Sūkta 110
- Devatā देवता
- 1, 3, 10, 11: Agni; 2, 4, 5, 7, 9: Hymn Āprī; 6: Uṣás, Nakta; 8: Iḷā, Bhāratī, Sarasvatī
- Ṛṣi ऋषि
- Jamadagni Bhārgava Or Rāma Jāmadagnya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 2, 5, 10, 11); triṣṭup (6, 7, 9); pādanicṛttriṣṭup (4, 8); ārcītriṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः ।
आ च॒ वह॑ मित्रमहश्चिकि॒त्वांत्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः |
आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि प्रचेताः ||sámiddho adyá mánuṣo duroṇé devó devā́nyajasi jātavedaḥ ǀ
ā́ ca váha mitramahaścikitvā́ntvám dūtáḥ kavírasi prácetāḥ ǁsamiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ |
ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ ||सम्ऽइ॑द्धः । अ॒द्य । मनु॑षः । दु॒रो॒णे । दे॒वः । दे॒वान् । य॒ज॒सि॒ । जा॒त॒ऽवे॒दः॒ ।
आ । च॒ । वह॑ । मि॒त्र॒ऽम॒हः॒ । चि॒कि॒त्वान् । त्वम् । दू॒तः । क॒विः । अ॒सि॒ । प्रऽचे॑ताः ॥सम्ऽइद्धः । अद्य । मनुषः । दुरोणे । देवः । देवान् । यजसि । जातऽवेदः ।
आ । च । वह । मित्रऽमहः । चिकित्वान् । त्वम् । दूतः । कविः । असि । प्रऽचेताः ॥sám-iddhaḥ ǀ adyá ǀ mánuṣaḥ ǀ duroṇé ǀ deváḥ ǀ devā́n ǀ yajasi ǀ jāta-vedaḥ ǀ
ā́ ǀ ca ǀ váha ǀ mitra-mahaḥ ǀ cikitvā́n ǀ tvám ǀ dūtáḥ ǀ kavíḥ ǀ asi ǀ prá-cetāḥ ǁsam-iddhaḥ ǀ adya ǀ manuṣaḥ ǀ duroṇe ǀ devaḥ ǀ devān ǀ yajasi ǀ jāta-vedaḥ ǀ
ā ǀ ca ǀ vaha ǀ mitra-mahaḥ ǀ cikitvān ǀ tvam ǀ dūtaḥ ǀ kaviḥ ǀ asi ǀ pra-cetāḥ ǁ10.110.1 Aṣṭaka 8.6.8.1Anuvāka 10.9.112
-
Ṛk 2
तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ समं॒जन्त्स्व॑दया सुजिह्व ।
मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृं॒धंदे॑व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ॥तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन् स्वदया सुजिह्व |
मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः ||tánūnapātpathá ṛtásya yā́nānmádhvā samañjántsvadayā sujihva ǀ
mánmāni dhībhírutá yajñámṛndhándevatrā́ ca kṛṇuhyadhvarám naḥ ǁtanūnapāt patha ṛtasya yānān madhvā samañjan svadayā sujihva |
manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaraṃ naḥ ||तनू॑ऽनपात् । प॒थः । ऋ॒तस्य॑ । याना॑न् । मध्वा॑ । स॒म्ऽअ॒ञ्जन् । स्व॒द॒य॒ । सु॒ऽजि॒ह्व॒ ।
मन्मा॑नि । धी॒भिः । उ॒त । य॒ज्ञम् । ऋ॒न्धन् । दे॒व॒ऽत्रा । च॒ । कृ॒णु॒हि॒ । अ॒ध्व॒रम् । नः॒ ॥तनूऽनपात् । पथः । ऋतस्य । यानान् । मध्वा । सम्ऽअञ्जन् । स्वदय । सुऽजिह्व ।
मन्मानि । धीभिः । उत । यज्ञम् । ऋन्धन् । देवऽत्रा । च । कृणुहि । अध्वरम् । नः ॥tánū-napāt ǀ patháḥ ǀ ṛtásya ǀ yā́nān ǀ mádhvā ǀ sam-añján ǀ svadaya ǀ su-jihva ǀ
mánmāni ǀ dhībhíḥ ǀ utá ǀ yajñám ǀ ṛndhán ǀ deva-trā́ ǀ ca ǀ kṛṇuhi ǀ adhvarám ǀ naḥ ǁtanū-napāt ǀ pathaḥ ǀ ṛtasya ǀ yānān ǀ madhvā ǀ sam-añjan ǀ svadaya ǀ su-jihva ǀ
manmāni ǀ dhībhiḥ ǀ uta ǀ yajñam ǀ ṛndhan ǀ deva-trā ǀ ca ǀ kṛṇuhi ǀ adhvaram ǀ naḥ ǁ10.110.2 Aṣṭaka 8.6.8.2Anuvāka 10.9.113
-
Ṛk 3
आ॒जुह्वा॑न॒ ईड्यो॒ वंद्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑ ।
त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ॥आजुह्वान ईड्यो वन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः |
त्वं देवानाम् असि यह्व होता स एनान् यक्षीषितो यजीयान् ||ājúhvāna ī́ḍyo vándyaścā́ yāhyagne vásubhiḥ sajóṣāḥ ǀ
tvám devā́nāmasi yahva hótā sá enānyakṣīṣitó yájīyān ǁājuhvāna īḍyo vandyaś cā yāhy agne vasubhiḥ sajoṣāḥ |
tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān ||आ॒ऽजुह्वा॑नः । ईड्यः॑ । वन्द्यः॑ । च॒ । आ । या॒हि॒ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ ।
त्वम् । दे॒वाना॑म् । अ॒सि॒ । य॒ह्व॒ । होता॑ । सः । ए॒ना॒न् । य॒क्षि॒ । इ॒षि॒तः । यजी॑यान् ॥आऽजुह्वानः । ईड्यः । वन्द्यः । च । आ । याहि । अग्ने । वसुऽभिः । सऽजोषाः ।
त्वम् । देवानाम् । असि । यह्व । होता । सः । एनान् । यक्षि । इषितः । यजीयान् ॥ā-júhvānaḥ ǀ ī́ḍyaḥ ǀ vándyaḥ ǀ ca ǀ ā́ ǀ yāhi ǀ agne ǀ vásu-bhiḥ ǀ sa-jóṣāḥ ǀ
tvám ǀ devā́nām ǀ asi ǀ yahva ǀ hótā ǀ sáḥ ǀ enān ǀ yakṣi ǀ iṣitáḥ ǀ yájīyān ǁā-juhvānaḥ ǀ īḍyaḥ ǀ vandyaḥ ǀ ca ǀ ā ǀ yāhi ǀ agne ǀ vasu-bhiḥ ǀ sa-joṣāḥ ǀ
tvam ǀ devānām ǀ asi ǀ yahva ǀ hotā ǀ saḥ ǀ enān ǀ yakṣi ǀ iṣitaḥ ǀ yajīyān ǁ10.110.3 Aṣṭaka 8.6.8.3Anuvāka 10.9.114
-
Ṛk 4
प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्नां॑ ।
व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नं ॥प्राचीनम् बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते अग्रे अह्नाम् |
व्य् उ प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ||prācī́nam barhíḥ pradíśā pṛthivyā́ vástorasyā́ vṛjyate ágre áhnām ǀ
vyú prathate vitarám várīyo devébhyo áditaye syonám ǁprācīnam barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām |
vy u prathate vitaraṃ varīyo devebhyo aditaye syonam ||प्रा॒चीन॑म् । ब॒र्हिः । प्र॒ऽदिशा॑ । पृ॒थि॒व्याः । वस्तोः॑ । अ॒स्याः । वृ॒ज्य॒ते॒ । अग्रे॑ । अह्ना॑म् ।
वि । ऊं॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑यः । दे॒वेभ्यः॑ । अदि॑तये । स्यो॒नम् ॥प्राचीनम् । बर्हिः । प्रऽदिशा । पृथिव्याः । वस्तोः । अस्याः । वृज्यते । अग्रे । अह्नाम् ।
वि । ऊं इति । प्रथते । विऽतरम् । वरीयः । देवेभ्यः । अदितये । स्योनम् ॥prācī́nam ǀ barhíḥ ǀ pra-díśā ǀ pṛthivyā́ḥ ǀ vástoḥ ǀ asyā́ḥ ǀ vṛjyate ǀ ágre ǀ áhnām ǀ
ví ǀ ūṃ íti ǀ prathate ǀ vi-tarám ǀ várīyaḥ ǀ devébhyaḥ ǀ áditaye ǀ syonám ǁprācīnam ǀ barhiḥ ǀ pra-diśā ǀ pṛthivyāḥ ǀ vastoḥ ǀ asyāḥ ǀ vṛjyate ǀ agre ǀ ahnām ǀ
vi ǀ ūṃ iti ǀ prathate ǀ vi-taram ǀ varīyaḥ ǀ devebhyaḥ ǀ aditaye ǀ syonam ǁ10.110.4 Aṣṭaka 8.6.8.4Anuvāka 10.9.115
-
Ṛk 5
व्यच॑स्वतीरुर्वि॒या वि श्र॑यंतां॒ पति॑भ्यो॒ न जन॑यः॒ शुंभ॑मानाः ।
देवी॑र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ॥व्यचस्वतीर् उर्विया वि श्रयन्ताम् पतिभ्यो न जनयः शुम्भमानाः |
देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ||vyácasvatīrurviyā́ ví śrayantām pátibhyo ná jánayaḥ śúmbhamānāḥ ǀ
dévīrdvāro bṛhatīrviśvaminvā devébhyo bhavata suprāyaṇā́ḥ ǁvyacasvatīr urviyā vi śrayantām patibhyo na janayaḥ śumbhamānāḥ |
devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ ||व्यच॑स्वतीः । उ॒र्वि॒या । वि । श्र॒य॒न्ता॒म् । पति॑ऽभ्यः । न । जन॑यः । शुम्भ॑मानाः ।
देवीः॑ । द्वा॒रः॒ । बृ॒ह॒तीः॒ । वि॒श्व॒म्ऽइ॒न्वाः॒ । दे॒वेभ्यः॑ । भ॒व॒त॒ । सु॒प्र॒ऽअ॒य॒नाः ॥व्यचस्वतीः । उर्विया । वि । श्रयन्ताम् । पतिऽभ्यः । न । जनयः । शुम्भमानाः ।
देवीः । द्वारः । बृहतीः । विश्वम्ऽइन्वाः । देवेभ्यः । भवत । सुप्रऽअयनाः ॥vyácasvatīḥ ǀ urviyā́ ǀ ví ǀ śrayantām ǀ páti-bhyaḥ ǀ ná ǀ jánayaḥ ǀ śúmbhamānāḥ ǀ
dévīḥ ǀ dvāraḥ ǀ bṛhatīḥ ǀ viśvam-invāḥ ǀ devébhyaḥ ǀ bhavata ǀ supra-ayanā́ḥ ǁvyacasvatīḥ ǀ urviyā ǀ vi ǀ śrayantām ǀ pati-bhyaḥ ǀ na ǀ janayaḥ ǀ śumbhamānāḥ ǀ
devīḥ ǀ dvāraḥ ǀ bṛhatīḥ ǀ viśvam-invāḥ ǀ devebhyaḥ ǀ bhavata ǀ supra-ayanāḥ ǁ10.110.5 Aṣṭaka 8.6.8.5Anuvāka 10.9.116
-
Ṛk 6
आ सु॒ष्वयं॑ती यज॒ते उपा॑के उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।
दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ॥आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ |
दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ||ā́ suṣváyantī yajaté úpāke uṣā́sānáktā sadatām ní yónau ǀ
divyé yóṣaṇe bṛhatī́ surukmé ádhi śríyam śukrapíśam dádhāne ǁā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau |
divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne ||आ । सु॒स्वय॑न्ती॒ इति॑ । य॒ज॒ते इति॑ । उपा॑के॒ इति॑ । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ ।
दि॒व्ये इति॑ । योष॑णे॒ इति॑ । बृ॒ह॒ती इति॑ । सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे । अधि॑ । श्रिय॑म् । शु॒क्र॒ऽपिश॑म् । दधा॑ने॒ इति॑ ॥आ । सुस्वयन्ती इति । यजते इति । उपाके इति । उषसानक्ता । सदताम् । नि । योनौ ।
दिव्ये इति । योषणे इति । बृहती इति । सुरुक्मे इति सुऽरुक्मे । अधि । श्रियम् । शुक्रऽपिशम् । दधाने इति ॥ā́ ǀ susváyantī íti ǀ yajaté íti ǀ úpāke íti ǀ uṣásānáktā ǀ sadatām ǀ ní ǀ yónau ǀ
divyé íti ǀ yóṣaṇe íti ǀ bṛhatī́ íti ǀ surukmé íti su-rukmé ǀ ádhi ǀ śríyam ǀ śukra-píśam ǀ dádhāne íti ǁā ǀ susvayantī iti ǀ yajate iti ǀ upāke iti ǀ uṣasānaktā ǀ sadatām ǀ ni ǀ yonau ǀ
divye iti ǀ yoṣaṇe iti ǀ bṛhatī iti ǀ surukme iti su-rukme ǀ adhi ǀ śriyam ǀ śukra-piśam ǀ dadhāne iti ǁ10.110.6 Aṣṭaka 8.6.9.1Anuvāka 10.9.117
-
Ṛk 7
दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै ।
प्र॒चो॒दयं॑ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शंता॑ ॥दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञम् मनुषो यजध्यै |
प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ||dáivyā hótārā prathamā́ suvā́cā mímānā yajñám mánuṣo yájadhyai ǀ
pracodáyantā vidátheṣu kārū́ prācī́nam jyótiḥ pradíśā diśántā ǁdaivyā hotārā prathamā suvācā mimānā yajñam manuṣo yajadhyai |
pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥ pradiśā diśantā ||दैव्या॑ । होता॑रा । प्र॒थ॒मा । सु॒ऽवाचा॑ । मिमा॑ना । य॒ज्ञम् । मनु॑षः । यज॑ध्यै ।
प्र॒ऽचो॒दय॑न्ता । वि॒दथे॑षु । का॒रू इति॑ । प्रा॒चीन॑म् । ज्योतिः॑ । प्र॒ऽदिशा॑ । दि॒शन्ता॑ ॥दैव्या । होतारा । प्रथमा । सुऽवाचा । मिमाना । यज्ञम् । मनुषः । यजध्यै ।
प्रऽचोदयन्ता । विदथेषु । कारू इति । प्राचीनम् । ज्योतिः । प्रऽदिशा । दिशन्ता ॥dáivyā ǀ hótārā ǀ prathamā́ ǀ su-vā́cā ǀ mímānā ǀ yajñám ǀ mánuṣaḥ ǀ yájadhyai ǀ
pra-codáyantā ǀ vidátheṣu ǀ kārū́ íti ǀ prācī́nam ǀ jyótiḥ ǀ pra-díśā ǀ diśántā ǁdaivyā ǀ hotārā ǀ prathamā ǀ su-vācā ǀ mimānā ǀ yajñam ǀ manuṣaḥ ǀ yajadhyai ǀ
pra-codayantā ǀ vidatheṣu ǀ kārū iti ǀ prācīnam ǀ jyotiḥ ǀ pra-diśā ǀ diśantā ǁ10.110.7 Aṣṭaka 8.6.9.2Anuvāka 10.9.118
-
Ṛk 8
आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विळा॑ मनु॒ष्वदि॒ह चे॒तयं॑ती ।
ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वती॒ स्वप॑सः सदंतु ॥आ नो यज्ञम् भारती तूयम् एत्व् इऌआ मनुष्वद् इह चेतयन्ती |
तिस्रो देवीर् बर्हिर् एदं स्योनं सरस्वती स्वपसः सदन्तु ||ā́ no yajñám bhā́ratī tū́yametvíḷā manuṣvádihá cetáyantī ǀ
tisró devī́rbarhírédám syonám sárasvatī svápasaḥ sadantu ǁā no yajñam bhāratī tūyam etv iḷā manuṣvad iha cetayantī |
tisro devīr barhir edaṃ syonaṃ sarasvatī svapasaḥ sadantu ||आ । नः॒ । य॒ज्ञम् । भार॑ती । तूय॑म् । ए॒तु॒ । इळा॑ । म॒नु॒ष्वत् । इ॒ह । चे॒तय॑न्ती ।
ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स्यो॒नम् । सर॑स्वती । सु॒ऽअप॑सः । स॒द॒न्तु॒ ॥आ । नः । यज्ञम् । भारती । तूयम् । एतु । इळा । मनुष्वत् । इह । चेतयन्ती ।
तिस्रः । देवीः । बर्हिः । आ । इदम् । स्योनम् । सरस्वती । सुऽअपसः । सदन्तु ॥ā́ ǀ naḥ ǀ yajñám ǀ bhā́ratī ǀ tū́yam ǀ etu ǀ íḷā ǀ manuṣvát ǀ ihá ǀ cetáyantī ǀ
tisráḥ ǀ devī́ḥ ǀ barhíḥ ǀ ā́ ǀ idám ǀ syonám ǀ sárasvatī ǀ su-ápasaḥ ǀ sadantu ǁā ǀ naḥ ǀ yajñam ǀ bhāratī ǀ tūyam ǀ etu ǀ iḷā ǀ manuṣvat ǀ iha ǀ cetayantī ǀ
tisraḥ ǀ devīḥ ǀ barhiḥ ǀ ā ǀ idam ǀ syonam ǀ sarasvatī ǀ su-apasaḥ ǀ sadantu ǁ10.110.8 Aṣṭaka 8.6.9.3Anuvāka 10.9.119
-
Ṛk 9
य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑ ।
तम॒द्य हो॑तरिषि॒तो यजी॑यांदे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥य इमे द्यावापृथिवी जनित्री रूपैर् अपिंशद् भुवनानि विश्वा |
तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ||yá imé dyā́vāpṛthivī́ jánitrī rūpáirápiṃśadbhúvanāni víśvā ǀ
támadyá hotariṣitó yájīyāndevám tváṣṭāramihá yakṣi vidvā́n ǁya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā |
tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān ||यः । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । जनि॑त्री॒ इति॑ । रू॒पैः । अपिं॑शत् । भुव॑नानि । विश्वा॑ ।
तम् । अ॒द्य । हो॒तः॒ । इ॒षि॒तः । यजी॑यान् । दे॒वम् । त्वष्टा॑रम् । इ॒ह । य॒क्षि॒ । वि॒द्वान् ॥यः । इमे इति । द्यावापृथिवी इति । जनित्री इति । रूपैः । अपिंशत् । भुवनानि । विश्वा ।
तम् । अद्य । होतः । इषितः । यजीयान् । देवम् । त्वष्टारम् । इह । यक्षि । विद्वान् ॥yáḥ ǀ imé íti ǀ dyā́vāpṛthivī́ íti ǀ jánitrī íti ǀ rūpáiḥ ǀ ápiṃśat ǀ bhúvanāni ǀ víśvā ǀ
tám ǀ adyá ǀ hotaḥ ǀ iṣitáḥ ǀ yájīyān ǀ devám ǀ tváṣṭāram ǀ ihá ǀ yakṣi ǀ vidvā́n ǁyaḥ ǀ ime iti ǀ dyāvāpṛthivī iti ǀ janitrī iti ǀ rūpaiḥ ǀ apiṃśat ǀ bhuvanāni ǀ viśvā ǀ
tam ǀ adya ǀ hotaḥ ǀ iṣitaḥ ǀ yajīyān ǀ devam ǀ tvaṣṭāram ǀ iha ǀ yakṣi ǀ vidvān ǁ10.110.9 Aṣṭaka 8.6.9.4Anuvāka 10.9.120
-
Ṛk 10
उ॒पाव॑सृज॒ त्मन्या॑ समं॒जंदे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑ ।
वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः स्वदं॑तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥उपावसृज त्मन्या समञ्जन् देवानाम् पाथ ऋतुथा हवींषि |
वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यम् मधुना घृतेन ||upā́vasṛja tmányā samañjándevā́nām pā́tha ṛtuthā́ havī́ṃṣi ǀ
vánaspátiḥ śamitā́ devó agníḥ svádantu havyám mádhunā ghṛténa ǁupāvasṛja tmanyā samañjan devānām pātha ṛtuthā havīṃṣi |
vanaspatiḥ śamitā devo agniḥ svadantu havyam madhunā ghṛtena ||उ॒प॒ऽअव॑सृज । त्मन्या॑ । स॒म्ऽअ॒ञ्जन् । दे॒वाना॑म् । पाथः॑ । ऋ॒तु॒ऽथा । ह॒वींषि॑ ।
वन॒स्पतिः॑ । श॒मि॒ता । दे॒वः । अ॒ग्निः । स्वद॑न्तु । ह॒व्यम् । मधु॑ना । घृ॒तेन॑ ॥उपऽअवसृज । त्मन्या । सम्ऽअञ्जन् । देवानाम् । पाथः । ऋतुऽथा । हवींषि ।
वनस्पतिः । शमिता । देवः । अग्निः । स्वदन्तु । हव्यम् । मधुना । घृतेन ॥upa-ávasṛja ǀ tmányā ǀ sam-añján ǀ devā́nām ǀ pā́thaḥ ǀ ṛtu-thā́ ǀ havī́ṃṣi ǀ
vánaspátiḥ ǀ śamitā́ ǀ deváḥ ǀ agníḥ ǀ svádantu ǀ havyám ǀ mádhunā ǀ ghṛténa ǁupa-avasṛja ǀ tmanyā ǀ sam-añjan ǀ devānām ǀ pāthaḥ ǀ ṛtu-thā ǀ havīṃṣi ǀ
vanaspatiḥ ǀ śamitā ǀ devaḥ ǀ agniḥ ǀ svadantu ǀ havyam ǀ madhunā ǀ ghṛtena ǁ10.110.10 Aṣṭaka 8.6.9.5Anuvāka 10.9.121
-
Ṛk 11
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः ।
अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दंतु दे॒वाः ॥सद्यो जातो व्य् अमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः |
अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतं हविर् अदन्तु देवाः ||sadyó jātó vyámimīta yajñámagnírdevā́nāmabhavatpurogā́ḥ ǀ
asyá hótuḥ pradíśyṛtásya vācí svā́hākṛtam havíradantu devā́ḥ ǁsadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ |
asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ ||स॒द्यः । जा॒तः । वि । अ॒मि॒मी॒त॒ । य॒ज्ञम् । अ॒ग्निः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रः॒ऽगाः ।
अ॒स्य । होतुः॑ । प्र॒ऽदिशि॑ । ऋ॒तस्य॑ । वा॒चि । स्वाहा॑ऽकृतम् । ह॒विः । अ॒द॒न्तु॒ । दे॒वाः ॥सद्यः । जातः । वि । अमिमीत । यज्ञम् । अग्निः । देवानाम् । अभवत् । पुरःऽगाः ।
अस्य । होतुः । प्रऽदिशि । ऋतस्य । वाचि । स्वाहाऽकृतम् । हविः । अदन्तु । देवाः ॥sadyáḥ ǀ jātáḥ ǀ ví ǀ amimīta ǀ yajñám ǀ agníḥ ǀ devā́nām ǀ abhavat ǀ puraḥ-gā́ḥ ǀ
asyá ǀ hótuḥ ǀ pra-díśi ǀ ṛtásya ǀ vācí ǀ svā́hā-kṛtam ǀ havíḥ ǀ adantu ǀ devā́ḥ ǁsadyaḥ ǀ jātaḥ ǀ vi ǀ amimīta ǀ yajñam ǀ agniḥ ǀ devānām ǀ abhavat ǀ puraḥ-gāḥ ǀ
asya ǀ hotuḥ ǀ pra-diśi ǀ ṛtasya ǀ vāci ǀ svāhā-kṛtam ǀ haviḥ ǀ adantu ǀ devāḥ ǁ10.110.11 Aṣṭaka 8.6.9.6Anuvāka 10.9.122
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.