife of him whose riches the die hath coveted, that rapid courser: Of him speak father, mother, brothers saying, We know him not: bind him and take him with you.

Ṛk 5

When I resolve to play with these no longer, my friends depart from me and leave me lonely. When the brown dice, thrown on the board, have rattled, like a fond girl I seek the place of meeting.

Ṛk 6

The gamester seeks the gambling-house, and wonders, his body all afire, Shall I be lucky? Still do the dice extend his eager longing, staking his gains against his adversary.

Ṛk 7

Dice, verily, are armed with goads and driving-hooks, deceiving and tormenting, causing grievous woe. They give frail gifts and then destroy the man who wins, thickly anointed with the player's fairest good.

Ṛk 8

Merrily sports their troop, the three-and-fifty, like Savitar the God whose ways are faithful. They bend not even to the mighty's anger: the King himself pays homage and reveres them.

Ṛk 9

Downward they roll, and then spring quickly upward, and, handless, force the man with hands to serve them. Cast on the board, like lumps of magic charcoal, though cold themselves they burn the heart to ashes.

Ṛk 10

The gambler's wife is left forlorn and wretched: the mother mourns the son who wanders homeless. In constant fear, in debt, and seeking riches, he goes by night unto the home of others.

Ṛk 11

Sad is the gambler when he sees a matron, another's wife, and his well-ordered dwelling. He yokes the brown steeds in the early morning, and when the fire is cold sinks down an outcast.

Ṛk 12

To the great captain of your mighty army, who hath become the host's imperial leader, To him I show my ten extended fingers: I speak the truth. No wealth am I withholding.

Ṛk 13

Play not with dice: no, cultivate thy corn-land. Enjoy the gain, and deem that wealth sufficient. There are thy cattle there thy wife, O gambler. So this good Savitar himself hath told me.