Ṛgveda · Maṇḍala 10 · Sūkta 99
Ṛk 10.99.1
Saṃhitā
कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ ।
कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥
कं नश् चित्रम् इषण्यसि चिकित्वान् पृथुग्मानं वाश्रं वावृधध्यै |
कत् तस्य दातु शवसो व्युष्टौ तक्षद् वज्रं वृत्रतुरम् अपिन्वत् ||
kám naścitrámiṣaṇyasi cikitvā́npṛthugmā́nam vāśrám vāvṛdhádhyai ǀ
káttásya dā́tu śávaso vyúṣṭau tákṣadvájram vṛtratúramápinvat ǁ
kaṃ naś citram iṣaṇyasi cikitvān pṛthugmānaṃ vāśraṃ vāvṛdhadhyai |
kat tasya dātu śavaso vyuṣṭau takṣad vajraṃ vṛtraturam apinvat ||
Padapāṭha
कम् । नः॒ । चि॒त्रम् । इ॒ष॒ण्य॒सि॒ । चि॒कि॒त्वान् । पृ॒थु॒ऽग्मान॑म् । वा॒श्रम् । व॒वृ॒धध्यै॑ ।
कत् । तस्य॑ । दातु॑ । शव॑सः । विऽउ॑ष्टौ । तक्ष॑त् । वज्र॑म् । वृ॒त्र॒ऽतुर॑म् । अपि॑न्वत् ॥
कम् । नः । चित्रम् । इषण्यसि । चिकित्वान् । पृथुऽग्मानम् । वाश्रम् । ववृधध्यै ।
कत् । तस्य । दातु । शवसः । विऽउष्टौ । तक्षत् । वज्रम् । वृत्रऽतुरम् । अपिन्वत् ॥
kám ǀ naḥ ǀ citrám ǀ iṣaṇyasi ǀ cikitvā́n ǀ pṛthu-gmā́nam ǀ vāśrám ǀ vavṛdhádhyai ǀ
kát ǀ tásya ǀ dā́tu ǀ śávasaḥ ǀ ví-uṣṭau ǀ tákṣat ǀ vájram ǀ vṛtra-túram ǀ ápinvat ǁ
kam ǀ naḥ ǀ citram ǀ iṣaṇyasi ǀ cikitvān ǀ pṛthu-gmānam ǀ vāśram ǀ vavṛdhadhyai ǀ
kat ǀ tasya ǀ dātu ǀ śavasaḥ ǀ vi-uṣṭau ǀ takṣat ǀ vajram ǀ vṛtra-turam ǀ apinvat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.099.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.14.01
- Maṇḍala · Anuvāka · Ṛk
- 10.08.126
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vamra Vaikhānasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.