Sūkta 99
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vamra Vaikhānasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (2, 5, 9, 12); nicṛttriṣṭup (1, 7, 11); virāṭtrisṭup (3, 6); svarāḍārcītriṣṭup (4); paṅktiḥ (8); pādanicṛttriṣṭup (10)
2nd set of styles triṣṭubh
-
Ṛk 1
कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ ।
कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥कं नश् चित्रम् इषण्यसि चिकित्वान् पृथुग्मानं वाश्रं वावृधध्यै |
कत् तस्य दातु शवसो व्युष्टौ तक्षद् वज्रं वृत्रतुरम् अपिन्वत् ||kám naścitrámiṣaṇyasi cikitvā́npṛthugmā́nam vāśrám vāvṛdhádhyai ǀ
káttásya dā́tu śávaso vyúṣṭau tákṣadvájram vṛtratúramápinvat ǁkaṃ naś citram iṣaṇyasi cikitvān pṛthugmānaṃ vāśraṃ vāvṛdhadhyai |
kat tasya dātu śavaso vyuṣṭau takṣad vajraṃ vṛtraturam apinvat ||कम् । नः॒ । चि॒त्रम् । इ॒ष॒ण्य॒सि॒ । चि॒कि॒त्वान् । पृ॒थु॒ऽग्मान॑म् । वा॒श्रम् । व॒वृ॒धध्यै॑ ।
कत् । तस्य॑ । दातु॑ । शव॑सः । विऽउ॑ष्टौ । तक्ष॑त् । वज्र॑म् । वृ॒त्र॒ऽतुर॑म् । अपि॑न्वत् ॥कम् । नः । चित्रम् । इषण्यसि । चिकित्वान् । पृथुऽग्मानम् । वाश्रम् । ववृधध्यै ।
कत् । तस्य । दातु । शवसः । विऽउष्टौ । तक्षत् । वज्रम् । वृत्रऽतुरम् । अपिन्वत् ॥kám ǀ naḥ ǀ citrám ǀ iṣaṇyasi ǀ cikitvā́n ǀ pṛthu-gmā́nam ǀ vāśrám ǀ vavṛdhádhyai ǀ
kát ǀ tásya ǀ dā́tu ǀ śávasaḥ ǀ ví-uṣṭau ǀ tákṣat ǀ vájram ǀ vṛtra-túram ǀ ápinvat ǁkam ǀ naḥ ǀ citram ǀ iṣaṇyasi ǀ cikitvān ǀ pṛthu-gmānam ǀ vāśram ǀ vavṛdhadhyai ǀ
kat ǀ tasya ǀ dātu ǀ śavasaḥ ǀ vi-uṣṭau ǀ takṣat ǀ vajram ǀ vṛtra-turam ǀ apinvat ǁ10.99.1 Aṣṭaka 8.5.14.1Anuvāka 10.8.126
-
Ṛk 2
स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद ।
स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ॥स हि द्युता विद्युता वेति साम पृथुं योनिम् असुरत्वा ससाद |
स सनीळेभिः प्रसहानो अस्य भ्रातुर् न ऋते सप्तथस्य मायाः ||sá hí dyutā́ vidyútā véti sā́ma pṛthúm yónimasuratvā́ sasāda ǀ
sá sánīḷebhiḥ prasahānó asya bhrā́turná ṛté saptáthasya māyā́ḥ ǁsa hi dyutā vidyutā veti sāma pṛthuṃ yonim asuratvā sasāda |
sa sanīḷebhiḥ prasahāno asya bhrātur na ṛte saptathasya māyāḥ ||सः । हि । द्यु॒ता । वि॒ऽद्युता॑ । वेति॑ । साम॑ । पृ॒थुम् । योनि॑म् । अ॒सु॒र॒ऽत्वा । आ । स॒सा॒द॒ ।
सः । सऽनी॑ळेभिः । प्र॒ऽस॒हा॒नः । अ॒स्य॒ । भ्रातुः॑ । न । ऋ॒ते । स॒प्तथ॑स्य । मा॒याः ॥सः । हि । द्युता । विऽद्युता । वेति । साम । पृथुम् । योनिम् । असुरऽत्वा । आ । ससाद ।
सः । सऽनीळेभिः । प्रऽसहानः । अस्य । भ्रातुः । न । ऋते । सप्तथस्य । मायाः ॥sáḥ ǀ hí ǀ dyutā́ ǀ vi-dyútā ǀ véti ǀ sā́ma ǀ pṛthúm ǀ yónim ǀ asura-tvā́ ǀ ā́ ǀ sasāda ǀ
sáḥ ǀ sá-nīḷebhiḥ ǀ pra-sahānáḥ ǀ asya ǀ bhrā́tuḥ ǀ ná ǀ ṛté ǀ saptáthasya ǀ māyā́ḥ ǁsaḥ ǀ hi ǀ dyutā ǀ vi-dyutā ǀ veti ǀ sāma ǀ pṛthum ǀ yonim ǀ asura-tvā ǀ ā ǀ sasāda ǀ
saḥ ǀ sa-nīḷebhiḥ ǀ pra-sahānaḥ ǀ asya ǀ bhrātuḥ ǀ na ǀ ṛte ǀ saptathasya ǀ māyāḥ ǁ10.99.2 Aṣṭaka 8.5.14.2Anuvāka 10.8.127
-
Ṛk 3
स वाजं॒ याताप॑दुष्पदा॒ यन्त्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् ।
अ॒न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नंछि॒श्नदे॑वाँ अ॒भि वर्प॑सा॒ भूत् ॥स वाजं यातापदुष्पदा यन् स्वर्षाता परि षदत् सनिष्यन् |
अनर्वा यच् छतदुरस्य वेदो घ्नञ् छिश्नदेवां अभि वर्पसा भूत् ||sá vā́jam yā́tā́paduṣpadā yántsvárṣātā pári ṣadatsaniṣyán ǀ
anarvā́ yácchatádurasya védo ghnáñchiśnádevām̐ abhí várpasā bhū́t ǁsa vājaṃ yātāpaduṣpadā yan svarṣātā pari ṣadat saniṣyan |
anarvā yac chatadurasya vedo ghnañ chiśnadevāṃ abhi varpasā bhūt ||सः । वाज॑म् । याता॑ । अप॑दुःऽपदा । यन् । स्वः॑ऽसाता । परि॑ । स॒द॒त् । स॒नि॒ष्यन् ।
अ॒न॒र्वा । यत् । श॒तऽदु॑रस्य । वेदः॑ । घ्नन् । शि॒श्नऽदे॑वान् । अ॒भि । वर्प॑सा । भूत् ॥सः । वाजम् । याता । अपदुःऽपदा । यन् । स्वःऽसाता । परि । सदत् । सनिष्यन् ।
अनर्वा । यत् । शतऽदुरस्य । वेदः । घ्नन् । शिश्नऽदेवान् । अभि । वर्पसा । भूत् ॥sáḥ ǀ vā́jam ǀ yā́tā ǀ ápaduḥ-padā ǀ yán ǀ sváḥ-sātā ǀ pári ǀ sadat ǀ saniṣyán ǀ
anarvā́ ǀ yát ǀ śatá-durasya ǀ védaḥ ǀ ghnán ǀ śiśná-devān ǀ abhí ǀ várpasā ǀ bhū́t ǁsaḥ ǀ vājam ǀ yātā ǀ apaduḥ-padā ǀ yan ǀ svaḥ-sātā ǀ pari ǀ sadat ǀ saniṣyan ǀ
anarvā ǀ yat ǀ śata-durasya ǀ vedaḥ ǀ ghnan ǀ śiśna-devān ǀ abhi ǀ varpasā ǀ bhūt ǁ10.99.3 Aṣṭaka 8.5.14.3Anuvāka 10.8.128
-
Ṛk 4
स य॒ह्व्यो॒३॒॑ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या॑सु॒ सस्रिः॑ ।
अ॒पादो॒ यत्र॒ युज्या॑सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ॥स यह्व्यो ऽवनीर् गोष्व् अर्वा जुहोति प्रधन्यासु सस्रिः |
अपादो यत्र युज्यासो ऽरथा द्रोण्यश्वास ईरते घृतं वाः ||sá yahvyó’vánīrgóṣvárvā́ juhoti pradhanyā́su sásriḥ ǀ
apā́do yátra yújyāso’rathā́ droṇyáśvāsa ī́rate ghṛtám vā́ḥ ǁsa yahvyo 'vanīr goṣv arvā juhoti pradhanyāsu sasriḥ |
apādo yatra yujyāso 'rathā droṇyaśvāsa īrate ghṛtaṃ vāḥ ||सः । य॒ह्व्यः॑ । अ॒वनीः॑ । गोषु॑ । अर्वा॑ । आ । जु॒हो॒ति॒ । प्र॒ऽध॒न्या॑सु । सस्रिः॑ ।
अ॒पादः॑ । यत्र॑ । युज्या॑सः । अ॒र॒थाः । द्रो॒णिऽअ॑श्वासः । ईर॑ते । घृ॒तम् । वारिति॒ वाः ॥सः । यह्व्यः । अवनीः । गोषु । अर्वा । आ । जुहोति । प्रऽधन्यासु । सस्रिः ।
अपादः । यत्र । युज्यासः । अरथाः । द्रोणिऽअश्वासः । ईरते । घृतम् । वारिति वाः ॥sáḥ ǀ yahvyáḥ ǀ avánīḥ ǀ góṣu ǀ árvā ǀ ā́ ǀ juhoti ǀ pra-dhanyā́su ǀ sásriḥ ǀ
apā́daḥ ǀ yátra ǀ yújyāsaḥ ǀ arathā́ḥ ǀ droṇí-aśvāsaḥ ǀ ī́rate ǀ ghṛtám ǀ vā́ríti vā́ḥ ǁsaḥ ǀ yahvyaḥ ǀ avanīḥ ǀ goṣu ǀ arvā ǀ ā ǀ juhoti ǀ pra-dhanyāsu ǀ sasriḥ ǀ
apādaḥ ǀ yatra ǀ yujyāsaḥ ǀ arathāḥ ǀ droṇi-aśvāsaḥ ǀ īrate ǀ ghṛtam ǀ vāriti vāḥ ǁ10.99.4 Aṣṭaka 8.5.14.4Anuvāka 10.8.129
-
Ṛk 5
स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑मा॒रेअ॑वद्य॒ आगा॑त् ।
व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री॒ अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ॥स रुद्रेभिर् अशस्तवार ऋभ्वा हित्वी गयम् आरेअवद्य आगात् |
वम्रस्य मन्ये मिथुना विवव्री अन्नम् अभीत्यारोदयन् मुषायन् ||sá rudrébhiráśastavāra ṛ́bhvā hitvī́ gáyamāréavadya ā́gāt ǀ
vamrásya manye mithunā́ vívavrī ánnamabhī́tyārodayanmuṣāyán ǁsa rudrebhir aśastavāra ṛbhvā hitvī gayam āreavadya āgāt |
vamrasya manye mithunā vivavrī annam abhītyārodayan muṣāyan ||सः । रु॒द्रेभिः॑ । अश॑स्तऽवारः । ऋभ्वा॑ । हि॒त्वी । गय॑म् । आ॒रेऽअ॑वद्यः । आ । अ॒गा॒त् ।
व॒म्रस्य॑ । म॒न्ये॒ । मि॒थु॒ना । विव॑व्री॒ इति॒ विऽव॑व्री । अन्न॑म् । अ॒भि॒ऽइत्य॑ । अ॒रो॒द॒य॒त् । मु॒षा॒यन् ॥सः । रुद्रेभिः । अशस्तऽवारः । ऋभ्वा । हित्वी । गयम् । आरेऽअवद्यः । आ । अगात् ।
वम्रस्य । मन्ये । मिथुना । विवव्री इति विऽवव्री । अन्नम् । अभिऽइत्य । अरोदयत् । मुषायन् ॥sáḥ ǀ rudrébhiḥ ǀ áśasta-vāraḥ ǀ ṛ́bhvā ǀ hitvī́ ǀ gáyam ǀ āré-avadyaḥ ǀ ā́ ǀ agāt ǀ
vamrásya ǀ manye ǀ mithunā́ ǀ vívavrī íti ví-vavrī ǀ ánnam ǀ abhi-ítya ǀ arodayat ǀ muṣāyán ǁsaḥ ǀ rudrebhiḥ ǀ aśasta-vāraḥ ǀ ṛbhvā ǀ hitvī ǀ gayam ǀ āre-avadyaḥ ǀ ā ǀ agāt ǀ
vamrasya ǀ manye ǀ mithunā ǀ vivavrī iti vi-vavrī ǀ annam ǀ abhi-itya ǀ arodayat ǀ muṣāyan ǁ10.99.5 Aṣṭaka 8.5.14.5Anuvāka 10.8.130
-
Ṛk 6
स इद्दासं॑ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् ।
अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो॑अग्रया हन् ॥स इद् दासं तुवीरवम् पतिर् दन् षऌअक्षं त्रिशीर्षाणं दमन्यत् |
अस्य त्रितो न्व् ओजसा वृधानो विपा वराहम् अयोअग्रया हन् ||sá íddā́sam tuvīrávam pátirdánṣaḷakṣám triśīrṣā́ṇam damanyat ǀ
asyá tritó nvójasā vṛdhānó vipā́ varāhámáyoagrayā han ǁsa id dāsaṃ tuvīravam patir dan ṣaḷakṣaṃ triśīrṣāṇaṃ damanyat |
asya trito nv ojasā vṛdhāno vipā varāham ayoagrayā han ||सः । इत् । दास॑म् । तु॒वि॒ऽरव॑म् । पतिः॑ । दन् । ष॒ट्ऽअ॒क्षम् । त्रि॒ऽशी॒र्षाण॑म् । द॒म॒न्य॒त् ।
अ॒स्य । त्रि॒तः । नु । ओज॑सा । वृ॒धा॒नः । वि॒पा । व॒रा॒हम् । अयः॑ऽअग्रया । ह॒न्निति॑ हन् ॥सः । इत् । दासम् । तुविऽरवम् । पतिः । दन् । षट्ऽअक्षम् । त्रिऽशीर्षाणम् । दमन्यत् ।
अस्य । त्रितः । नु । ओजसा । वृधानः । विपा । वराहम् । अयःऽअग्रया । हन्निति हन् ॥sáḥ ǀ ít ǀ dā́sam ǀ tuvi-rávam ǀ pátiḥ ǀ dán ǀ ṣaṭ-akṣám ǀ tri-śīrṣā́ṇam ǀ damanyat ǀ
asyá ǀ tritáḥ ǀ nú ǀ ójasā ǀ vṛdhānáḥ ǀ vipā́ ǀ varāhám ǀ áyaḥ-agrayā ǀ hanníti han ǁsaḥ ǀ it ǀ dāsam ǀ tuvi-ravam ǀ patiḥ ǀ dan ǀ ṣaṭ-akṣam ǀ tri-śīrṣāṇam ǀ damanyat ǀ
asya ǀ tritaḥ ǀ nu ǀ ojasā ǀ vṛdhānaḥ ǀ vipā ǀ varāham ǀ ayaḥ-agrayā ǀ hanniti han ǁ10.99.6 Aṣṭaka 8.5.14.6Anuvāka 10.8.131
-
Ṛk 7
स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा॑विषदर्शसा॒नाय॒ शरुं॑ ।
स नृत॑मो॒ नहु॑षो॒ऽस्मत्सुजा॑तः॒ पुरो॑ऽभिन॒दर्हं॑दस्यु॒हत्ये॑ ॥स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषद् अर्शसानाय शरुम् |
स नृतमो नहुषो ऽस्मत् सुजातः पुरो ऽभिनद् अर्हन् दस्युहत्ये ||sá drúhvaṇe mánuṣa ūrdhvasāná ā́ sāviṣadarśasānā́ya śárum ǀ
sá nṛ́tamo náhuṣo’smátsújātaḥ púro’bhinadárhandasyuhátye ǁsa druhvaṇe manuṣa ūrdhvasāna ā sāviṣad arśasānāya śarum |
sa nṛtamo nahuṣo 'smat sujātaḥ puro 'bhinad arhan dasyuhatye ||सः । द्रुह्व॑णे । मनु॑षे । ऊ॒र्ध्व॒सा॒नः । आ । सा॒वि॒ष॒त् । अ॒र्श॒सा॒नाय॑ । शरु॑म् ।
सः । नृऽत॑मः । नहु॑षः । अ॒स्मत् । सुऽजा॑तः । पुरः॑ । अ॒भि॒न॒त् । अर्ह॑न् । द॒स्यु॒ऽहत्ये॑ ॥सः । द्रुह्वणे । मनुषे । ऊर्ध्वसानः । आ । साविषत् । अर्शसानाय । शरुम् ।
सः । नृऽतमः । नहुषः । अस्मत् । सुऽजातः । पुरः । अभिनत् । अर्हन् । दस्युऽहत्ये ॥sáḥ ǀ drúhvaṇe ǀ mánuṣe ǀ ūrdhvasānáḥ ǀ ā́ ǀ sāviṣat ǀ arśasānā́ya ǀ śárum ǀ
sáḥ ǀ nṛ́-tamaḥ ǀ náhuṣaḥ ǀ asmát ǀ sú-jātaḥ ǀ púraḥ ǀ abhinat ǀ árhan ǀ dasyu-hátye ǁsaḥ ǀ druhvaṇe ǀ manuṣe ǀ ūrdhvasānaḥ ǀ ā ǀ sāviṣat ǀ arśasānāya ǀ śarum ǀ
saḥ ǀ nṛ-tamaḥ ǀ nahuṣaḥ ǀ asmat ǀ su-jātaḥ ǀ puraḥ ǀ abhinat ǀ arhan ǀ dasyu-hatye ǁ10.99.7 Aṣṭaka 8.5.15.1Anuvāka 10.8.132
-
Ṛk 8
सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे ।
उप॒ यत्सीद॒दिंदुं॒ शरी॑रैः श्ये॒नोऽयो॑पाष्टिर्हंति॒ दस्यू॑न् ॥सो अभ्रियो न यवस उदन्यन् क्षयाय गातुं विदन् नो अस्मे |
उप यत् सीदद् इन्दुं शरीरैः श्येनो ऽयोपाष्टिर् हन्ति दस्यून् ||só abhríyo ná yávasa udanyánkṣáyāya gātúm vidánno asmé ǀ
úpa yátsī́dadíndum śárīraiḥ śyenó’yopāṣṭirhanti dásyūn ǁso abhriyo na yavasa udanyan kṣayāya gātuṃ vidan no asme |
upa yat sīdad induṃ śarīraiḥ śyeno 'yopāṣṭir hanti dasyūn ||सः । अ॒भ्रियः॑ । न । यव॑से । उ॒द॒न्यन् । क्षया॑य । गा॒तुम् । वि॒दत् । नः॒ । अ॒स्मे इति॑ ।
उप॑ । यत् । सीद॑त् । इन्दु॑म् । शरी॑रैः । श्ये॒नः । अयः॑ऽअपाष्टिः । ह॒न्ति॒ । दस्यू॑न् ॥सः । अभ्रियः । न । यवसे । उदन्यन् । क्षयाय । गातुम् । विदत् । नः । अस्मे इति ।
उप । यत् । सीदत् । इन्दुम् । शरीरैः । श्येनः । अयःऽअपाष्टिः । हन्ति । दस्यून् ॥sáḥ ǀ abhríyaḥ ǀ ná ǀ yávase ǀ udanyán ǀ kṣáyāya ǀ gātúm ǀ vidát ǀ naḥ ǀ asmé íti ǀ
úpa ǀ yát ǀ sī́dat ǀ índum ǀ śárīraiḥ ǀ śyenáḥ ǀ áyaḥ-apāṣṭiḥ ǀ hanti ǀ dásyūn ǁsaḥ ǀ abhriyaḥ ǀ na ǀ yavase ǀ udanyan ǀ kṣayāya ǀ gātum ǀ vidat ǀ naḥ ǀ asme iti ǀ
upa ǀ yat ǀ sīdat ǀ indum ǀ śarīraiḥ ǀ śyenaḥ ǀ ayaḥ-apāṣṭiḥ ǀ hanti ǀ dasyūn ǁ10.99.8 Aṣṭaka 8.5.15.2Anuvāka 10.8.133
-
Ṛk 9
स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् ।
अ॒यं क॒विम॑नयच्छ॒स्यमा॑न॒मत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णां ॥स व्राधतः शवसानेभिर् अस्य कुत्साय शुष्णं कृपणे परादात् |
अयं कविम् अनयच् छस्यमानम् अत्कं यो अस्य सनितोत नृणाम् ||sá vrā́dhataḥ śavasānébhirasya kútsāya śúṣṇam kṛpáṇe párādāt ǀ
ayám kavímanayacchasyámānamátkam yó asya sánitotá nṛṇā́m ǁsa vrādhataḥ śavasānebhir asya kutsāya śuṣṇaṃ kṛpaṇe parādāt |
ayaṃ kavim anayac chasyamānam atkaṃ yo asya sanitota nṛṇām ||सः । व्राध॑तः । श॒व॒सा॒नेभिः॑ । अ॒स्य॒ । कुत्सा॑य । शुष्ण॑म् । कृ॒पणे॑ । परा॑ । अ॒दा॒त् ।
अ॒यम् । क॒विम् । अ॒न॒य॒त् । श॒स्यमा॑नम् । अत्क॑म् । यः । अ॒स्य॒ । सनि॑ता । उ॒त । नृ॒णाम् ॥सः । व्राधतः । शवसानेभिः । अस्य । कुत्साय । शुष्णम् । कृपणे । परा । अदात् ।
अयम् । कविम् । अनयत् । शस्यमानम् । अत्कम् । यः । अस्य । सनिता । उत । नृणाम् ॥sáḥ ǀ vrā́dhataḥ ǀ śavasānébhiḥ ǀ asya ǀ kútsāya ǀ śúṣṇam ǀ kṛpáṇe ǀ párā ǀ adāt ǀ
ayám ǀ kavím ǀ anayat ǀ śasyámānam ǀ átkam ǀ yáḥ ǀ asya ǀ sánitā ǀ utá ǀ nṛṇā́m ǁsaḥ ǀ vrādhataḥ ǀ śavasānebhiḥ ǀ asya ǀ kutsāya ǀ śuṣṇam ǀ kṛpaṇe ǀ parā ǀ adāt ǀ
ayam ǀ kavim ǀ anayat ǀ śasyamānam ǀ atkam ǀ yaḥ ǀ asya ǀ sanitā ǀ uta ǀ nṛṇām ǁ10.99.9 Aṣṭaka 8.5.15.3Anuvāka 10.8.134
-
Ṛk 10
अ॒यं द॑श॒स्यन्नर्ये॑भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी ।
अ॒यं क॒नीन॑ ऋतु॒पा अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ॥अयं दशस्यन् नर्येभिर् अस्य दस्मो देवेभिर् वरुणो न मायी |
अयं कनीन ऋतुपा अवेद्य् अमिमीताररुं यश् चतुष्पात् ||ayám daśasyánnáryebhirasya dasmó devébhirváruṇo ná māyī́ ǀ
ayám kanī́na ṛtupā́ avedyámimītārárum yáścátuṣpāt ǁayaṃ daśasyan naryebhir asya dasmo devebhir varuṇo na māyī |
ayaṃ kanīna ṛtupā avedy amimītāraruṃ yaś catuṣpāt ||अ॒यम् । द॒श॒स्यन् । नर्ये॑भिः । अ॒स्य॒ । द॒स्मः । दे॒वेभिः॑ । वरु॑णः । न । मा॒यी ।
अ॒यम् । क॒नीनः॑ । ऋ॒तु॒ऽपाः । अ॒वे॒दि॒ । अमि॑मीत । अ॒ररु॑म् । यः । चतुः॑ऽपात् ॥अयम् । दशस्यन् । नर्येभिः । अस्य । दस्मः । देवेभिः । वरुणः । न । मायी ।
अयम् । कनीनः । ऋतुऽपाः । अवेदि । अमिमीत । अररुम् । यः । चतुःऽपात् ॥ayám ǀ daśasyán ǀ náryebhiḥ ǀ asya ǀ dasmáḥ ǀ devébhiḥ ǀ váruṇaḥ ǀ ná ǀ māyī́ ǀ
ayám ǀ kanī́naḥ ǀ ṛtu-pā́ḥ ǀ avedi ǀ ámimīta ǀ arárum ǀ yáḥ ǀ cátuḥ-pāt ǁayam ǀ daśasyan ǀ naryebhiḥ ǀ asya ǀ dasmaḥ ǀ devebhiḥ ǀ varuṇaḥ ǀ na ǀ māyī ǀ
ayam ǀ kanīnaḥ ǀ ṛtu-pāḥ ǀ avedi ǀ amimīta ǀ ararum ǀ yaḥ ǀ catuḥ-pāt ǁ10.99.10 Aṣṭaka 8.5.15.4Anuvāka 10.8.135
-
Ṛk 11
अ॒स्य स्तोमे॑भिरौशि॒ज ऋ॒जिश्वा॑ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः॑ ।
सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ॥अस्य स्तोमेभिर् औशिज ऋजिश्वा व्रजं दरयद् वृषभेण पिप्रोः |
सुत्वा यद् यजतो दीदयद् गीः पुर इयानो अभि वर्पसा भूत् ||asyá stómebhirauśijá ṛjíśvā vrajám darayadvṛṣabhéṇa píproḥ ǀ
sútvā yádyajató dīdáyadgī́ḥ púra iyānó abhí várpasā bhū́t ǁasya stomebhir auśija ṛjiśvā vrajaṃ darayad vṛṣabheṇa piproḥ |
sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt ||अ॒स्य । स्तोमे॑भिः । औ॒शि॒जः । ऋ॒जिश्वा॑ । व्र॒जम् । द॒र॒य॒त् । वृ॒ष॒भेण॑ । पिप्रोः॑ ।
सुत्वा॑ । यत् । य॒ज॒तः । दी॒दय॑त् । गीः । पुरः॑ । इ॒या॒नः । अ॒भि । वर्प॑सा । भूत् ॥अस्य । स्तोमेभिः । औशिजः । ऋजिश्वा । व्रजम् । दरयत् । वृषभेण । पिप्रोः ।
सुत्वा । यत् । यजतः । दीदयत् । गीः । पुरः । इयानः । अभि । वर्पसा । भूत् ॥asyá ǀ stómebhiḥ ǀ auśijáḥ ǀ ṛjíśvā ǀ vrajám ǀ darayat ǀ vṛṣabhéṇa ǀ píproḥ ǀ
sútvā ǀ yát ǀ yajatáḥ ǀ dīdáyat ǀ gī́ḥ ǀ púraḥ ǀ iyānáḥ ǀ abhí ǀ várpasā ǀ bhū́t ǁasya ǀ stomebhiḥ ǀ auśijaḥ ǀ ṛjiśvā ǀ vrajam ǀ darayat ǀ vṛṣabheṇa ǀ piproḥ ǀ
sutvā ǀ yat ǀ yajataḥ ǀ dīdayat ǀ gīḥ ǀ puraḥ ǀ iyānaḥ ǀ abhi ǀ varpasā ǀ bhūt ǁ10.99.11 Aṣṭaka 8.5.15.5Anuvāka 10.8.136
-
Ṛk 12
ए॒वा म॒हो अ॑सुर व॒क्षथा॑य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिंद्रं॑ ।
स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥एवा महो असुर वक्षथाय वम्रकः पड्भिर् उप सर्पद् इन्द्रम् |
स इयानः करति स्वस्तिम् अस्मा इषम् ऊर्जं सुक्षितिं विश्वम् आभाः ||evā́ mahó asura vakṣáthāya vamrakáḥ paḍbhírúpa sarpadíndram ǀ
sá iyānáḥ karati svastímasmā íṣamū́rjam sukṣitím víśvamā́bhāḥ ǁevā maho asura vakṣathāya vamrakaḥ paḍbhir upa sarpad indram |
sa iyānaḥ karati svastim asmā iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ ||ए॒व । म॒हः । अ॒सु॒र॒ । व॒क्षथा॑य । व॒म्र॒कः । प॒ट्ऽभिः । उप॑ । स॒र्प॒त् । इन्द्र॑म् ।
सः । इ॒या॒नः । क॒र॒ति॒ । स्व॒स्तिम् । अ॒स्मै॒ । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥एव । महः । असुर । वक्षथाय । वम्रकः । पट्ऽभिः । उप । सर्पत् । इन्द्रम् ।
सः । इयानः । करति । स्वस्तिम् । अस्मै । इषम् । ऊर्जम् । सुऽक्षितिम् । विश्वम् । आ । अभारित्यभाः ॥evá ǀ maháḥ ǀ asura ǀ vakṣáthāya ǀ vamrakáḥ ǀ paṭ-bhíḥ ǀ úpa ǀ sarpat ǀ índram ǀ
sáḥ ǀ iyānáḥ ǀ karati ǀ svastím ǀ asmai ǀ íṣam ǀ ū́rjam ǀ su-kṣitím ǀ víśvam ǀ ā́ ǀ abhārítyabhāḥ ǁeva ǀ mahaḥ ǀ asura ǀ vakṣathāya ǀ vamrakaḥ ǀ paṭ-bhiḥ ǀ upa ǀ sarpat ǀ indram ǀ
saḥ ǀ iyānaḥ ǀ karati ǀ svastim ǀ asmai ǀ iṣam ǀ ūrjam ǀ su-kṣitim ǀ viśvam ǀ ā ǀ abhārityabhāḥ ǁ10.99.12 Aṣṭaka 8.5.15.6Anuvāka 10.8.137
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.