Ṛgveda · Maṇḍala 10 · Sūkta 99
Ṛk 10.99.6
Saṃhitā
स इद्दासं॑ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् ।
अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो॑अग्रया हन् ॥
स इद् दासं तुवीरवम् पतिर् दन् षऌअक्षं त्रिशीर्षाणं दमन्यत् |
अस्य त्रितो न्व् ओजसा वृधानो विपा वराहम् अयोअग्रया हन् ||
sá íddā́sam tuvīrávam pátirdánṣaḷakṣám triśīrṣā́ṇam damanyat ǀ
asyá tritó nvójasā vṛdhānó vipā́ varāhámáyoagrayā han ǁ
sa id dāsaṃ tuvīravam patir dan ṣaḷakṣaṃ triśīrṣāṇaṃ damanyat |
asya trito nv ojasā vṛdhāno vipā varāham ayoagrayā han ||
Padapāṭha
सः । इत् । दास॑म् । तु॒वि॒ऽरव॑म् । पतिः॑ । दन् । ष॒ट्ऽअ॒क्षम् । त्रि॒ऽशी॒र्षाण॑म् । द॒म॒न्य॒त् ।
अ॒स्य । त्रि॒तः । नु । ओज॑सा । वृ॒धा॒नः । वि॒पा । व॒रा॒हम् । अयः॑ऽअग्रया । ह॒न्निति॑ हन् ॥
सः । इत् । दासम् । तुविऽरवम् । पतिः । दन् । षट्ऽअक्षम् । त्रिऽशीर्षाणम् । दमन्यत् ।
अस्य । त्रितः । नु । ओजसा । वृधानः । विपा । वराहम् । अयःऽअग्रया । हन्निति हन् ॥
sáḥ ǀ ít ǀ dā́sam ǀ tuvi-rávam ǀ pátiḥ ǀ dán ǀ ṣaṭ-akṣám ǀ tri-śīrṣā́ṇam ǀ damanyat ǀ
asyá ǀ tritáḥ ǀ nú ǀ ójasā ǀ vṛdhānáḥ ǀ vipā́ ǀ varāhám ǀ áyaḥ-agrayā ǀ hanníti han ǁ
saḥ ǀ it ǀ dāsam ǀ tuvi-ravam ǀ patiḥ ǀ dan ǀ ṣaṭ-akṣam ǀ tri-śīrṣāṇam ǀ damanyat ǀ
asya ǀ tritaḥ ǀ nu ǀ ojasā ǀ vṛdhānaḥ ǀ vipā ǀ varāham ǀ ayaḥ-agrayā ǀ hanniti han ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.099.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.14.06
- Maṇḍala · Anuvāka · Ṛk
- 10.08.131
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vamra Vaikhānasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.