Ṛgveda · Maṇḍala 10 · Sūkta 99
Ṛk 10.99.8
Saṃhitā
सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे ।
उप॒ यत्सीद॒दिंदुं॒ शरी॑रैः श्ये॒नोऽयो॑पाष्टिर्हंति॒ दस्यू॑न् ॥
सो अभ्रियो न यवस उदन्यन् क्षयाय गातुं विदन् नो अस्मे |
उप यत् सीदद् इन्दुं शरीरैः श्येनो ऽयोपाष्टिर् हन्ति दस्यून् ||
só abhríyo ná yávasa udanyánkṣáyāya gātúm vidánno asmé ǀ
úpa yátsī́dadíndum śárīraiḥ śyenó’yopāṣṭirhanti dásyūn ǁ
so abhriyo na yavasa udanyan kṣayāya gātuṃ vidan no asme |
upa yat sīdad induṃ śarīraiḥ śyeno 'yopāṣṭir hanti dasyūn ||
Padapāṭha
सः । अ॒भ्रियः॑ । न । यव॑से । उ॒द॒न्यन् । क्षया॑य । गा॒तुम् । वि॒दत् । नः॒ । अ॒स्मे इति॑ ।
उप॑ । यत् । सीद॑त् । इन्दु॑म् । शरी॑रैः । श्ये॒नः । अयः॑ऽअपाष्टिः । ह॒न्ति॒ । दस्यू॑न् ॥
सः । अभ्रियः । न । यवसे । उदन्यन् । क्षयाय । गातुम् । विदत् । नः । अस्मे इति ।
उप । यत् । सीदत् । इन्दुम् । शरीरैः । श्येनः । अयःऽअपाष्टिः । हन्ति । दस्यून् ॥
sáḥ ǀ abhríyaḥ ǀ ná ǀ yávase ǀ udanyán ǀ kṣáyāya ǀ gātúm ǀ vidát ǀ naḥ ǀ asmé íti ǀ
úpa ǀ yát ǀ sī́dat ǀ índum ǀ śárīraiḥ ǀ śyenáḥ ǀ áyaḥ-apāṣṭiḥ ǀ hanti ǀ dásyūn ǁ
saḥ ǀ abhriyaḥ ǀ na ǀ yavase ǀ udanyan ǀ kṣayāya ǀ gātum ǀ vidat ǀ naḥ ǀ asme iti ǀ
upa ǀ yat ǀ sīdat ǀ indum ǀ śarīraiḥ ǀ śyenaḥ ǀ ayaḥ-apāṣṭiḥ ǀ hanti ǀ dasyūn ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.099.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.15.02
- Maṇḍala · Anuvāka · Ṛk
- 10.08.133
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vamra Vaikhānasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.