Ṛgveda · Maṇḍala 10 · Sūkta 99
Ṛk 10.99.11
Saṃhitā
अ॒स्य स्तोमे॑भिरौशि॒ज ऋ॒जिश्वा॑ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः॑ ।
सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ॥
अस्य स्तोमेभिर् औशिज ऋजिश्वा व्रजं दरयद् वृषभेण पिप्रोः |
सुत्वा यद् यजतो दीदयद् गीः पुर इयानो अभि वर्पसा भूत् ||
asyá stómebhirauśijá ṛjíśvā vrajám darayadvṛṣabhéṇa píproḥ ǀ
sútvā yádyajató dīdáyadgī́ḥ púra iyānó abhí várpasā bhū́t ǁ
asya stomebhir auśija ṛjiśvā vrajaṃ darayad vṛṣabheṇa piproḥ |
sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt ||
Padapāṭha
अ॒स्य । स्तोमे॑भिः । औ॒शि॒जः । ऋ॒जिश्वा॑ । व्र॒जम् । द॒र॒य॒त् । वृ॒ष॒भेण॑ । पिप्रोः॑ ।
सुत्वा॑ । यत् । य॒ज॒तः । दी॒दय॑त् । गीः । पुरः॑ । इ॒या॒नः । अ॒भि । वर्प॑सा । भूत् ॥
अस्य । स्तोमेभिः । औशिजः । ऋजिश्वा । व्रजम् । दरयत् । वृषभेण । पिप्रोः ।
सुत्वा । यत् । यजतः । दीदयत् । गीः । पुरः । इयानः । अभि । वर्पसा । भूत् ॥
asyá ǀ stómebhiḥ ǀ auśijáḥ ǀ ṛjíśvā ǀ vrajám ǀ darayat ǀ vṛṣabhéṇa ǀ píproḥ ǀ
sútvā ǀ yát ǀ yajatáḥ ǀ dīdáyat ǀ gī́ḥ ǀ púraḥ ǀ iyānáḥ ǀ abhí ǀ várpasā ǀ bhū́t ǁ
asya ǀ stomebhiḥ ǀ auśijaḥ ǀ ṛjiśvā ǀ vrajam ǀ darayat ǀ vṛṣabheṇa ǀ piproḥ ǀ
sutvā ǀ yat ǀ yajataḥ ǀ dīdayat ǀ gīḥ ǀ puraḥ ǀ iyānaḥ ǀ abhi ǀ varpasā ǀ bhūt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.099.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.15.05
- Maṇḍala · Anuvāka · Ṛk
- 10.08.136
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vamra Vaikhānasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.