Ṛgveda · Maṇḍala 10 · Sūkta 34
Ṛk 10.34.11
Saṃhitā
स्त्रियं॑ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां॑ जा॒यां सुकृ॑तं च॒ योनिं॑ ।
पू॒र्वा॒ह्णे अश्वा॑न्युयु॒जे हि ब॒भ्रून्त्सो अ॒ग्नेरंते॑ वृष॒लः प॑पाद ॥
स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् |
पूर्वाह्णे अश्वान् युयुजे हि बभ्रून् सो अग्नेर् अन्ते वृषलः पपाद ||
stríyam dṛṣṭvā́ya kitavám tatāpānyéṣām jāyā́m súkṛtam ca yónim ǀ
pūrvāhṇé áśvānyuyujé hí babhrū́ntsó agnéránte vṛṣaláḥ papāda ǁ
striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃ sukṛtaṃ ca yonim |
pūrvāhṇe aśvān yuyuje hi babhrūn so agner ante vṛṣalaḥ papāda ||
Padapāṭha
स्त्रिय॑म् । दृ॒ष्ट्वाय॑ । कि॒त॒वम् । त॒ता॒प॒ । अ॒न्येषा॑म् । जा॒याम् । सुऽकृ॑तम् । च॒ । योनि॑म् ।
पू॒र्वा॒ह्णे । अश्वा॑न् । यु॒यु॒जे । हि । ब॒भ्रून् । सः । अ॒ग्नेः । अन्ते॑ । वृ॒ष॒लः । प॒पा॒द॒ ॥
स्त्रियम् । दृष्ट्वाय । कितवम् । तताप । अन्येषाम् । जायाम् । सुऽकृतम् । च । योनिम् ।
पूर्वाह्णे । अश्वान् । युयुजे । हि । बभ्रून् । सः । अग्नेः । अन्ते । वृषलः । पपाद ॥
stríyam ǀ dṛṣṭvā́ya ǀ kitavám ǀ tatāpa ǀ anyéṣām ǀ jāyā́m ǀ sú-kṛtam ǀ ca ǀ yónim ǀ
pūrvāhṇé ǀ áśvān ǀ yuyujé ǀ hí ǀ babhrū́n ǀ sáḥ ǀ agnéḥ ǀ ánte ǀ vṛṣaláḥ ǀ papāda ǁ
striyam ǀ dṛṣṭvāya ǀ kitavam ǀ tatāpa ǀ anyeṣām ǀ jāyām ǀ su-kṛtam ǀ ca ǀ yonim ǀ
pūrvāhṇe ǀ aśvān ǀ yuyuje ǀ hi ǀ babhrūn ǀ saḥ ǀ agneḥ ǀ ante ǀ vṛṣalaḥ ǀ papāda ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.034.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.05.01
- Maṇḍala · Anuvāka · Ṛk
- 10.03.055
- Devatā देवता
- 1, 7, 9, 12, 13: Akṣakṛṣipraśaṃsā; 2-6, 8, 10, 11, 14: Akṣakitavanindā
- Ṛṣi ऋषि
- Kavaṣa Ailūṣa Or Akṣa Maujavat
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.