Ṛgveda · Maṇḍala 10 · Sūkta 99

Ṛk 10.99.12

Indra · Vamra Vaikhānasa

The whole sūkta Link

Saṃhitā

ए॒वा म॒हो अ॑सुर व॒क्षथा॑य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिंद्रं॑ ।
स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥

एवा महो असुर वक्षथाय वम्रकः पड्भिर् उप सर्पद् इन्द्रम् |
स इयानः करति स्वस्तिम् अस्मा इषम् ऊर्जं सुक्षितिं विश्वम् आभाः ||

evā́ mahó asura vakṣáthāya vamrakáḥ paḍbhírúpa sarpadíndram ǀ
sá iyānáḥ karati svastímasmā íṣamū́rjam sukṣitím víśvamā́bhāḥ ǁ

evā maho asura vakṣathāya vamrakaḥ paḍbhir upa sarpad indram |
sa iyānaḥ karati svastim asmā iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ ||

Padapāṭha

ए॒व । म॒हः । अ॒सु॒र॒ । व॒क्षथा॑य । व॒म्र॒कः । प॒ट्ऽभिः । उप॑ । स॒र्प॒त् । इन्द्र॑म् ।
सः । इ॒या॒नः । क॒र॒ति॒ । स्व॒स्तिम् । अ॒स्मै॒ । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥

एव । महः । असुर । वक्षथाय । वम्रकः । पट्ऽभिः । उप । सर्पत् । इन्द्रम् ।
सः । इयानः । करति । स्वस्तिम् । अस्मै । इषम् । ऊर्जम् । सुऽक्षितिम् । विश्वम् । आ । अभारित्यभाः ॥

evá ǀ maháḥ ǀ asura ǀ vakṣáthāya ǀ vamrakáḥ ǀ paṭ-bhíḥ ǀ úpa ǀ sarpat ǀ índram ǀ
sáḥ ǀ iyānáḥ ǀ karati ǀ svastím ǀ asmai ǀ íṣam ǀ ū́rjam ǀ su-kṣitím ǀ víśvam ǀ ā́ ǀ abhārítyabhāḥ ǁ

eva ǀ mahaḥ ǀ asura ǀ vakṣathāya ǀ vamrakaḥ ǀ paṭ-bhiḥ ǀ upa ǀ sarpat ǀ indram ǀ
saḥ ǀ iyānaḥ ǀ karati ǀ svastim ǀ asmai ǀ iṣam ǀ ūrjam ǀ su-kṣitim ǀ viśvam ǀ ā ǀ abhārityabhāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.099.12
Aṣṭaka · Adhyāya · Varga · Ṛk
8.5.15.06
Maṇḍala · Anuvāka · Ṛk
10.08.137
Devatā देवता
Indra
Ṛṣi ऋषि
Vamra Vaikhānasa
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.99.12

Interpretations

Sāyaṇa

अनया स्तुतिमुपसंहृत्याभिमतं वम्रकः पार्थयते। हे असुर बलवन्निन्द्र त्वामेमैवमुक्तप्रकारेण महो महतो हविशः स्तोत्रस्य वा वक्षथाय वहनाय महतः स्वर्गादेः प्रापणाय वा पड्भिः पादैरुप सर्पत्। उपागमत्। स इयान उपागम्यमानः सन् करति करोतु स्वस्तिमविनाशमस्मै वम्रकाय। तथेषमन्नमूर्जं रसं सुक्षितिं सुनिवासं सम्यग्विश्वं सर्वमाभः। आहरतु॥१२॥