Ṛgveda · Maṇḍala 10 · Sūkta 34
Ṛk 10.34.5
Saṃhitā
यदा॒दीध्ये॒ न द॑विषाण्येभिः परा॒यद्भ्योऽव॑ हीये॒ सखि॑भ्यः ।
न्यु॑प्ताश्च ब॒भ्रवो॒ वाच॒मक्र॑तँ॒ एमीदे॑षां निष्कृ॒तं जा॒रिणी॑व ॥
यद् आदीध्ये न दविषाण्य् एभिः परायद्भ्यो ऽव हीये सखिभ्यः |
न्युप्ताश् च बभ्रवो वाचम् अक्रतं एमीद् एषां निष्कृतं जारिणीव ||
yádādī́dhye ná daviṣāṇyebhiḥ parāyádbhyó’va hīye sákhibhyaḥ ǀ
nyúptāśca babhrávo vā́camákratam̐ émī́deṣām niṣkṛtám jāríṇīva ǁ
yad ādīdhye na daviṣāṇy ebhiḥ parāyadbhyo 'va hīye sakhibhyaḥ |
nyuptāś ca babhravo vācam akrataṃ emīd eṣāṃ niṣkṛtaṃ jāriṇīva ||
Padapāṭha
यत् । आ॒ऽदीध्ये॑ । न । द॒वि॒षा॒णि॒ । ए॒भिः॒ । प॒रा॒यत्ऽभ्यः॑ । अव॑ । ही॒ये॒ । सखि॑ऽभ्यः ।
निऽउ॑प्ताः । च॒ । ब॒भ्रवः॑ । वाच॑म् । अक्र॑त । एमि॑ । इत् । ए॒षा॒म् । निः॒ऽकृ॒तम् । जा॒रिणी॑ऽइव ॥
यत् । आऽदीध्ये । न । दविषाणि । एभिः । परायत्ऽभ्यः । अव । हीये । सखिऽभ्यः ।
निऽउप्ताः । च । बभ्रवः । वाचम् । अक्रत । एमि । इत् । एषाम् । निःऽकृतम् । जारिणीऽइव ॥
yát ǀ ā-dī́dhye ǀ ná ǀ daviṣāṇi ǀ ebhiḥ ǀ parāyát-bhyaḥ ǀ áva ǀ hīye ǀ sákhi-bhyaḥ ǀ
ní-uptāḥ ǀ ca ǀ babhrávaḥ ǀ vā́cam ǀ ákrata ǀ émi ǀ ít ǀ eṣām ǀ niḥ-kṛtám ǀ jāríṇī-iva ǁ
yat ǀ ā-dīdhye ǀ na ǀ daviṣāṇi ǀ ebhiḥ ǀ parāyat-bhyaḥ ǀ ava ǀ hīye ǀ sakhi-bhyaḥ ǀ
ni-uptāḥ ǀ ca ǀ babhravaḥ ǀ vācam ǀ akrata ǀ emi ǀ it ǀ eṣām ǀ niḥ-kṛtam ǀ jāriṇī-iva ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.034.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.03.05
- Maṇḍala · Anuvāka · Ṛk
- 10.03.049
- Devatā देवता
- 1, 7, 9, 12, 13: Akṣakṛṣipraśaṃsā; 2-6, 8, 10, 11, 14: Akṣakitavanindā
- Ṛṣi ऋषि
- Kavaṣa Ailūṣa Or Akṣa Maujavat
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.